ऋगादिलक्षणविचारः
अथ समष्ट्यात्मकरूपस्यापि वेदस्य ऋगादिसंज्ञाभिः प्रदिष्टास्ते भेदाः किं नाममात्रेण प्राप्ताः, उत वस्तुसिद्धाः अथवा प्रवचनादिप्राप्ताः; केवलं ग्रन्थग्रर्यादादिजनिताः; आहोस्विद लाक्षणिका इति विचारः
प्रस्तूयते । अत्र केषांचिदुपदिष्टानां वस्तुत: स्वरूपाभेदेऽपि नाममात्रेण भेदव्यवहारो दृष्टः । तथथा “ तत्तेजोऽसृजत, तदपोऽसृजत, ता अन्नमसृजन्त ” इति छान्दोग्ये ( छां० ६।२।३-४ ) श्रुतानि तेजोऽबन्नात्मकानि त्रीणि भूतानि “वायोराग्निः । अग्नेरापः । अद्भ्यः पृथिवी” इति तैत्तिरीयेके (**तै० उ० २।१।१ **) श्रुतेभ्यः अन्योन्यपृथिवीभूतेभ्यः नाममात्रेण भिन्नानीव दृश्यन्ते, तथापि वस्तुतः अनतिरेकिण्येव, एवं वयाणां चतुर्णां पञ्चानां वा वेदानां नाममात्रेण भेदोऽस्तु इतिचेत्, नैव ऋगादीनां स्वरूपभेदात्, न नाममात्रेण भेद इति वक्तुमनुष्यम्। तथा पूर्वर्षयो वेदानां भेदो वस्तुतत्वसिद्धः इति पक्षोऽप्यसमञ्जस एवेति प्रतिभाति, ऋगादीनां वाचिकारमात्रेण भेदा- प्रतीतेः । “ वाचापरमो विकारो नामधेयम् ” ( छां० ६।१।४ ) इतिवद्वामूपास्त्वविशेषणात्। तथा च “ स वा एष यजुरः परमो विकारः यदेतन्महदुक्थं तदेतत्प्लक्षविधं मितममितं स्वरः सत्यानृते ” इति सर्वेषां शब्दानां वाचिकारत्वानुश्रवणात्। तथा
ऋग्गाथा कुख्या तन्निर्मितं, यजुर्निगदो दृथावाक् तदभितं सामाथौ यश्च घेष्षणः स स्वरः
इति ऋग्यजुःसामां मितामितस्वरादिमात्रेण भेदनिर्देशाच्च, तेन विकारमात्रेण न वस्तुभेदो युक्तः, तथा सद्धिराणां घटशरावा- दीनां न सर्वात्मना भेदो भवति वस्तुसिद्धः । एवं ऋगादिनामरूपभेदामात्रेण वेदानां भेद इत्यभ्युपगम्यत, तत्र हि यो यः खलु यां शाखासादिभेदः अध्यपयति, सा शाखा तस्यैव नाम्ना प्रसिद्धिमर्हति । सिद्धान्तिनश्चैतन् जैमिनिना “ आख्या-प्रवचनात् ” इति, सत्येव ऋगादीनामपि प्रवचनभेद एव वेदभेदे हेतुर्भवेत्, यथा अथर्वणा प्रोक्तोऽथर्ववेदः इति चेत्- नैतत्कक्ष्यम् ऋगादिवेदप्रवक्तृणां ऋगादिप्रधानात् केषांचिदपि ऋषीणामप्रसिद्धेः । अपि च
अथर्वाङ्गिरसो मुखम्
( अथर्व० चौ० १०।७।२० ) इति श्रुतः अथर्वाङ्गिरसां वेदः । इति ऋषिविन्नाम्ना प्रसिद्धोऽथर्ववेदः । ऋगादिवेच वेदेषु ये अवान्तरभेदाः प्रसिद्धाः शाकल-बाष्कल तैत्तिरीय-मैत्रायणी-राणायणीयप्रभृतयः तास्साः शाखाः तत्तद्विप्रवचननिमित्तेन प्राप्ताः सत्यः तत्तच्छाखाध्यापनेन प्रवर्तकाः शाकलादिनानामभिः प्रसिद्धाः सन्ति ऋषयः; न तथा ऋगादि- नामभिः प्रसिद्धाः केचिदप्यः सन्ति, येन तद्वचनेन ऋगादिवेदभेदोऽभ्युपगम्येत ।(११)
