वेदैकत्वविचारः
मनुष्याणां हितायै सर्वज्ञज्ञानप्रकाशनाय ऋगादिवेदरूपं शास्त्रं प्रववृत्तमिच्छुकम्, सोऽयं शास्त्ररूपो वेदः शब्दरूपः अर्थ- रूपश्चेति द्विधा प्रसिद्धः । तत्र अर्थरूपं शास्त्रं ज्ञानात्मकं अनुभवादिस्वरूपम् ।
शब्दरूपं तु विदित-अनुभूतार्थानुवादकं वाग्नूषमिति विवेकः । तदिदं शब्दशास्त्रमेव स्वार्थबोधे अनन्यनिरपेक्षं स्वत:सिद्धं प्रत्यक्षं प्रमाणं प्रदीपवदेव । तदेतदुभयविषयपि शास्त्रं विषाविशब्देन व्यवच्छिद्यते, तत्र अर्थरूपा विद्या तावत् (वेद) विवद्येतेनेन सर्वं जिज्ञासु-(४१)
मिश्रिति (वेद) इति व्युत्पत्तिसिद्धः ज्ञानरूपः, शब्दरूपा तु वेदयति सर्वं वाच्यमर्थमिति सिद्धा वाग्रूपा । एवं शब्द- तदर्थज्ञानयोरुभयोरपि तदर्थप्रकाशकत्वेन वेदः विद्या इति संज्ञाये द्वे लोके च प्रसिद्धम्।
तदिदं संज्ञाद्वयमपि अर्थ- ज्ञानरूपस्य शाब्दस्य मुख्य वृत्त्या प्राशं, शब्दरूपस्य तु गौणवृत्त्यायेति विशेषः । तत्र ज्ञानरूपविद्याप्रापकत्वात् शब्दविद्या- फलस्य वेदस्य प्रधानं विद्यात्वमिति केचित् । शब्दविद्याफलरूपात ज्ञानरूपस्यैव प्रधानं विद्यात्वमित्यन्ये ।
वाच्यवाचकयोः साध्यसाधनभूतयोः तादात्म्यात् शब्द-तदर्थज्ञानयोरुभयोरान तुल्वं विद्यात्वमित्यपरे ।
वस्तुतस्तु शब्द-तदर्थज्ञानरूपयोः शास्त्रयोर्विचारे तुलेऽपि ज्ञानरूपेण परा विद्या फलकरूपात्; प्रधाना श्रेष्ठा च, शब्दरूपा तु अपरा विद्या तत्साधनभूतत्वात् इलेव युक्तम्। तथा च औपनिषदं ब्राह्मणवचनम्-
द्वे विद्ये वेदितव्ये परं चैवापरा च, तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरूक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ।
(मु० १।१।४) इति शब्दविद्यायाः ज्ञानविद्यायाश्च परापरत्वेन पृथनिर्देशात्। यथा ज्ञानात्मा वाच्योऽक्षररूपः परब्रह्मसंज्ञकः ईश्वरः एकरूपः एक एव नित्यासिद्धः तथैव वाच्यवाचकयोस्तदात्म्यात् सदुब्रह्मात्मकः वाचकरूपः सर्वेऽपि शाब्दामकः सः वेदोऽपि दर्शनश्रवणादिना आविर्भूतः एकरूपः स एक एवेति प्रतीयते ।
यो वेदेन ददाश मर्तो अग्नये । (**ऋ० ८।१९।५ **) इत्यविशेषेण एकवचनेन एकरूपनिर्देशादुगमात्। कथं तर्हि
सर्वे वेदा यत्पदममनन्ति ।
( कठ० १।२।१५ )
इति वेदस्य सर्वशब्देन सह बहुवचनेन च निर्देशः, तथा ऋग्युजः सामार्थर्वनामभेदात्ः चतुःसंख्याप्रासिद्धिः, अवान्तर- भेदापेक्षयेति ब्रूमः; तथा एक एव वृक्षः मूले शाखा पर्णं पुष्पं फलै चेति अवान्तरभेदेन बहुधा दृश्यते, तत्र मूले शाखा पर्णपुष्पादिनः एकास्मान एव पर्णशाखात्मना तु भिन्ना इव दृश्यन्ते ।
