यजुर्वेदस्य शुक्लकृष्णभेदौ
यजुर्वेदस्य शुक्कुकृष्णभेदौ
अथ त्रयीविद्यान्तर्गतो द्वितीयो यजुर्वेदपाठवचनपरम्पराप्रसिद्धः । स च
यजुर्वेदस्य षडशीतिभेदा भवन्ति
इति । ( चरण० प० )
यजुरेकशताध्यक्कम । शाखानां तु शतैनाथ यजुर्वेदमथाकरोत्
( कू० पु० ४९।५१ ) इति शतधा विस्तृतः श्रूयते । तत्रापि
शुक्लः कृष्णश्चेति
अवास्तरभेदेन द्विविधैव नियतः । उभयत्रापि बह्व्यः शाखाः विद्यन्ते । तत्र कृष्णयजुर्वेदे प्रसिद्धायं तैत्तिरीयशाखायां
औखियाखाण्डिकेया
इति भेदद्वये खाण्डिकेयानां पञ्चभेदाः सन्ति ।
तैत्तिरीयकानां द्विभेदा भवन्ति । औखियाखाण्डिकेया । । इक्षुः खाण्डिकेयानां पञ्चभेदा भवन्ति, आपस्तम्बाः बौधायनाः सत्याषाढाः हिरण्यकेशाः काण्वायनाश्चेति
इति । ( च० व्यु० २ ) एवं पञ्चषा भेदनिर्देशेऽपि नैव तेषां संहिदितादिमभ्याः पृथक् विध्यन्ते, श्रौतादिसूत्रमात्रभेदात्, वेदमन्थस्तु एक एव । तैत्तिरीयशाखायां सारस्वतपाठस्यैतिह्यम्
तैत्तिरीयशाखायां पाठप्रवचनादिपरम्परया चिरात् प्रचलितश्च
सारस्वतपाठोपहितस्य
संहिताब्राह्मणारण्यग्रन्थ- समुदायात्मकस्य यजुर्वेदस्य “ ऋषिश्चन्दोदेवतादिनियमाभावेन यातमयातादोषयुक्तत्वात् मन्त्रब्राह्मणसुखरखाच्च कृष्णम्, कृष्णसत्वमविन्दिनादिशाखास्तु ऋग्यादिनियमानुसरत्वात् मन्त्रब्राह्मणद्वखरत्वाच्च शुद्धत्वेन शुकः्वमिति विवेकः । प्रसिद्धेऽस्मिन् सारस्वतपाठे काण्डानां सङ्कीर्णत्वेन काण्डविभागेन सम्प्रति अध्ययने कर्तुं अशक्यत्वात् , सारस्वतपाठस्याध्ययनुजत्वातवाच्च, इदनीं सारस्वतपाठक्रमेणैव अध्ययनं प्रचलितं। तदेतस्सारस्वतपाठविषये कथानके पुराणान्तरे प्रसिद्धम्। तच्च यजुर्वेदाध्ययनविधिविचारावसरे संस्काररत्नमालायां उद्धृतं, तदेवात्र अनुद्यते –
१
कोडयं सारस्वतो नाम, कथ सारस्वतः पाठः, इत्याकाङ्क्षायां दूतिहासः प्रदर्शयते- “ ब्रह्मसभायां दुर्वासाः साम गाय- न्नास । तं खलु तेजसा क्रूरं दृष्ट्वा सभामध्ये सरस्वती समयात। ततः कुद्धो मुनिः सरस्वतीं शशाप मल्लर्योनी प्रजायस्वेति । ततस्तं देवौ प्रसायामास भगवन् विप्रगृहे जायेयमिति । ततः स मुनिस्तथेत्युक्त्वा जगास । ततो देण्यात्रेयगृहेजायत। ततो वेदविद्देडं भर्तारं प्राप्य, विद्यानिधिं पुत्रं सरस्वती प्रासूत। ततो विद्यानिधिं कृतोपयवनं पुत्रं पिता सारस्वतं वेदमध्याया- मास, पृष्ठे वेणुदण्डेन। ततस्तै बालस्वादचमेधसं पिता ताडायामास पृष्ठे वेणुदण्डेन। ततः सोऽरोदीत्, सापि तं दृष्ट्वा पुत्रमालिङ्ग्यरुदितुमिच्छा बभूव । “ अन्नपूर्ण तं चागीशा निवार्य च पुनः पुनः । ततः सा चिन्तयामास यस्याः कस्याः सुतो नहि ॥ प्राम्य मां ताडयते बालो मम प्राणप्रियः सुतः । ततस्तद्गच्छित्वां सर्ववेदाम्बुजाज्ञान् ब्रह्मविद्यापर्यन्तान् सारस्वताय सरस्वतयुपदिष्टम् । शुचिणपासे निबन्धे वायुधारणां योगादिदम्। ततः सम्पूर्णनिघोडसौ कुरुक्षेत्रे वसन्मुनिः । तपस्तेपे महाभागो देवैरपि सुदुष्करम् ॥
ततः कालेन महता छानाञ्चुरष्टिरभूत्कल