न ग्रन्थभेदेन वेदभेदः
अथ ग्रन्थनिमित्तको वेदभेदोऽस्तु, प्रसिद्धाः खलु ऋगादिवेदग्रन्थाः नियता यथार्थ परस्परं भिन्नाः स्वाध्यायप्रवचनपरम्परासमागताः पर्यवसायप्रमाणभूताः इति, नैतदपि युक्तम्- एकग्रन्थान्तरीयमन्त्राणां अन्यत्र वेदे ग्रन्थान्तरेऽपि दर्शनात्। तथा प्रसिद्धे ऋग्वेदग्रन्थे विद्यमानाः तथा अविद्यमाना अपि केचिन्मन्त्राः
क्रुचः
यजुर्वेदेऽपि उपलभ्यन्ते । तथाहि प्रसिद्धे ऋग्वेदग्रन्थाः
अग्निमीळे (ऋ० १।१।१); तत्सवितुर्वरेण्यम्
(**ऋ० ३।६२।१०; वा० सं० ३।३५;२२।९; ३०।२,३६।३; सा० १५६३; तै० सं० १।१।१।१; ११।१।५; तै० ब्रा० १।१।५।२ **) इत्यादयः सदृशमन्त्राः यजुर्वेदेऽपि नियम्यन्ते । न चैतासामृचां यजुर्वेदग्रन्थान्तरे पाठमात्रेण यजुष्ट्वमिति यथा कचिद्वपि वक्तुं शक्यम्। एवं प्रसिद्धे ऋग्वेदग्रन्थे अविद्यमाना अपि काश्चिदृचो यजुर्वेदग्रन्थे दृश्यन्ते । तथाहि
देवो वः सवितोत्पुनातु । अच्छिद्रेण पवित्रेण । वसोः सूर्यस्य रश्मिभिः ॥
(**तै० सं० १।१।५।१ **) इत्येषा ऋक् ऋग्वेदे न पठिता सती यजुर्वेदे एव श्रुता । नहि एतस्या ऋचः ऋग्वेदे पाठाभावेन यजुर्वेदग्रन्थान्तः पाहित्यमात्रेण च स्वतःसिद्धं ऋक्त्वं हीयते, नापि यजुष्ट्वं प्राप्यते । अथास्य मन्त्रस्य यजुर्वेदे एव पाठाद्यजुष्ट्वमेवास्तु इति चेत्- नैवं शक्यं कल्पयितुं, तस्यैव ब्राह्मणे
सावित्रियर्चा
इति विधियाक्येन अस्य मन्त्रस्य ऋक्त्त्वानुगमात् ।
सावित्रियर्चा । सवितृप्रसूतं मे कर्मासिद्धिमिति । सवितृप्रसूतमेवाऽस्य कर्म अवति । पश्चो गायत्रिया त्रिः-पशुमुद्वाच्य
इति (**तै० ब्रा० ३।२।८।६ **) अथ
सावित्रियर्चा
इत्यनेन ऋग्वेदोक्ता सवितृदेवताका या काचिदेव ऋक् स्वीकर्तुं शक्यते, न च ( सावित्रियर्चा
इत्यनेन
देवो वः
इत्यस्यैव ग्रहणं युक्तं, येन तस्य ऋक्त्त्वमनुपपद्येत, इति चेत् न, तत्रैव अनुब्राह्मणे
देवो वः सवितोत्पुनातिवत्याह । सवितृप्रसूत एवेना उद्पुनाति । इति (**तै० ब्रा० २।१।५।२ **) अपाऽपुपचने अस्यैव विनियोगात्। तस्मात् यजुर्वेदग्रन्थेऽपि ऋचां तत्र तत्र पाठात् ग्रन्थनिमित्तको वेदभेद इति वादोऽपि निरस्तः । ऋग्यजुःसाम्नां मन्त्रत्वम्
