यजुर्वेद

Yajurvēda - कृष्ण यजुर्वेद तैत्तिरीय शाखा

वेदस्यापौरुषेयत्वम्

कथं तर्हि ऋषिभिर्विरचितानामपि वेदमन्त्राणां अपौरुषेयत्वं, ईशकृतिश्च च सिध्यति? “गायथ्याः गायत्री छन्दो विश्वामित्र ऋषिः” इति गायत्रीदीनि विश्वामित्रादयः ऋषयः श्रूयन्ते । प्रत्युत “ यस्य वाक्यं स ऋषिः ” इति परिभाषया वेदस्य स्पष्टं तत्स्रष्टृत्वव्यवहारेवेति वक्ष्यमाणपति ।

अत्रास्ति कश्चिद्विशेषः- यथा च बालोन्मत्तदेवपिशाचसुषुप्तादीनां अज्ञानो- न्मादावेशवशाद्विप्रलापादिनिद्रादिवाशेषोद्गिराणां वचनानां तदर्थानां च, बुद्धिपूर्वकत्वाभावात्, तत्र गुणदोषादिकं तत्कृतिश्च च न गण्यते, नापि प्रामाणाहर्हता च।

प्रत्युत क्वचितु ‘बालादपि सुभाषितम्’ इति न्यायेन तादृशबालवाक्येऽपि अदृष्टार्थमावेशवत्तुल्यं दृश्यते, तथाभूतदेवतावेशविशेषोद्गिराणां भूतदेवतादिकृतिरिववाङ्गीक्रियते, न तु तत्पुरुषकृतिस्तुल्यम्। कचित्तु निधिशेण गृहाणां नहानां च द्रव्यादीनां बोधकत्वेन भूतदेवताधुच्चरितस्यापि प्रामाण्यमेव स्त्रीक्रियते, प्रत्यक्षं प्रतिपद्यते च तदर्थे ।

तथैव समाधौ ब्रह्माभावोपपत्तेर्ऋषिभिरीशविशेषेणोचारितानां छन्दोवचनानामपि ऋषिकृतिरेवे एवं विषैवे भवितुमर्हति । ततश्च अपौरुषेयत्वेन वेदानां ऋषिदर्शनमात्रत्वमेव पर्यवस्यति । एतेन— “ यामृषयो मन्त्रकृतो. .. अन्विच्छन् देवार्त्तपसा श्रमेण ॥ (**तै० ब्रा० २।

८।८।१३ **) “ अहं र्ष्ट्राकृत्” (तै० उ० सू० १०।०।१६) इत्यादावपि ऋषीणां मन्त्रकृतिः केवलं दर्शनश्रवणादिरूपेण, न तु काव्यादि- कृतिरिव पुरुषकृतिरूपेणवगन्तव्यम् ।

वस्तुतस्तु पराब्रह्मणोऽपि वेदकृतिः भूतादिजडवस्तूपचितिरिव वा कवीनां काव्यादिकृतिरिव वा अभूतपूर्वा भवितुं नार्हति, ब्रह्मणि तादात्म्येन नित्यसिद्धस्यैव वेदस्य उद्द्वासात्। उत्सर्जनश्रवणात्। ‘ अस्य महतो भूतस्य निःश्वसितमेतद्यद्यग्वेदः (बृ० उ० २।

४।१०) ” “ अनादिमिथुना नित्या वागुत्सुष्ट्वा स्वयंभुवा ॥” इति च कठकौथुमाकशिलादीनां शाखावर्तते. काकानापि ऋषीणां प्रवचनमात्रेणैव वेदस्य सम्बन्ध इति निर्णीतं मीमांसायाम् “ शाखा - प्रवचनात् ” इत्यादि सूत्रैः ।

एवमेव ब्रह्मणाः सकाशाद्विभूता एतादृशाः प्रत्यक्षाः परब्रह्ममूर्तिरूपाः इन्द्रादिदेवताधिष्ठानभूता क्रगादयो वेदमन्त्राः, परमे व्योमनि परायामृषेण अखण्डदण्डात्मनाऽर्हताः, अनवरतं अतिसूक्ष्मं शब्दायमानाः प्रतिचिह्निताः ।

तांश्च तद्विधाता ब्रह्मणस्पतिः स परम्: पुरुष एव स्वयमुच्चारयतीति वेदे श्रूयते, ये खलु मन्त्राः पूर्व ऋषिभिः श्रुताः अश्रुताश्च पुनः श्रूयन्ते तथा अनुवाश्राश्च भवन्ति तथा च मन्त्रवर्णेः —(१३)