फलै वीजे च सर्वीत्मकत्वप्रसिद्धिः । एवं- मेकस्मिन्नेव वेदे अवान्तरभेदेन विशिष्टाः केचन शब्दसमूहाः
सर्वे वेदाः
इत्युच्यन्ते, नहि तावता वेदस्य एकत्वं एकत्वरूपं च हीयते, नाप्यनेकरूपत्वं प्रतिष्ट्याप्यते । एवं क्वचित् गुणवत्त्ववृत्तिक्रियादिभेदेनापि अवान्तरभेदो दृष्टः, यथा प्राणः एक एव सन्नपि श्रुतिस्थानादिभेदेनाणेन भिन्ननामः पञ्चधा प्रसिद्धः । तत्र
योऽस्य प्राङ्ग्ळुषिः स प्राणः, यः प्रत्यङ्लुषिः सोऽपानः। योऽस्य दक्षिणः सुषुिः स व्यानः, य ऊर्ध्वः सुषुिः स उदानः, य उदङ्लुषिः स समानः
इति श्रुतेः( छां० ३।१०।३।१ ) हृदयादिस्थानभेदेनापि
हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशे स्यात् व्यानः सर्वशरीरगः । इति । अत्र एतेषां प्राणादीनां श्रुतिस्थानादिभेदेन पञ्चव्यवहारः; एवं वेदोऽपि वस्तुतः एकरूपः एक एव सन्नपि केनचिद्विशेषेण अनेकेधा व्यवह्रियते ऋगादिसंज्ञामिः।
तथा च ब्राह्मणम्-
सर्वे वेदाः सर्वे घोषाः एकैवं व्याहृतिः प्राणा एष प्राणः ऋच इत्येव विधात
इति ( ऐ० ब्रा० २।२।२ ) । अत्र सर्वे वेदाः इति यद् बहुधा निर्देशः तदिदं
सर्वे घोषाः
घोषरूपाः अभिव्यक्ताः शब्दसमूहाः सर्वे अनेके इति यावत्। तेषां सर्वेषां शब्दसमूहरूंपाणां वेदानां
एकैवं व्याहृतिः
दर्शनादिना अभिव्यक्तिरूप- रूपा एकैवेत्यर्थः ।
प्राणा एव प्राणः
श्रुतिस्थानादिभेदेन पञ्चधा भिन्नाः प्रसिद्धा अपि प्राणः
प्राणः
प्राणामना तु एक एवेति भावः । ऋच इत्येव विधात्
एवं ऋचः ऋगादेः सर्वस्यापि शाब्दराशेः दर्शनादिना अभिव्यक्तिरूपेण एकत्वं वृत्ति- स्थित्यादिभेदेन अनेकेधा व्यवहारः प्राणादिति ज्ञेयम्। अत्र
ऋचः
इत्युपलक्षणं ऋक्पाधान्याभिप्रायम्। तेन
सर्वे वेदाः
इति वेदबहुत्वनिर्देशोऽपि स्थानवृत्तिविषयनाम्नामदिवहुत्वाभिप्रायमेव बोधयति । तथा च
यत्पदममनन्ति
इति च अविशेषेण सर्वेषामपि वेदानां यत्पदनिरूद्दिश्य एकैव सद्धस्तुतः एकरूपेणैव बोधक्रत्वेन निर्देशात्। प्रस्तुत
सर्वे वेदाः
इत्येकरूपेणैव तथा तदत बहूवचनमपि वैदिकैकत्वस्योपपदोक, न तु वेदबहुत्वस्य, तदात्मानामकत्वात् । सर्वेषामपि वेदानां साक्षात् परम्परया वा एकार्थपरत्वात् वैदिकत्वमिति भावः । अत्र
वेदोऽखिलो धर्ममूलम्
इति स्मृतिवचन- मध्युदाहरणीयम्। कथं तर्हि वेदे भुतानां अग्नीन्द्रसूर्यादिनेकदेवतास्तुतीनां एकार्थपरवस्तू, येन एकार्थपरत्वेन वेदानामेकत्वमध्यवसीयत। एकं सद् विप्रा बहुधा वदन्त्यस्ति यमं मातरिश्वानमहुः ॥ (**ऋ० १।१६४।४६ **)(१६)