अथ लक्षणत एव प्राज्ञा ऋग्यजुःसामसंज्ञाः, ताश्च ऋगादिवेदमन्त्राणामेव भवन्ति ।
अहे बुध्निय मन्त्रं मे गोषाय। क्रचः सामामि यजूषि (**तै० ब्रा० १।२।२।२६ **) इत्यास्मिन् मन्त्रे ऋग्यजुःसाम्नां मन्त्रशब्दनेव अनुश्रवणं स्पष्टम्। तत्र ऋचां मितत्वं, यजुषां अमितत्वं, साम्नां स्वरत्वं च प्रधानं लक्षणम् ।
ऋग्गाथा कुक्कुभ्या तन्मितं, यजुरनिर्गदो वृथा वाक् तदमितं, सामाथो यः कच्छ्रे गेष्मणः स स्वरः
इति । अत्र
इत्याघा ऋचः;
प्रातः प्रातरनृतं न चन्द्रमा
इत्यादिकाः गाथाः;
ब्रह्माचार्यस्यपोऽडशान कर्म कुरु दिवा मा स्वाप्सीः
इत्याघाचाशशिक्षा स्वरूपाः कुक्कुभाः;
इषे त्वोर्जे त्वा
इत्यादिकं यजुः;
अशे महा५असि ब्राह्मण भारत
इत्यादिनिर्गदः,
वायुर्षे श्रेष्ठा देवता
इत्यादिः ब्राह्मणगतोऽर्थवादो वृथा वाक्
।
लक्षणत एव वेदभेदः
तत्र ऋचां मितत्त्वं च गायत्र्यादिनियतच्छन्दोनिबन्धनकत्त्वं, यजुषाममितत्त्वं तु अनियतपादाक्षरादिछन्दोऽबन्धनकत्त्वं, साम्नां स्वरत्त्वं च गीतिविशेषरूपपरमिति विवेकः । जैमिनिरपि तदेतदेवाऽनुवदति -
तेषामृग्यत्रार्थवशेन पादव्यवस्था । गीतिषु सामाख्या । शेषे यजुः शब्दः
इति ( पू० मी० सू० १।१ ) तेषामयमेवर्थः यत्र येषु मन्त्रेषु अर्थवशेन अर्थात् गायत्र्यादिच्छन्दःस्वरूपातू निबन्धनेन पादव्यवस्था विद्यते, तेषां मन्त्राणां ऋक्संज्ञा शास्त्रप्रसिद्धा । तद्यथा -
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् इति ॥ (**ऋ० १।१।१ **) अत्र अष्टाक्षरनियताः त्रयः पादा भवन्ति । सोऽयं मन्त्रः त्रिपदागायत्रीछन्दोविनिबन्धनकत्त्वः सन् ऋगित्यच्यते ।
अष्टा क्षरा गायत्री, गायत्री चतुर्विंशत्यक्षरा त्रिपदा
(सं० ना० २ ) इत्यादि श्रुतेः । अत्र अर्थवशेनेत्युपलक्षणम्-गायत्र्यादि- तत्च्छन्दोवृत्तनिबद्ध एव मन्त्रः । नियताक्षरपादोपसंनिहितगायत्र्यादिछन्दोवृत्तनिबद्ध एव मन्त्रः ऋक् संज्ञक इत्यर्थः ।
तदेतदेव ऋचां मितस्वरूपं लक्षणम्। एतासां ऋग्वेदे पठितानां तथा कचिदप्रसिद्धानामपि ऋचामेव गीतीयोगामात्रेण सामसंज्ञा भवति ।(१०)
तस्मादध्युढं साम गीयते इति ( छां० उ० १।३।४; १।७।१) सामब्राह्मणे एवाभिहितत्वात्
ऋचो नास्तिः। चतस्र सामवेदेः
अतएव प्रायः सर्वत्रापि वेदे ऋक्सामयोर्मिथुनत्वेन सहेव योगः श्रुतः इति गम्यते ।