(२५)
कृष्णे शाखान्ते शाखिनो युद्धमन्तेषु धार्यमाणान् तन्मूलेषु बबहुः। तम्मुनिरेभ्योऽवदत् सर्वे शाकं देहीति न: प्रभो । अलं शाकेन भो विप्रा यदि शाको भवेद्वृषि । सारस्वतो मुनि: प्राह तेभ्यो देहीति चण्डिकाम् । श्रुतं शाकं प्रदास्यामि यदि शाकेन ते ह्यलम् ॥ शाकम्भरीति मुनिना प्रसत्कारि वै तदा । शाकाहारोस्तत: सर्वे मुनय: कृतजीवित्ता: ॥ दुर्मिक्षे विनिघ्नँध्ययनं नास्मरँस्तदा । अन्योन्यमभिजगुस्त उच्चैश्च न कंचन॥ ततो विस्मृतवेदास्तु बभूवुर्मुनयो मृदाम्। ततोऽबदु: खिन्नतेषु नारदेनैकं सारस्वतं कृतसर्ववेदाध्ययनं गत्वाऽध्ययनं कुरुध्वमिति । ततस्ते सारस्वतं प्रार्थयामासु:। चतु:षष्टिमुनिगणसहस्रेभ्य: चतु:षष्टिर्वेदपदानध्यापयामास । स तदानेद्यत्तत्रप्रवृद्धांस्तान् तैत्तिरीयशाखिनस्तु साकल्येनाध्ययनं कृत्वा, सर्ववेदविलक्षणान् तैत्तिरीयशाखा द्राडाभ्यमूचु: । अहो ! अतीव विस्मयोऽस्माकं सर्वविलक्षणां शाखामध्यापयति स खस्मान् मृढाकृत्वा निर्मिताम्। तत: सर्वे तैत्तिरीयशाखिन: सम्भूय सारस्वतमूचु:- नायं वेदस्खयाऽध्यापित: सर्ववेदविलक्षणदिति । तत: सारस्वत: सर्वान् श्रेष्ठांमुनीन्प्राह वच:– यद्ययं न भवेद्वेद: प्रतिष्ठां तु करोम्यहम्। आग्रिमप्रवेशनं कुर्यो भवन्तो वाचमीरिताम्॥ तम्मुनिरेभ्य: सर्वे वचनं यस्ययोदितम्। यदि वेदक्रमं विप्र प्रतिष्ठां कुर्महे वयम्॥ तत: सारस्वतेन सहिता: सर्वे मुनय: तत्र तत्र सुनीत्वा निर्णोतुं न शक्नुम: इति तेरुका: ब्रह्माणी जग्मु: । यथा- वयं प्रतिष्ठां निर्वहता: । प्रज्ञापि मुनि सारस्वतमाह- सलम् प्रतिज्ञातं तत्रभवता सारस्वतेन,
सारस्वतो वेदपाठ:
सारस्वतपाठक्रमेणाधेतव्यम्, अन्यथाऽध्ययनफलं नास्तीति । तत: इतरमुनीन्प्राह । सलम् न पाठक्रमेणानुष्ठानकृतो भवतीति । तस्मात् सर्वैर्जितम्। नाग्रप्रवेशनं कर्तव्यमितिहास: । सोऽयं इतिहास:
संस्काररत्नमालायां
निर्दिष्ट: । तत्प्रभृति सारस्वतपाठक्रमेणाध्ययने प्रवृत्तेषु सत्सु इदानीं सर्वत्रापि तदेव प्रचलति । तत्क्रमपरिज्ञानाय सूत्राभावेऽपि प्रक्षिप्ते- पाठक एव तत्र प्रमाणं भवति ।
सारस्वतपाठो व्यत्यास:
तैत्तिरीयशाखायां प्रचलिते सारस्वतपाठे ग्रन्थत्रयं प्रसिद्धम् ‘संहिता, ब्राह्मणं, आरण्यकं’ इति । एतेषु त्रिविधेषु ग्रन्था अपि तत्र यजुर्मन्त्रात्मकोभयरूपमन्त्रभावेऽपि विधिरूपब्राह्म- णावस्थयाऽवष्टब्धवेदत्वेनापि प्रसिद्धसंहिताप्रग्रन्थो न यथोक्तलक्षणप्रयुक्तं संहिताशब्दं शक्तितो निर्वोढुर्महति । तथा ब्राह्मण- ग्रन्थोऽपि यद्यजुर्मन्त्रब्राह्मणोभयात्मकत्वादेव न ब्राह्मणशब्दार्हः इति गम्यते ।
तत्र हि तैत्तिरीयसंहितायां ब्राह्मणे आरण्यके च केचित् सम्प्राप्ता: प्रश्ना: केवलं यजुर्मन्त्रात्मका:–
१. केचिद् प्रश्ना ऋङ्मन्त्रात्मका:- ‘ अदम्मूर्जे पवसे शिश्रियाणो- ’ (**तै० सं० ३।