इति एकस्यैव सद्वस्तुनः अग्न्यादिविविधविभूतिदर्शनात्। तस्मादादीशानिः शाखाडाविभूतेः तथा ऋषिभिश्च तपसा दृष्टः श्रुतश्च वाक्स्वरूपः सर्वोऽपि छन्दोमयो शब्दराशिः शाखासंज्ञितो वेदः एकरूपः एक एव, साक्षात् परम्परया वा एकार्थ- प्रतिपादनपरत्वादिति सर्वथा सम्पद्यते ।
अत एव सोऽयं सर्वोऽपि वेदराशिः प्राधान्येन ऋक्शब्देनैवाभिधीयते । तथा च दीर्घतमसः आर्षे ब्रह्मज्ञादर्शनम्—
ऋचो अक्षरे परमे व्योमन् यस्मिन देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमुचा करिष्यति य इत्तद्विदुस्त इमे समा सते ॥ (ऋ० १।१६४।३९; अथर्व० १०।१०।१८; तै० ब्रा० ३।१०।१।१४; तै० आ० २।१।१; नि० १।२०) तस्यायमर्थः—
ऋचः
वाचकात्मना सिद्धस्य ऋगादिछन्दोराशेः । यस्मिन्
अक्षरे
अक्षररूपे जगद्रूपे;
परमे व्योमन्
परमाकाशाभिधे सद्वस्तुनि
विश्वे देवाः
सर्वे देवाः ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनो जीवात्मनः सर्व- जगद्रूपा, तथा तद्वाचकस्वरूपः शब्दसमुदायः
अधि निषेदुः
प्रतिष्ठिताः
। यः
मनुष्यः
तत्
ऋगादिसर्वशब्दाच्यं अक्षरब्रह्मरूपं परं अर्थ
न वेद
न जानाति,
ऋचा
केवलेन वाचकेन ऋगादिछन्दोराशिना
किं करिष्यति
न किं चिद्व्योजनमित्यर्थः । य इत्तद्विदुस्त इमे समासत इत्येवं तदत्त्यर्थं परं अर्थ जानन्ति, ते यथार्थज्ञानेन वेदफलं लब्ध्वा अमृतत्वमानो भवन्तीति भावः । अत्र सर्वेषामपि वेदानां ऋक्शब्देन निर्देशात्ता, तथा तेषां अक्षरब्रह्मकायेपरत्वोपदेशात् स्पष्टतरं वैदिकत्वं एकार्थपरत्वात् इति सिध्यति—
प्राणा एव प्राणाः ऋच इत्येव विद्यात्
इति च उदाहृतं ब्राह्मणवचनम् । सोऽयं शब्दरूपो वाक्प्रायमको वेदः
मन्त्ररूपः ब्राह्मणरूपश्चेति द्विधा प्रसिद्धः
। तत्र गायत्री आदि छन्दोनिबन्धनानियत: कार्यस्थेन विनियुक्तः, क्वचित् वस्तुस्तोपवर्णनादिविशिष्ठश्च भवति । गायत्रीछन्दोवत् नियतपदरहितः केवलं वाक्यरूपः गद्यात्मकः क्वचित् गाथात्मकश्च विधिभागः मन्त्राणां जपहोमादिषु विनियोजकः सएवं विधिभागस्य
ब्राह्मणम्
इति संज्ञा शास्त्रसिद्धा । मन्त्रब्राह्मणात्मको वेदः इति प्राचां वैदिकानां सिद्धान्तः प्रसिद्धः । अत्र विधिभागस्य ब्राह्मणसंज्ञा तु ब्रह्मसंज्ञितानां मन्त्राणां विधानाद्यर्थप्रकाशना द्वारा मन्त्रोपसर्जनीभूतत्वादेव प्राप्ता । मन्त्राणां ब्रह्मसंज्ञा तु ब्रह्मवेत्तृस्तम्भभूतत्वात् ब्रह्मकार्यपरत्वाच्च। तथा मन्त्रवर्णः—
उक्षा इव सूयो ज्योतिषाग्निजाता ब्रहणानामसि (**ऋ० २।१२।२ **) इति गृत्समदः । हे इन्द्र त्वं
ज्योतीषां महः
पूजनीयः
सूर्यो' अखौ
उक्षा
आत्मनो ज्योतिः किरणाजीव स्वं
विश्वाषां हतू
सर्वेषामेव