प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम्। यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥ इति (**ऋ० ५।१४।७; वा० य० ३।१५।७ **) एतेन प्रसिद्धमप्यग्निं ऋगादिमन्त्रेभ्यो भिन्नं सङ्ख्यावतां मन्त्राः स्वयंसिद्धाः विद्यन्ते परमे व्योमन्नन्तर्हिता इति सिध्यति ।

अतएव “ अनन्ता वै वेदाः ” इति वचनमपि एतदेव समर्थयति । तस्मात् प्राचांऋषीणां मन्त्रदर्शनवचना-द्वदन्नु इदानीमपि तपसा तादृशं मन्त्रदर्शनं शक्यं भवितुमिति प्रतीयते । तथा च मन्त्रवर्णः—

अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षति ॥ इति (**ऋ० ७।१९।२ **) अत्र ‘ ऋषिभिः ’ इति पदं देहलीदीपनमध्यस्थं सत् ‘ पूर्वेभिः पुरातनैः ’ इत्युभयत्रापि सम्बध्यते, तेन सः अग्निः पूर्वैः नूतनैश्च ऋषिभिः ईड्यः इडितुं शक्य इति ।

तादृशं ऋषिस्वं मन्त्रदर्शनादेव भवतीत्युक्तं, तत्र नूतनर्षित्वं च नूतनमन्त्रदर्शना-देव भवितुं शक्यं नान्यथेति न पुनर्वक्तव्यम् । ‘ उत ’ इत्येतत्पदमेपि यथापूर्वमेव नूतनर्षित्वं बोधयति । ‘ अग्निः पूर्वेभिः पूर्वेभिः ’ इत्येतन्मन्त्रभाष्ये ‘ श्रीवादिब्रह्मणगणिसुनेः ’ आष्यवचनमपि एतदेवोपोह्ययति ।

‘ पूर्वेभिः पुरातनैः नूतनैः उत नवीनैश्च ऋषिभिः मन्त्रदृग्भिः ईड्यः ईडितुं शक्यः, सोऽग्निदेवाँ इहावहत् ’ । ‘ ऋषिभिः ’ रित्यनेनैतदाह – नानृषिर्यथा मन्त्रद्रष्टा भवेत् लोके च प्रासिद्धिरिति । ‘ नूतनै ’ - रित्यनेन तदाह – नार्षि त्वं कालापेक्षमिति ।

तस्मात् तादृशमप्यसामर्थ्याभाव-मन्त्रदर्शनाभावे अनृषित्वे च कारणं, तादृशं मन्त्रदर्शनमेव ऋषित्वे प्रधानं साधनमिति च सम्पद्यते । ‘ ऋषिविप्रः काव्येन ’ इति मन्त्रवर्णात्। अथ पुनः कुत एतददृक्तस्मात्– इदानीमपि यथापूर्व तादृशं मन्त्रदर्शनं भवितुं शक्यमिति, तदेतदपूर्वमपूर्वश्च सर्वेषामप्रसिद्धं नूतनमेव ।

कथं च पुनर्वक्तृकर्नृकं ऋषित्वविषयकं च तादृशं मन्त्रदर्शनं इदानीमपि भवितुं शक्यमित्युच्यते, “ ब्रह्मादर्शनमिदानीमपि संभवति ” न ब्रूमः ; तथा “ अहं मनुरभवं सूर्यश्च ” इति वामदेवस्य ब्रह्ममन्त्रदर्शनमुखे-नोपदिष्टं ब्रह्मदर्शनं प्रसिद्धम्।

तच्च “ ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्सर्वमभवत्तद्यो देवानां प्रत्यबुध्यत स एव तदभवत्तथार्षीणां तथा मनुष्याणां, तदेतत्पश्यन्नृषिर्वाम-देवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति तदिदमप्येते य एवं वेदार्यं ब्रह्मास्मीति स इदं सर्वं भवति ” इति ( बृ० उ० १।

४।१० ) याज्ञवल्क्यस्य उपनिषद्वचनोपदिष्टं च वामदेवस्य तद् ब्रह्मात्मभावदर्शनमिदानीमपि यथोक्त-साधनेन तपसा विदुषां यथापूर्वमेव भवितुमर्हति; तथा भवतोऽप्यभ्युपगम्यते सर्वैरपि शास्त्रैः, “ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ” इति ( बृ० सू० १।