६।१**) २ केचिद् प्रश्ना ब्राह्मणरूपा:- ‘ प्राचीनवंश करोति०- ’ (**तै० सं० प्र० ६ सम्पूर्ण: प्रपाठक: **) ३ एकस्मिन्नेव प्रश्ने केचिदनुवाका ऋङ्मन्त्रात्मका:- ‘ विष्णो: क्रमोऽसि०- ’ (तै० सं० ४।२।१) ४ केचिद्ब्राह्मणात्मका:- ‘ विश्वरूपो वै त्वाष्ट्रो ’ इति षडनुवाका: (**तै० सं० २।५।१-६ **) तदेतत् दर्शपूर्णमासिकं पौरोडाशिकमनुवाकम् । ५ केचिद् ऋग्यजुषोभयमन्रामका:- “ यृजान: प्रथमं मन: ” (**तै० सं० ४।१।१ **) ६ केचिद् यजुर्मन्त्रब्राह्मणोभयात्मका:- “ प्रजापतिरकामयत०- (**तै० सं० २।१।१ **) ७ केचिद् ऋग्यजुर्मन्त्र-ब्राह्मण-साहसहिता: स्वात्मका: ‘ यो वै देवांदेवचशसेनापयति० । ’ (**तै० सं० ३।१।६ **) ब्राह्मणरूप: ‘‘ अग्नि: प्रात:सवने पावसाधु० ’’ (**तै० सं० १।१।६ त्रिमन्त्रा: **) ‘‘ एष ते रुद्र भागो याज्ञिर यात्मधार्ते सुवश्व ’’ (**तै० सं० १।१।६ **) (३. ब. ब. )(२६)
८. तथा एकस्मिन्नुवाकेऽपि काश्चिद्भागो यजुर्मन्त्रात्मकः, कश्चित् ब्रह्ममन्त्रात्मकः, कश्चिद्भागो ब्राह्मणमन्त्ररूप इत्येव ‘अपबाढं युञ्जु’ (तै० ब्रा० २।१०।४) एवं ब्राह्मणे आरण्यके च संहितायामेव मन्त्रब्राह्मणयोस्साहित्यं बहुलं दृश्यते। तस्मात् तैत्तिरीयशाखायां प्रसिद्धसंहिता- ग्रन्थस्य संहितात्वं, तथा ब्राह्मणग्रन्थस्य ब्राह्मणत्वं च न वस्तुतस्सिद्धं, नापि लक्षणप्रयुक्तग्रन्थविभागतन्त्रोपयोगिमिति वेदितव्यम्। अथ यदुच्येत- ‘ अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः ’ इति श्रुतेः सद्रः प्रागेव दर्शितः। चासोपसृष्टो यजुर्वेदोऽयं पूर्वाचार्याणां स्वाध्यायप्रवचनपरम्पराप्राप्तः इति यथाश्रुतमेवास्व स्वाध्याये प्रवचने च न क्षतिरिति । तथास्तु तर्हि - उभयोरपि ग्रन्थौ न संहितापदेन नापि ब्राह्मणपदेन व्यवहरणीयौ, उभयत्रापि मन्त्रब्राह्मणयोस्सहयोगि साद्ग- र्यात। तस्मादेतद्द्वयमप्यपि नामान्तरेणाभिधीयतां नाम, किं कृतं संहिताब्राह्मणादिनामान्यत्रोपचरितेन वेदद्वयानुकरणेन?
मन्त्राणां त्रिगुणो ब्राह्मणस्य चैकगुणः पाठः
अथ पुनः- ‘ त्रिगुणो पठ्यते यत्र मन्त्रब्राह्मणयोः सह। यजुर्वेदेः स विशेषः शेषाः शाखान्तराः स्मृताः।।’ इति (शौ० च० व्य० परि० २) मन्त्रब्राह्मणयोः साहित्येन पाठवचनमेव यजुर्वेदस्य मुख्यं लक्षणं दर्शितम् । सोऽयं मन्त्रब्राह्मणयोः साहित्येन पाठक्रमः तैत्ति- रीयशाखायामेव दृषः, युक्तश्चायं पक्षः शास्त्रोपदिष्टत्वात्। तस्मात् तैत्तिरीयशाखायां यथाश्रुतमेव संहिताब्राह्मणादिग्रन्थ- विभागः, तथा तदध्ययनादिकं च युक्तमेवेति आशयः। अत्रोच्च्यते- न वयमिह यजुर्वेदे वेदन्तरेऽपि वा मन्त्रब्राह्मणयोः सह पाठं, तदध्ययनं वा प्रतिषेधामः। अपि तु मन्त्र- ब्राह्मणोभयात्मकस्य केवलं संहितात्वं, केवलं ब्राह्मणत्वं च, रचितो नाभिलषामः । प्रस्तुत उदाहृतशौनकवचनानुरोधेन मन्त्र- ब्राह्मणयोः सहैवाध्ययनमभिमंन्यामहे । तत्र तु यो यो मन्त्रभागः तत्रैव तद्द्विरूपो ब्राह्मणभागोऽपि अध्येतव्यः; मन्त्र- विनियोगादिपरिज्ञानार्थमिति शास्त्रतत्त्वम्। तैत्तिरीयशाखायां तु नैव तथास्ति ।