ब्रहणां मन्त्राणां
जनिता
जनयिता प्रादुर्भावहेतुभूतोऽसि । तस्य परमपुरुषस्य
ब्रहणस्पति
संज्ञापि ब्रह्मसंज्ञकमन्त्रावि- अविष्कारत्वादेव—
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम्
इति च (**ऋ० १।४०।५ **) ब्रह्मशब्दस्थाने तदुच्चे च मन्त्रशब्दश्रवणात् ब्रह्मैव मन्त्रः मन्त्र एव ब्रह्मेति सिध्यति । एवं सहस्रशः श्रुतिषु ब्रह्मशब्देनैव मन्त्रो दर्शितः तथा सन्नप्रायेणैव निर्दिष्टं ब्रह्मशब्दः श्रुतः । न क्वचिदपि ब्रह्मशब्देन ब्राह्मणभागो निर्दिष्टः तस्य वेदत्वे श्रुतिरूचेऽपि, नापि ब्राह्मणवाक्यानिनिर्देशार्थं ब्रह्मशब्दः प्रयुक्तः । तथा च
ब्राह्मणः इदं ब्राह्मणं
इति व्युत्पत्त्या
ब्राह्मणं नाम
ब्रह्मसम्बन्धी अर्थात् मन्त्रसम्बन्धीं कश्चिद् वेदभाग इति गम्यते । एतेन सर्वत्र वेदेषु मन्त्रभागस्यैव ब्रह्मशब्देन निर्देशाद्, विधिभागस्य तु ब्राह्मणशब्देनैव निर्देशाच्च पारिशेष्यात्— ब्रह्मसंज्ञितस्य मन्त्रभागस्यैव मुख्यं वेदत्वं, विधिभागस्य तु
ब्राह्मणं इदं ब्राह्मणं' इति मन्त्रसम्बन्धित्वात् मन्त्राणां अर्थ- प्रकाशकत्वेन, कचिद् विनियोजकत्वेन च, तदुपसर्जनीभूतत्वात् ब्राह्मणस्य गौणं वेदत्वमिति सिध्यति । यथा वेदस्य गौणं ब्रह्मत्वं परब्रह्मपरमपुरुषस्तुतेः, तद्वाचकत्वात्तद्वाच्याद् ब्रह्मत्वरूपपरमपुरुषपर्यन्तैः मुख्यं ब्रह्मत्वं तु परब्रह्म एव ।
तद्वैव ब्रह्म- स्वरूपस्य मन्त्रस्यैव मुख्यं वेदत्वं, मन्त्रार्थानुवादकत्वेनैव प्राप्तं विधिभागस्य ब्राह्मणस्यापि वेदत्वं, न तु स्वतः, अत गौण- मिति उद्गीयते—(१७)
तदपि मन्त्रार्थानुवादकत्वं च आमनः ब्राह्मणभागस्य तद्ब्राह्मणवचनमेव तत्र तत्र स्वयमेवोद्घोषयति । ब्राह्मणवाक्य- प्रतिपादितेऽर्थे प्रामाण्यम् ऋगादिमन्त्राणामेव अवलम्बनत्वेन निर्दशात् । “तदेतदृतचाभ्युक्तम्, तदप्येतदृचिणोकम्,” तदेतदत्र ऋषीको भवति ।
” इत्यादिसिद्धवचनेः। यथा च पुनः राजसम्बन्धिनः सेनापत्यादेः राजपुरुषत्वं राजत्वं च गुण- भूतं राजपुरुषाणां। एवं ब्राह्मणभागस्य गौणमेव वेदत्वं ब्रह्मरूपेदमन्त्रानुसारित्वाविति लिङ्गम्। अथोपमेयमन्त्रब्राह्मणयोलक्षणं जैमिनिनाभिहितम्– “मन्त्रोऽभिधानवाची स्यात्।
तच्चोदकेषु मन्त्राख्या। शेषे ब्राह्मणशब्दः” (पू०मी० २।१।३१-३३) इति एवं छन्दः शब्देनापि मन्त्रभागस्यैव प्रधानं वेदत्वम्। “यच्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात्सम्वभूव। स मेन्द्रो मेधया स्पृणोतु ० ॥” इति (**तै० उ० १।