ऋचः सामानि जज्ञिरे, (**तै० उ० १।२।७ **) ऋगं दक्षिणः पक्षः; सामोत्तरः पक्षः (तै० उ० २।३) वागेवर्क प्राणः साम तदा तच्च न्निधुतं यद्वृक् च प्राणश्च ऋक् च साम च
( छां० उ० १।७।१) इत्यादि श्रुतेः। यास्कस्तु
मन्त्रा मननात्, छन्दांसि छादनात्, स्तोमःस्तवनोत्, यजुर्यजतेः, साम सममितृचा, स्वेतेर्चा ऋचा समं मेने इति नैदानाः। ( नि० ७।१२) इति ऋक् सामयोर्विवेचनं स्वरूपं दर्शयति। तस्मात् गीतिमात्रेण ऋचामेव सामसंज्ञेति सिद्धम्।
शेषे यजुः शब्दः
।
अत्रैक ऋक्सामलक्षणव्यतिरिक्तौ मन्त्रभागौ
यजुः
शब्दावाच्यौ भवतः। नियताक्षरपादोपहितगायत्र्यादिछन्दोनिबन्धनरहितो मन्त्रभागो यजुः संज्ञक इत्यर्थः। तदुक्तम्
अनियताक्षरपादनि यजूंपि भवन्ति
इति । तथा
इषे त्वा ऊर्जे त्वा
इत्यत्र द्वे पत्राक्षरे यजुः श्रुते, तथा
इषे त्वा ऊर्जे त्वा
इति च व्यव्यं यजुर्दृश्यं च विनियोगतः कृत्स्नम्। तथा च तद्विधानसूत्रम्
बहुपर्णा बहुशाखाऽप्रतिशुष्काग्रा भवति तामाच्छिनत्तीवे स्वोर्जे त्वेति ( बौ० श्रौ० सू० १।१।१ )
इषे स्वोर्जे त्वेति तामाच्छिनत्पूर्वेजे चेति सनममयत्यनुमार्ष्टि वा इति चापस्तम्बः। एवं अनियताक्षरपादसंहितं छन्दोबन्धनेन यजुर्लक्षणं ज्ञेयम्। अत्र यजुर्मन्त्रे अक्षरपादंयोरनियमात् छन्दोनियमाभावाच्च छन्दोबन्धराहित्यमेव यजुर्लक्षणमिति केचित्। तच्चायुक्तं छन्दोबन्धाभावे
शेषे ब्राह्मणः शब्दः
इति शास्त्रात् यजुषां मन्त्राणामपि ब्राह्मणवाक्यवत्प्रसङ्गः। तस्मादक्षरपादादीनामनियतत्वेऽपि, गायत्र्यादि छन्दोबन्धराहित्त्वेऽपि, यजुषां मन्त्रावाणां, अथापरपौर्वाणां नियतपूर्वापरीभाषावत्त्वं, यत् किञ्चिदलौकिकं, अपौरुषेयाकृत्रिमादिगुणाविशिष्टं, सांदिल्यंरूपं मन्त्रावाक्यानां नियतं छन्दोनिबन्धनमवश्यमुपेयं भवति। नहि
इषे त्वोर्जे त्वा
इत्यग्र
ऊर्जे त्वेव त्वा
इति वा
तेषे स्वोर्जे
इति वा मन्त्रः सम्भवति। नाप्पुक्ष्ममन्त्रवत् परिकल्पयितुं शक्यः। यथा श्रुतमेव विनियोजनीयः। तस्माद्यजुषापि यत्किञ्चित् छन्दोनिबन्धनं वक्तव्यमेव। तस्य च नियताक्षरपादादियुक्तगायत्रीछन्दोलक्षणासंभवात्, यजुश्छन्ददोषास्तु विद्वलच्छन्दःशास्त्रे निर्दिष्टाः। अथर्ववेदस्य न पृथग् लक्षणम्