तत्र हि संहितान्तर्गतस्य कस्यचिन्मन्त्र- भागस्य ब्राह्मणं संहितायां, कस्यचिन्मन्त्रभागस्य ब्राह्मणं कचिदारण्यके च विद्यते । तथा संहितान्तर्गतस्य कस्यचिन्मन्त्र- भागस्य कश्चिद् ब्राह्मणभागः संहितायां, कश्चिद् भागः ब्राह्मणेऽपि अस्ति । तथथा ‘ इषे त्वोर्जे त्वा ’ (तै० सं० १।१।१) इति त्रयोदशानुवाकात्मकस्य मन्त्रभागस्य ब्राह्मणं ‘ तृतीयस्यामितो दधि सोम आसीत् ’ (तै० ब्रा० २।५।१) ब्राह्मणग्रन्थे प्रष्टदयं विधते । तथा तस्यैव कश्चिद् ब्राह्मणभागः ‘ विश्वरूपो वै त्वाष्ट्रः ’ इति (तै० सं० २।५।१) संहितायां विधते । एवं ब्राह्मणान्तर्गतस्य मन्त्रभागस्य कश्चिद् ब्राह्मणभागः ब्राह्मणग्रन्थे, कश्चिद् भागः संहितायां च विधते एवमारण्यकेऽपि । तथथा ‘ सत्यं प्रपद्ये ’ इति (तै० ब्रा० २।५।५) इत्यस्य ब्राह्मणमन्त्रभागस्य ब्राह्मणं ‘ देवा वै नाचे न यजुषि ’ (तै० सं० २।५।७) संहितायां विधते । एवं ‘ चित्तिः ख्रुक् ’ इति (तै० आ० २) मन्त्रस्य ब्राह्मणं ‘ प्रजापतिरकामयत ’ इति (तै० ब्रा० २।२) ब्राह्मणग्रन्थे विधते । एवं ग्रन्थद्वयेऽपि शतशः स्थलेषु परस्परं साहित्यं यत्र कुत्रापि पठितयोः तयोः मन्त्रब्राह्मणयोः सहपाठः तथा तदध्ययनमपि यथावच्छिदमपि न सम्भवति । कचित्तु ‘ सप्सख्यामि प्रजा अहं ’ (तै० सं० १।५।६) ‘ सम्प्रजामि प्रजा अहमित्याह ’ (तै० सं० १।५।८) ‘ इमाममुष्म- रशनाम्नतस्य ’ ‘ इमां अघाभिधानोमादत्ते ’ इत्यादिषु मन्त्रब्राह्मणयोः सहपाठसम्भवेऽपि न तावता सर्वेषामपि शक्यं, तथा साहित्यिम्। तस्मान्मन्त्रब्राह्मणयोः सहपाठक्षेऽपि नायं सारस्वतपाठक्रमः शास्त्रोयातमर्हति, नाप्यनुकूलः। किं तर्हि? एकैकः प्रश्नः तथा एकैकोऽनुवाकोऽपि तत्र तत्रैव ब्राह्मणेन सहैव पठितव्यः, अथ किम् ? तथा चेत् एकैको मन्त्रोऽपि तत्तद्द्विरूपेण ब्राह्मणेन सहैव पठितव्यः स्यात् । स्यादेव ‘ त्रिगुणो पठ्यते यत्र मन्त्रब्राह्मणयोः सह ’। इति मतेन। असम्भाविनीयं पद्धतिः खलु । तथा चेत् ‘ मन्त्रब्राह्मणयोः सह ’ इत्यस्य सह छन्दस्य साहित्यं नाम एकैकस्यमिलेवार्थोऽस्तु, न तु साहित्यिमिति । तदा मन्त्रब्राह्मणयोर्वेदभागयोः ‘ सह ’ साहित्येन स्वरादियुक्तेन एकरूपेण(१७)
त्रिगुणं
नयपञ्चाक्षरपदपञ्चाक्षरौण, विभक्तपदपञ्चाक्षरौण, क्रमपदपञ्चाक्षरौण चेत्येवं त्रिविधं अध्ययनं यत्र विद्यते स यजुर्वेदः इत्यर्थः । तथा च तैत्तिरीयसंहिताग्रन्थस्थ यथोक्तेन प्रकरणेन संहितायाः पदक्रमरूपं त्रिगुणं पाठप्रवचनं प्रसिद्धम्, तत्र मन्त्रभागेष्वेव ब्राह्मणभागस्यापि स्वरः पदपाठः क्रमपाठश्च प्रचलितः, नैवं वेदान्तरे विद्यते, इदमेव यजुर्वेदस्य मुख्यं लक्षणं विशिष्टतरमिति भावः । एवं चेत्- संहिताया इव ब्राह्मणग्रन्थस्यापि तथा आरण्यकस्य च पदक्रमादित्रिगुणपाठे भवितव्यः । न हि संहिताग्रन्थमात्रे यजुर्वेदः सम्पूर्णः, ब्राह्मणारण्यकयोरपि सोमादियज्ञोपयोगिकमन्त्रबाहुल्यसत्त्वात्। अथ अन्य वेदान्तरे संहिताग्रन्थस्यैव पदक्रमादिपाठोपलम्भे ब्राह्मणग्रन्थस्य