१।१ ) ब्रह्ममीमांसानिर्णयात्। अन्यथा ब्रह्मदर्शनार्थं सर्वशास्त्रानुचिन्तनं सर्वविद्याशिक्षणं तपश्चारिशीलनं च सर्वथा निष्फ लमेव स्यात् ।

सुप्रसिद्धाः तदनन्तरमपि सम्भूताः श्रीशङ्करदेशिकेन्द्रप्रभृतयः साक्षात्कारिणो ब्रह्मतरविदः आचार्याः; तथैव इदानीमपि विद्यन्ते केचित् चतुर्थाश्रमिणः अतिवर्णाश्रमिणश्च ब्रह्मतरज्ञाः आत्मसाक्षात्कारेण प्रसिद्धाः ।

तदिदं शास्त्रसिद्धं वस्तुत्वं भवतीत्यभ्युपगम्यमाने, ब्रह्माकार्यस्य प्रत्यक्षब्रह्मरूपस्य वेदरूपमेव दर्शनं भवितुं न शक्यमिति को हेतुः ? कारणैकविज्ञाने कार्यरूपसर्वविज्ञानप्रतिज्ञेव सर्वकारणीभूतमूलब्रह्मदर्शने तत्कार्यभूतप्रत्यक्षब्रह्मवेदरूपदर्शनप्रति-ज्ञापि अर्थात् सिद्धैवेति न पुनर्वक्तव्यम्।

भूतवस्तूनामिदं स्वभावसिद्धं तत्त्वं यत् साधनसम्पत्तौ सिद्धायां साध्यसिद्धिरेव स्वयमेव भविष्यति । प्रमाणसिद्धौ प्रमेयसिद्धिरेति यावत्। तथा नेत्राथै सन्निकर्षेण तदर्थज्ञानं सम्पद्यते । तस्मात् परब्रह्मणः प्रत्यक्षब्रह्मरूपस्यापि दर्शने तत्त्वं तत् समानमेवाभ्युपगन्तव्यम्।

अथ पूर्वेभ्यो वसिष्ठादिमहर्षिभ्योऽनन्तरं पुतावनन्तरं ब्रह्ममन्त्रदर्शनं वेदर्शनं यस्य कस्यचिद् ज्ञानिनोऽपि संभवदिति साक्षेपे लोके च प्रसिद्धिर्नास्ति, येन तथाऽभ्युपगम्यते । तस्माद् आदिसृष्टौ विश्वाविर्भाव इव ब्रह्मणः सकाशेत् वेदानामावि-र्भावः, तथा ऋषीणां मुखेन तत्प्रकाशश्च यदभूत्, तदेव प्रधानं न च तदनुभवितुं शक्यमिति न्याध्यमिति चेत्, सत्यमेवैतत् – तथा चेत् केवलं वेदान्तवाक्यार्थविचारसाध्यात् ब्रह्मादिभ्यो वेदमन्त्रदर्शनासाम्यं परमतत्वेः साध्यं मन्त्रदर्शानावरणं विशिष्टं(१३)

तद्गर्भस्यार्थायुक्तं भवति । तावता

साधनसिद्धौ साध्यसिद्धि

रिति न्यायः कदाचिदपि न व्यभिचरति । तद्यथा—सर्व- वेदमूलभूतस्य ज्ञानराशिप्रेतसाधनात्मनः परोक्ष्यस्य परब्रह्मणः प्रत्यक्षतत्वबोधकत्वात् गुरुरेव प्रत्यक्षं तत्परं ब्रह्म, तस्माद् ब्रह्मणोऽपि गुरुरेव श्रेष्ठः प्रत्यक्षत्वादिति श्रुतिस्मृतिन्यायादिसिद्धं तत्त्वम्— “ अविद्रांसो विदुपुरै सपेम” (**ऋ० ६।

१५।१० **) गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ॥ गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ इति । परोक्षादपि प्रत्यक्षमेव विशिष्टतरमिति न्याय्यम्। परोक्षस्य परब्रह्मणः प्रत्यक्षीकरणार्थमेव सर्वोऽपि प्रयत्नः ।