अथर्ववेदस्य लक्षणं मीमांसाशास्त्रेऽन्यत्र यत्र कुत्रापि वा न पृथग् निर्दिष्टम्। अतः परिशेषात् तत्र गीत्याद्यभावात् ऋग्यजुषोभयात्मकम् इति पर्यवस्यति। तत्र तावत् ऋग्वेदे प्रसिद्धा अपि ऋचः क्वचित् किञ्चित् पाठभेदेन पठिताः सहस्रशः सन्ति। तामयो मिश्राश्च ऋचः सहस्रशो विद्यन्ते
शं नो देवीरभिष्टये, (ऋ० १०।१।१४; अथर्व० १।३।१) अस्य वाचस्य यम्यध्वमि; (ऋ० १।१२।३।६; अथर्व० १।३।१) अस्य वामस्य पालितस्य हेतुः (ऋ० १।१४।४; अथर्व० १।३।१) इति एवमाद्या ऋग्वेदेस्था एव ऋचः
स्वस्तिदा विशार्पा पतिः
(ऋ० १।१७।२।४; अथर्व० १।२।१), आ त्वा हार्पमन्तरभूः (ऋ० १०।१७।३।१; अथर्व० ६।८।१), तिस्रो मातुः ( अथर्व० ६।१०।१), विश्वविदां वाचमविश्वविदाम्च (ऋ० १।१६।३।१०; अथर्व० १।१३।१) इति पाठभेदविशिष्टाः।
अत्र विशार्पापतिः अन्तररोधि, विश्वविदे, वाचमविश्वविद्वाम्
इति ऋक् पाठः। एवं ऋग्वेदेस्थानि कानिचिद् बहूनि सूक्तानि विद्यन्ते। ये त्रिपक्षाः परियन्ति विश्वा रूपाणि विश्रतः । ( अथर्व० १।१३।१)
यस्मादृचो अपातक्षन् । ( अथर्व० १०।१०।२) इन्द्रस्य प्रथमो रथः ( अथर्व० १०।१४।१) इत्येवमाद्या ऋग्वेदे प्रसिद्धा ऋच एव। एवं कानिचिद्यजुष्यपि दृश्यन्ते-
चिरान् वा इदमग्र आसीत् ।
( अथर्व० ८।७।१)
यो विद्याद्यज्ञं प्रत्यक्षम् ।
( अथर्व० ९।३।१)
तस्यौदनस्य बृहस्पतिः शिरः०१
( अथर्व० ११।३।१)
प्राच्य आसीदीयमान एव०१
( अथर्व० १५।१।१)
जितमस्माकमुद्धिषम् । " ( अथर्व० १६।८।१)(११)
त एते मन्त्राः यजुरूपा एव यथायथं निर्दिष्टाः छन्दोभिर्विशिष्टाः । अस्य तुरीयवेदस्य अथर्ववेदसंज्ञा तु अथर्वणा ऋषिणा सङ्गृहीतत्वात्, श्रुत्यध्वरसिनां अथर्वाङ्गिरसां च आथर्वणानाम् अपि मन्त्रबाहुल्याद्वा सिद्धा । एवं वेदानां चतुर्वेदसिद्धे- ऽपि मन्त्रराशेः “ ऋग्यजु ”-रिति द्विधैव भेदो वस्तुतस्सिद्धाः । तस्मात् ऋगादिलक्षणप्रयुक्तमेव “ ऋग्यजुसाम्नां ” स्वरूपमिति सिद्धम्। तदुक्तम्- “ ऋग्यजोऽपि पदार्थानां नान्तं यन्ति पृथक्वशः । लक्षणेन तु सिद्धानामन्तं यन्ति विपश्चितः। ” इति। तस्मात् ऋग्यजुसामशब्दाः ऋगादिलक्षणोपहितान् ऋगादिमन्त्रानैव स्पृशन्ति । न तु ऋगादिवेदेषु प्रसिद्धान् संहिताग्रन्थ- मात्रं, नापि ब्राह्मणवाक्यं ब्राह्मणग्रन्थं वा इति सर्वथा सम्भवते । “ अहे बुध्निय मन्त्र मे गोपाय। ऋचः सामानि यजूंषि। ” (**तै० ब्रा० १।७।१०।३, ५; २।१।१२।६ **) इति स्पष्टतरमाम्नानात्। किं व्यासेन व्यस्ता वेदाः ?