पदविभागाभावात् अत्र सारस्वतपाठोऽपि तथाध्ययनं परम्पराप्राप्तम्। तथा चेत् वस्तुतः वेदान्तरे मन्त्रब्राह्मणयोर्भेदात् : संहिताब्राह्मणग्रन्थविभागोपि उभयोरेवमयोः त्रिगुणं पाठप्रवचनं शक्यं संपादयितुं, तथापि यजुर्वेदे एव तादृशपाठविधानात् युक्तमेव तथैवानुष्ठातुं उभयोरपि ग्रन्थयोः त्रिगुणं पाठप्रवचनं इति प्रतीयते । प्रत्युत, प्रचलितपाठक्रमे एव संहितान्तर्गतमात्रस्य कतिपयमन्त्रभागस्य संहितपदक्रमरूपेण त्रिगुणं पाठः, ब्राह्मणग्रन्थान्तर्गतस्य तु मन्त्रभागस्यापि केवलं संहितारूपेण एकगुणं पाठः, तथा संहितान्तर्गतस्य कतिपयब्राह्मणभागस्य त्रिगुणपाठः, तथा ब्राह्मणारण्यकग्रन्थान्तर्गतस्य विधिभागस्य एकगुणं पाठः, इत्यसामञ्जस्यं स्यात्। त्रिगुणं पठ्यते यत्र
इति वचनोक्तयजुर्वेदलक्षणविरोधाश्रयः प्रश्नः । तथापि सारस्वतपाठेन प्रचलित एव क्रमः साधीयान् सारस्वतमुन्युपदिष्टत्वात्, तथैवाध्ययने एव श्रेयस्त्वाप्रतिपादनात्, अन्यथाध्ययने निष्फलत्वदर्शनात्, तथैव ब्राह्मणादिसारस्वतमुन्युपदिष्टेन सारस्वतपाठेन यथाप्रसिद्धं यथाक्रममेवाध्ययेतव्यः इत्येव युक्तम्। न हि सारस्वतमुनेरुपदिष्टेषु वेदमन्त्रेषु इदानींतनानामस्मादृशां किंचिज्ञानां यत्किञ्चिदपि वैपरीत्यादिकल्पनावसरः । उदाहृतञ्च पूर्वमेव सारस्वतमुनेरितिहासः, तथा सारस्वतपाठे ब्रह्मनिर्णयश्च। एवं भगवतो ब्रह्मणा आदेशात् सोऽयं तैत्तिरीयककृष्णयजुर्वेदः सारस्वतमुन्युपदिष्टेन सारस्वतपाठेन यथाप्रसिद्धं यथाक्रममेवाध्येयः इति निर्णीतं पूर्वैर्महर्षिभिः । तस्मात् तैत्तिरीयककृष्णयजुर्वेदे संहिताब्राह्मणारण्यकग्रन्थानां पृथक् पाठक्रमांतरे नानुष्ठेयम् नाप्यादरणीयमिति वैदिकानां सिद्धान्तः, स च आर्षेयत्वादिश्रद्धोपहितः, अत एव स न प्रतिषेध्यः, निषिद्धे तु तस्मिन् वेदमर्मज्ञाः व्याकुलिता भवेयुः, तदभिमोनिनस्तु कुप्येयुरिति । तथास्तु तर्हि- “ न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्। जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ” ( भ० गी० ३।२६ ) “ अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेत् तु ” ( या० स्मृ० ) इति देशिकोपदेशात् समन्वय एव आश्रयणीय इति युज्यते । तेन तैत्तिरीयककृष्णयजुर्वेदे सारस्वतपाठेनैवाधीयतां नाम, तत्रोत्पन्नायनभेदात् लक्षणतः तत्रयो मन्त्रब्राह्मणादिभेदः ऋक्सामाद्युक्त यजुरादिभेद आर्षेयभेदश्च याथार्थ्येन वेदितव्य एव, न च तस्सारस्वतपाठो निषेद्धुमर्हति ।
१. अपि सारस्वते पाठे ज्ञानमात्रमिहेष्यते
इत्यभिमुक्तवचनात्। तदर्थमेवायं वेदवैदिकास्तम्भव । एवं लक्षणतो विदितो मन्त्रब्राह्मणऋक्सामयजुरादिभेदे वेदितव्ये च, सारस्वतपाठोऽपि विद्यमानस्य सर्वस्यापि मन्त्रभागस्य संहितात्वं लक्षणयुक्तं, विधिभागस्य तु ब्राह्मणत्वं चेत्यर्थोपगतं भवति । ततश्च तैत्तिरीयककृष्णयजुर्वेदे ग्रन्थभेदेन प्रसिद्धिः संहिताब्राह्मणग्रन्थयोः यथोक्तलक्षणोपहितः शास्त्रदर्शिता संहितात्वसिद्धिः ब्राह्मणत्वसिद्धिञ्च कृते विभागेन अन्यथा सम्बन्धाभावेऽध्ययनोर्मालवः वक्तव्यमापद्येत ।