तद्देव परोक्ष- ब्रह्मणः यथार्थतत्त्वबोधकत्वेन तत्साक्षात् कारणत्वात् प्रत्यक्षप्रमाणभूतत्वाच्च प्रत्यक्षब्रह्मरूपो वेदः ‘गुरुरिव ' परब्रह्मसमानः, ततोऽपि गरीयानिति पर्यवस्यति । वस्तुतस्तु गुरोरपि तद्गुरुर्वेदेरिवैवासामस्याकरणसामर्थ्ययोगात्, वचनमुखेन ज्ञानदातृत्वाच्च।

तस्मात् तदुपशासनविषयी चे कचिदप्यन्तं तद्वियोगेऽपि तदनुशासनवचनस्यैव प्रामाण्यविनाच्चिरस्याचिराच्च प्रामाण्येन तद्वचनानुशासनस्यैव सर्वथा शरणम्। तद्देव परमब्रह्मनिर्णयार्थं तच्छासनरूपे ऋषिनिभिरनुशासितं गुरुणाऽपि पित्रादिना गायत्र्यादि- सुखोनोपदिदि प्रत्यक्षस्वरूपं वेदवचनमेव शरणम्।

अतएव ईश्वरस्यापि सर्वगुरुत्वं प्रसिद्धम् । “ क्लेशकर्मविपाकाशाथैरापरामृष्टः पुरुषविशेष ईश्वरः ॥ स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात्॥ इति ॥ ( पा० यो० सू० १।२४ ) स गुरुयः क्रियाः कृत्वा चदमस्मै प्रयच्छति ।

( मनु० स्मृ० ) “ उत्पादकब्रह्मदात्रोर्गरीयानवग्रहादः पिता ॥ “ त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति ॥ इति च ( प्र०पो० ६ प्रश्नः ) एवमादीनि वचनानि ब्रह्मदात्रुवेन गुरोः श्रेष्ठत्वं दर्शयन्ति ।

अस्मिन्वेददर्शनादिविषये वासिष्ठस्य गणपतिमुनेः निबद्धमीमांसा श्लोकाः—

१. वेदच्छन्दोमयो मन्त्रो दिव्यदृष्ट्यनुभूतिः । प्रत्यक्षं तत्प्रमाणं स्वात्मना दर्शनादेः ॥ २. वेदो ब्रह्मात्मविज्ञानं नित्यं तस्यानुभूतिः । तपसा तत्प्रकाशाधैमुर्दीर्णा वागपि श्रुतिः ॥ ३. समष्टेः करणेनेव क्रवीणामारमनीरितम् ।

ह्यदाऽनूदितमेववान्तारं तद्दर्शनं श्रुतमू ॥ ४. अनन्ता वै स्थिता वेदाः व्योम्यन्यखण्डस्वरात्मकाः । तपसाऽन्तः समाधौ च श्रूयन्ते ते महर्षिभिः ॥ ५. जन्मातः सिद्धवस्तूनां द्रष्टुर्दर्नदर्शनयोग्यता । सामर्थ्यं तादृशं यत्र तत स्वस्फुरणं स्वयम् ॥ ६.

दधुर्दधुर्वो वेद पूर्वे वै तपसा यथा । इदानीमपि तच्छक्यं तथैव द्रष्टुमन्तरैः ॥ ७. ब्रह्मात्मदर्शने यद्द्यत् यथापूर्व प्रमाणतः । इदानीमपि सम्पाद्यामुषोणामिव तत्त्वतः ॥ ८. तपसाऽन्तर्दृशा चैव पूर्णसद्द्वतदर्शनात् ।

वेदवाचामपि तथा दर्शनं हि भवेत्सुताम् ॥ ९. परस्यापि ब्रह्मणोऽदर्शने शाश्वतो भवेत्। किं शब्दब्रह्मरूपस्य वेदस्य नेति वादतः ॥ १०. बहुधाऽपि तपस्त्वा प्राप्तुं तन्मन्त्रदर्शनम्। नाशक्क्रमहं पूर्ण संस्कृतं हृदयं तथा ॥ ११.

तथापि तपसैवाप्तुं शक्यं तन्मन्त्रदर्शनम्। इति मे सुदृढो यत्तो निश्चययोऽत्पति शाश्वतः ॥ १२. इदानीमपि मन्त्राख्यो सत्यलन्धो महर्षिणाः । प्रदिष्टाश्चारम्हेद्ध्रिभ्यो देवरातः प्रदृश्यते ॥ १३. एवं यो यतते योगात् मनोवाक्कायकर्मणाम् ।

सोऽप्यन्तस्तपसाऽवश्यं मन्त्रद्रष्टा भवेऽपिः ॥

← परिचयः (Back to Index)