अत्रायं कश्चिद्विचारप्रसङ्गः- आदौ एकरूपेण स्थितं एकमेव वेदं तत्र भगवान् व्यासः पाठप्रवचनादिसौकर्यार्थं चतुर्धा विभजेति भारतादिपुराणग्रन्थे दृश्यते । कीदृशः स विभागः यः खलु व्यासकृत इत्युच्यते ? यदि स्वस्वलक्षणादिनाः ऋगादयो वेदाः; तर्हि तेषां नूतनं विभागं कर्तुं को वा समर्थः ? अथ लक्षणतः सिद्धान्तरूपतो भिन्नानामपि “ व्रीहियव- गोधुमादीनामिव ” एकराशेः पृथक्करणं व्यासकृत ग्रन्थविभागेन प्रवचनसौकर्यार्थमिति चेत्, प्रसिद्धे यजुर्वेदे न केवलानि यजूंषि विद्यन्ते इति न सर्वस्यापि यजुर्वेदग्रन्थस्य यजुष्ट्वमस्तीत्युपन्यस्तमेव । अपि च मधुच्छन्दः प्रभृतिभिर्बहुभिरृषिभिः निर्मितानां बहूनां मन्त्राणां सूक्तानां च एकत्र सङ्ग्रहेण संहितादिग्रन्थानां प्रणेतारः; न तु विभक्ताः; तत्तच्छाखाप्रवर्तकाः प्रवचनकर्तारः ऋग्वेदे शाकलादयः; यजुर्वेदे शुक्ले कण्वमाध्यन्दिनादयः, कृष्णे तु तित्तिरिमैत्रायणादयः; सामवेदे राणायन- प्रभृतयः, अथर्ववेदे शौनकादयश्च ऋषयः प्रसिद्धाः; नहि तत्र व्यासस्य नामापि श्रूयते । तदपि व्यासस्य वेदविभक्तृत्वं तावत् संहिताब्राह्मणारण्यकोपनिषदादिवेदग्रन्थेषु निरुक्तादिवेदशेषु कल्पसूत्रायिवेदिकेषु वेदसम्बद्धेषु न प्रसिद्धम्। न चैतद्वेदार्थविचारशास्त्रयोः पूर्वेत्तरयोर्मीमांसयोरपि यत्र कुत्रापि प्रस्तुतं नापि निर्णीतम्। अपि च “ ऋगाथा कुङ्कुम्या तन्मितम् । ” ( ऐ० ब्रा० २।७।४ ) ‘ अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो ’ ( बृ० उ० २।४।१० ) ‘ तत्रापरा ऋग्वेदो यजुर्वेदः ’ ( मुं० उ० १।१।५ ) इत्यादिषु वेदब्राह्मणोपनिषदादिग्रन्थेष्वोऽपि पूर्वं व्यासकृतो वेदविभागः, आहोस्वित् उत्तरत्रेति आशङ्कायाः, पूर्वमेवेत्युक्ते वसिष्ठादिमहर्षीणामिव उपनिषदादिभ्योऽपि प्राचीनत्वं व्यासस्य तु असङ्गतमेव, येन वसिष्ठादिदृष्टांनां ऋगादीनां विभक्तृत्वं व्यासस्याभ्युपगम्येत। अथ उत्तरत्रेत्युक्ते तल्लक्षणतः सिद्धान्ता मिश्ररूपाणामपि तेषां ऋगादीनां एकराशेः पृथक्करणेन पुनर्वि- भागस्य सम्भवेऽपि प्रसिद्धेषु सर्वेषु ऋगादिवेदग्रन्थेषु लक्षणतः तथा विभागादर्शनात् असङ्गतत्वमेव । ऋग्वत्सम्नोः लक्षणतः विभागोऽपि यजुर्वेदस्य लक्षणप्रयुक्तविभागाभावः तत्र ऋचामपि सत्त्वादिति भावः । तथैव ‘ ऋचः सामानि जज्ञिरे, ऋचः सामानि यजूंषि ’ इति वेदमन्त्रेष्वेव श्रुतानां लक्षणतो आविर्भावादेव ततः प्रागपि विभक्तरूपाणां तेषामृगादीनां पुन- र्विभागः अनुपपन्न एव ।