वस्तुतस्तु सारस्वतपाठक्रमेण प्रसिद्धे संहिताग्रन्थे, तथा ब्राह्मणे, आरण्यके च, तत्र तत्र स्वस्वमन्त्राणां मध्ये ब्राह्मणपाठोऽपि सत्तन्नमन्त्राणां यागादिकर्मानुष्ठानविनियोगादिपरिज्ञानानुकूलार्थमेव, न तु पुनः ब्राह्मणवाक्यानामपि संहितात्वावाप्त्यर्थः, नापि संहितात्वाविभाजनार्थायः । दर्शितश्च तत्रापि मन्त्रब्राह्मणयोः यथार्थ्येन साहित्येन पाठक्रमाभावः, तेन त्रिष्वपि ग्रन्थेषु पठितयोर्मन्त्रब्राह्मणयोरसाहित्यकर्मोभयोः सहाध्ययनं सम्भवदिति चिरं चिन्त्यनीयमेव । ॐ(३८)
अथ वेदान्तरेषु संहितायाः पदपाठसत्त्वात्, ब्राह्मणान्मन्त्रस्य पदपाठाभावाच्च, सारस्वतपाठोऽपि तद्वदेव संहिताब्राह्मणारण्यकः, अन्यत्र भेदेन पाठबलाद् यथा यावान् प्रसिद्धः संहिताग्रन्थः स तावानेव याजुषो मन्त्रभागः पदविभागात् त्रिगुणपाठसत्त्वाच्च; यथा यावान् प्रसिद्धो ब्राह्मणग्रन्थः आरण्यकग्रन्थश्च स तावान् सर्वोऽपि विधिरूपः याजुषो ब्राह्मणभागः पदविभागाभावात् त्रिगुणपाठरुपत्वाभावाच्च इति कल्प्यतामिति चेत्, न तु तावन्मात्रेण कल्पनाविशेषेण तत्सेत्स्यति । न हि तावत् सदृशः पुरुषयूथसङ्कीर्णः स्त्रीव्यक्तिविशेषः पुरुषोऽयमिति कल्पनामात्रेण तथा बाह्याकारविकारादिविशिष्ट- वेषसंस्कारेणापि वा स्वभावनः शक्तिसश्च पुरुपत्वं प्राप्नोति, न च सक्त्वचिद्रव्यापादयितुं शक्यम्। एवमेव स्त्रीयूथसङ्कीर्णः स्त्री- वेषोपेतः पुरुषः स्त्रीत्वं न भजते, तदेतद् प्रत्यक्षसिद्धं नाटकादौ, तथैव सारस्वतपाठे सहस्रशः अस्ययजुरादिमन्त्रगणसङ्कीर्णो विधिरूपः ब्राह्मणवाक्यात्मकशब्दराशिरपि तावता मन्त्रगणमध्यपतित्समात्रेण, मन्त्रत्वकल्पनामात्रेण वा, मन्त्रवत् स्वरादि- संस्कारेण वा, पदविभागात् त्रिगुणपाठेनापि वा, स्वयं रूपतः शक्तिस्र नैव मन्त्रो भवितुमर्हति । एवं ब्राह्मणवाक्यसङ्कीर्णो- ऽपि पदविभागाभावे त्रिगुणपाठाभावेऽपि मन्त्रः न ब्राह्मणो भवति । एवं शब्दतः अर्थतश्च मन्त्रब्राह्मणयोः स्वरूपतः स्त्रीपुंरुषवत् सर्वथा भेदो वस्तुसिद्धः । तस्मात् मन्त्रभागो विधिभाग- भेदात् द्विधा विभक्तः सर्वोऽपि वेदः । तत्र मन्त्रभागः
संहिता,
'विधिभागो 'ब्राह्मणे' चेति प्रतिपादितं पुरस्तात् । सोऽयं यथोक्तलक्षणविशिष्टो विधिमन्त्रान्मको ब्राह्मणसंहितासंज्ञको वेदमन्त्रो भेदेन सिद्धः सर्वत्र वेदेषु समानः एकरूपेण प्रतिष्ठितः सुप्रसिद्धः । तत्र विधिमन्त्रात्मकयौब्राह्मणसंहिताभागयोः अन्यतोऽपि भेदेन संस्थितौ महदिदं प्रमाणं यत्सर्व- मपि वेदेषु समाना रीतिरिति प्रवेत्यव्यम्। तत्र मन्त्रब्राह्मणयोः सहैव त्रिगुणपाठ एव यजुर्वेदस्य मुख्यं लक्षणमित्युपगम्यमाने तैत्तिरीयसंहिता-ब्राह्मण-आरण्यक- संज्ञकमन्त्रान्यकल्लक्षस्य समप्रस्थापि यजुर्वेदस्य त्रिगुणपाठ आदरणीयो भवेत्। तैत्तिरीयसारस्वतपाठे तु प्रसिद्धयोः संहिता- ब्राह्मणयोः आरण्यकस्य च