व्यासपूर्वो मन्त्रविभागः
अथ प्रवचनसौकर्यार्थं अल्पभेदानां एकैकवेदस्य अध्ययनलाभार्थं च ऋगादिग्रन्थविभागामात्रं व्यासकृतमिति वचनमपि ऋग्वेदनामग्रन्थेपि पद्यतेति, तत्तद्ग्रन्थप्रवक्तृणां शाकल-तित्तिरि-माध्यन्दिनादीनामृषीणां प्रसिद्धेः तत्र व्यासनामाप्रसिद्धेः खेति प्रतिषेधं पुरस्तात्। एवं सति वेदस्य चतुर्धा विभागे “ निर्मितमासं भव सद्यसयाचिनु ” इत्यिवत् क्वह्यं निमित्तमात्रत्व- मेव । तथा ‘ व्यासोऽच्छिद्रं जगत्सर्वं ’ इति व्यासस्य सर्वज्ञत्वादिसिद्धिगौरवापुपोद्वलकं चेति परिशिष्यते ।(११)
मन्त्राणामेव संहितात्वं, न ब्राह्मणानाम्। अथ एतेषु ऋग्यजुःसामाथर्वरूपेषु चतुर्ष्वपि वेदेषु मन्त्रात्मको भागः तदग्रन्थस्थ संहिताशब्देन प्रसिद्धः । तेषां ग्रन्थानां संहितात्वं तथा संहिताशब्दावाच्यत्वं तस्य शब्दराशेर्मन्त्रावचभूतानां वर्ण-पद-पादादीनां नियतपौर्वापर्यीभावा-दिलक्षणैर्नियच्छल्लयम्। तेन मन्त्राणां छन्दोवृत्तादिनिबन्धनतः सांहित्यमेष्टव्यम्। अत एव ‘परः संनिकर्षः संहिता’ इति पाणिनिना । तस्मात् नियतच्छन्दोनिबन्धनैर्मेव मन्त्राणां संहितात्वमभ्युपेतव्यम्। अत एव याजुषे आध्वर्यवे कर्मानु-ष्ठाने याजुषमन्त्रप्रयोगावसरे “देवस्य त्वा सवितुः० अग्नेये जुष्टं निर्वपामिध्रीषोमाभ्यां” इत्येव मन्त्रपाठेडपि “ सवित्रे जुष्टं निर्वपामि, इन्द्राय जुष्टं निर्वपामि ” इति तत्तद्देवताभेदेन प्रयोजयितव्यानामुहमन्त्राणां न मन्त्रत्वं । मसि । तत्र प्रयोक्तृमतिकल्पितत्वेन यथोक्तछन्दोनिबन्धननियमपरमलब्धसांहित्यलक्षणमन्त्रत्वाभावात्। तदेतन्मी- मांलिति जैमिनिना “ गुणशब्दस्तथेति चेत्। न समवायात् ” इति० ( जै० सू० १।१।२६-२९ ) तथा एतेषामुह-वाक्यानां प्रयोक्तृमतिकल्पितत्वेन पौरुषेयत्वं च निर्णीतम् “सामानि मन्त्रमेके स्मृत्युपदेशाभ्यां । तदुक्तदोषम् ” इति ( जै० सू० १०।१।१२-२ )
एवं पाठवचनग्रन्थे अनाम्नातानां “ सूर्याय जुष्टं निर्वपामि ” इत्यादिरूपेण कल्पितानां ऊहवाक्यानां पौरुषेयत्वादेव अमन्त्रत्वमपि निर्णीतम् “अनामनातेषुमन्त्रत्वमाम्नातेषु हि विभागः ” इति ( जै० सू० १।१।३४ ) एवं च सति ऊहवाक्यानां पुरुषमतिकल्पितत्वेन मन्त्रत्वाभावे निश्चिते पारिशेष्यात् ब्राह्मणवाक्यवत् वाक्यत्वमेव । एतेन यथोक्तमन्त्रलक्षणा-भावेन ब्राह्मणावाक्यानां न मन्त्रत्वं, ततश्च न संहितात्वं, चेति सिध्यति ।