यथोक्तिविभिन्नमन्त्रलक्षणस्थित्त्येन त्रिप्वपि ग्रन्थेषु मन्त्रब्राह्मणलक्षाणादू, संहितानाभ्यन्तर्गत- स्वैव मन्त्रब्राह्मणभागेषु त्रिगुणपाठवचनादिसत्त्वाच्च, संहितायाः संहितार्वं, ब्राह्मणग्रन्थस्य ब्राह्मणत्वं, चास्कृतमिति चैवश्येन वेदितव्यव्यम्, तैत्तिरीयकृष्णयजुर्वेदेयेति वेदितव्यम्। मैत्रायणीयसंहितायां तु इतोऽप्यस्ति कश्चिद्विशेषः संस्कृतः, तत्र दर्शेपूर्णमासादिज्यीयजीवकर्मानुरोपेन पौरोडाशिकादिकप्रकर- णानां भेदेन तन्मन्त्रयैः सहैव तत्र तत्र प्रायः सर्वेः तत्सद्ब्राह्मणभागोऽपि पठितः, तथा तस्य त्रिगुणपाठोऽपि प्रचलितः तस्मात् तत्र मन्त्रब्राह्मणयोः साहित्येन पाठप्रवचनं सार्थकमेव । तथापि मन्त्रब्राह्मणयोः सङ्करः तथा आर्पेयनिगमाश्च तद्वतश्च एव, न हि तावता साहित्येपाठमात्रेण यात्रयामातदोषो निवर्तते । तैत्तिरीयसारस्वतपाठे प्रचलितः पाठकम्मः केन प्रमाणेन, केन वा विधिना, केन वा यज्ञादिकनियमेन, कथं कल्पितः, इति न ज्ञायते । नाप्येतत्पाठक्रमे प्रमाणान्तरं दृश्यते, येन तत् ज्ञातुं शक्यं भवेत्। नापि तत्र सूत्रादिकं किञ्चिदस्ति प्रतिवोषकम्। ताहिव्ये बौधायनादिप्रणीता काण्डानुक्रमणिकैव शरणम्। अपि सारस्वते पाठे ज्ञानमात्रमिहेप्यते इति च स्पष्टं वचनम्। तैत्तिरीयशाखाकथानकम्
सोऽयं सारस्वतपाठोपहितः कृष्णयजुर्वेदः केनचिन्मिषितेन याज्ञवल्क्येन चमितः, तथा तदभिंत सतमियं वेदं वैशम्पायन- शिष्याः तित्तिरयो भूत्वा स्वीकुर्वन्तवः, तस्मात् सा शाखा तैत्तिरीयेति प्रथिता । तथा च विष्णुपुराणे तदितिहासः श्रूयते- एक एकं यजुर्वेदन्तं चतुर्धा व्यकलयत्। यजुर्वेदेतरौ शाखाः सप्तविंशन्महामुने । वैशम्पायननामासौ व्याघ्रशिष्यकर वै ॥ १ ॥ शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽनुक्रमात्। याज्ञवल्क्यश्च तस्याभूद् ब्रह्मरात् सुतो द्विज ॥ २ ॥ शिष्यः परमधर्मज्ञो गुरुश्रुश्रूषितः सदा । करिप्रेक्ष्यमहार्यौ समाजे नागमिष्यति ॥ ३ ॥ तस्य वै सहसात्रं तद्भ्रष्टाह्या भविष्यति । पूर्वमेवेन मुनिगणैः समवोऽयं कृतो द्विजम् ॥ ४ ॥ वैशम्पायन एकस्तु तं व्यतिक्रान्तवात्सलात्। क्षत्रियं बालकं सोऽपि पवाहुश्चमथापयत् ॥ ५ ॥शिष्यनाम् च भोः शिष्याः ब्रह्महस्तौ पराश्रुते । चरमं च स्कृते सर्वे न विचार्यामिदं तथा ॥ ४ ॥ अथाह याज्ञवल्क्यस्तं किमेतद्वेद्भिर्द्विजेः । क्रोशितैस्तैजोभिश्चरिरिष्येऽहमदिदं व्रतम् ॥ ५ ॥ ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामुनिम्। मुच्यतां यत्त्वयाधीतं मतो विप्राममानकः ॥ ६ ॥ निस्तेजसा वदत्येतान्यत्वं ब्राह्मणपुङ्गवान्। तेन शिष्येण नार्योऽस्मि समाज्ञाभंष्कारिणा ॥ ७ ॥ याज्ञवल्क्यस्ततः प्राह भगवंतमेतद्यिदम् । समाप्यलं त्वयाधीतं यन्मया तदिदं द्विज ॥ १० ॥
पराशर उवाच- इत्युक्त्वा रुधिराक्तानि स्वरूपाणि यजूंष्यथ। छर्द्दिवा ददौ तस्मै ययौ च स्वेच्छया मुनिः ॥ ११ ॥ यजूंष्यथ वितृज्ञानि याज्ञवल्क्येन वै द्विजाः । जगृहुस्तिथिरा भूत्वा तैत्तिरीयास्तु ततः स्मृताः ॥ १२ ॥ ब्रह्महत्या व्रत चीर्णं गुरुणा नोदितं तु वै । चरकाध्वर्यवस्ते तु चरतामुनिसत्तम ॥ १३ ॥ याज्ञवल्क्योऽपि मैत्रेण प्राणायामपरायणः । तुष्टाव प्रणतः सूर्य यजूंष्यभिलषणः ॥ १४ ॥
याज्ञवल्क्य उवाच- नमः सवित्रे दाराय मुकुरमिततेजसे । ऋग्यजुःसामरूपाय त्रयीधामात्मने नमः ॥ १५ ॥ इत्येवमादिभिरतेन स्तूयमानः स वै रविः । वाजीरूपधरः प्राह प्रियतामभिवान्छितम् ॥ १६ ॥ याज्ञवल्क्यस्तथा प्राह प्रणिपत्य दिवाकरम्। यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ ॥ १७ ॥
पराशर उवाच- एवमुक्तो ददौ तस्मै यजूंषि भगवान् रविः । अथायायामसंज्ञानि यानि चेति न तदुरुः ॥ १८ ॥ यजूंष्यपि पैलौतानि तानि विप्रैर्द्विजोत्तम । वाजिनस्ते समाख्याताः सूर्याथाः स भवेद्यतः ॥ १९ ॥ शाखामेदस्तु तेषां वै षन्न षत्र च वाजिनाम्। कण्वोवाचास्तु महाभाग याज्ञवल्क्यप्रकीर्तिताः ॥ २० ॥ इति
भागवते- वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन्। यच्छेद्धर्द्द ब्रह्माहृक्षणाय गुरोर्व्रतम् ॥ १ ॥ याज्ञवल्क्यस्तु तच्छिष्यः प्राद्वाहो भगवन्निक्यम्। चरितैनादपसारणां चरित्वेऽहं सुदुश्वरम् ॥ २ ॥ इत्युक्तो गुरुः प्राह कृपिलौऽपि हलं त्वया । विप्रावमन्त्रा शिष्येण मदधीत त्यजाधिते ॥ ३ ॥ देवरातसुतः लोऽपि छर्द्दित्वा यजुषां गणम्। ततो गतोऽष्टौ मुनयो दद्धुस्तत्सर्वनुर्गनाम् ॥ ४ ॥ भूत्वा तिरियो मलान् तच्छोलुपतया ददुः । तैत्तिरीया इति यजुः शाखा प्रासन्नुपेकाक्षाः ॥ ५ ॥ याज्ञवल्क्यस्ततो महान् छन्दांस्यानि गवेषयन्। गुरोरविद्यमानानि सुपतत्खेऽर्कमीश्वरम् ॥ ६ ॥
याज्ञवल्क्य उवाच- ॐ नमो भगवते आदित्यायार्य्याय अथाथायामंयजुःकाम उपलक्षामीति ।
सूत उवाच— पूर्व स्तुतः स भगवान्नाजिसुरूपधरो हरिः । यजूंष्यथाथायामानि मुनयेऽदत्प्रसाद्तः ॥ ७ ॥ चतुर्विंशतिशाखाः दश पक्ष तथा विशुः । जगृहुर्वाजिसंज्ञस्यः काण्वमाध्यन्दिनादयः ॥ ८ ॥ इति
तत्र भगवान् याज्ञवल्क्यः तदिदं सर्वं वेदरहस्यं सूक्ष्मया दृशा समीक्ष्य प्रसिद्धे तैत्तिरीयशाखान्तर्गते मन्त्रब्राह्मणात्मके तथा आर्षेयानुशासनिकं याजुष्यं यमनयनः तपसियागोन तप्सानादित्यप्रसादाल्लब्धया धिया ब्राह्मणादिसाङ्ग्यैर्वदेतं आर्पेवादपिरिच्छेसं चत एव यत् आयामतार्पदिपनिषुंके शुद्धं यजुर्वेदे लब्धवानिति एतावान् महता प्रबन्धेन निर्गमितोऽर्थः । अत्र हि शुक्लयजुर्वेदे मन्त्रलक्षणोपेतः केवलं ऋग्यजुमंत्रात्मकः चत्वारिंशदध्यायपरिमितः संहितापान्नः, तथा ब्राह्मणलक्ष्णो पोपेतः केवलं गद्यरूपः शतपयनाम्नो ब्राह्मणग्रन्थश्चेति ग्रन्थद्वयमेवास्ति प्रसिद्धम्। तयोः मन्त्रब्राह्मणोणात्मकयोः संहिताब्राह्मणग्रन्थयोः परस्परं छाङ्कर्याभावात् आर्षेयादिनियमसत्वाच्च शुक्कम्। अतएवा,(१६)
यातयामत्ता च। एवमिवैतन्निमित्तैः वाजसनेयिशाखायाः शुक्कुत्वे सिद्धे, पारिशेष्यात् तन्निमित्ताभावदेव तैत्तिरीयसारस्वत- पाठलकृष्णत्वमिति अर्थात् सिद्धं भवति )