४।१ **) यः खलु छन्दसां ऋषभः। अधिपतिर्वर्षक स्वयं सन् “विश्वरूपः विश्वविभूतिपयेण पूर्णः, छन्दोभ्य एव पुनः अमृत्तारसमः सम्बभूव विद्यमानेन आविर्बभूव ! छन्दोसुखेनैव प्रकाश्यते इति। स इन्द्रः मां मेधया ज्ञानशक्त्या स्पृणोतु पूरयतु इति।
छन्दसर्वं च गायत्र्यादिच्छन्दोनिवन्धनभूतं तच्च मन्त्राणामेव भवति, न तु ब्राह्मणभागस्य। एवं यज्ञादिषु विनियोगादपि मन्त्राणामेव मुख्यं वेदत्वम्। “यः समिधा य आहुती यो वेदेन ददाश मर्तो अस्मैये ।” इति (**ऋ० ८।
१९।५ **) यः मर्त्यः समिधा आहुत्या वेदेन च अस्मैये ददाश हविर्ददाति। तद्विः प्रदानं च मन्त्रै- रेव भवति, न तु ब्राह्मणवाक्येन। “प्रत्युचं जुहुयात्स्वाहाकारान्तैर्मन्त्रैः” इति समन्त्रकमेव हवनादिविधानात्।
“मन्त्रब्राह्मणयोर्वेदनामधेयम्” इति सूत्रीकरणमपि मन्त्राणां वेदत्वं स्वतःसिद्धमेव, ब्राह्मणभाग्न तु न स्वतः- सिद्धमिति, मंत्रेण सह ब्राह्मणस्यापि सङ्ग्रहेण, ब्राह्मणस्यापि तद्वेदत्वं सम्पादयितुमेवेति गम्यते।
तेन मन्त्रार्थप्रकाशनम् ब्राह्म- णभागस्य वेदोपजीवयत्वेनैव वेदत्वमित्यवश्यमभ्युपगन्तव्यम्। मन्त्रभूतानां ऋषिज्छन्दोदेवतानामिव, ब्राह्मणभागस्यापि मन्त्रोपसर्जनीत्वेन बोधोपदेशादपि मन्त्रभागस्य प्रधानं वेदत्वं, ब्राह्मणस्य तु गौणमिति गम्यते।
तथाहि– “यो ह वा अविदिताष्यछन्दोदैवतब्राह्मणेन मन्त्रेण यजते, याजयाते वा,ऽध्यापयति वा, स्थाणुं वर्छति, गर्तं वा पात्यते, प्रमीयते वा, पापीयान्भवति, तस्मादेतानि मन्त्रे मन्त्रे विद्यात्” इति ( छ० ब्राह्मणवचनम्)।
“ब्राह्मणार्थेषुच्छन्दोदेवताविज्ञानाभ्यामाश्रेयोऽधिगच्छतिो। इति सर्वानुक्रमपरिशाबासूत्रम्। स च मन्त्रभागको वेदः एकोऽपि अवान्तरभेदेन द्विधा त्रिधा क्वचित् चतुर्धा विभक्तो दृश्यते–
“तस्माद्याज्ञत्सस्सर्वहुत ऋचः सामानि जज्ञिरे। छन्दासि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ (**ऋ० १।९०।९ **) इत्यत्र ऋग्यजुःसामनामभिः प्रसिद्धाः साक्षात् श्रुता त्रयो वेदाः। अत्र “छन्दाँसि जज्ञिरे तस्मात्” इति केवलं छन्दः- शब्देन निर्देशोऽपि, तस्य ऋगादिवेदोक्तावेव वेदत्रयात् पृथग्निर्देशात् पारिशेष्यादथर्ववेदपाराहीकरणेन केचित् वेदस्य चतुर्धा कृतिमभ्युपगच्छति ।
“अहे बुद्धिय मन्त्रं मे गोपाय। यमुपयक्षययीविदा विदुः। ऋचः सामानि यजूंषि। सा हि श्रीररमृतं सताम्।” इति
मन्त्रे स्पष्टमनुश्रुतं वेदत्रयमेव केचित् प्रधानं मन्यन्ते, तेषां ऋग्यजुःसाम्नाख्यानां त्रयाणां वेदानां “त्रयी” इति समहि- संज्ञा प्रविद्धा। “यमुपयक्षययीविदा विदुः” इति शब्देन वेदत्रयाम्नानात्। “प्रजापतिर्लोकानभ्यतपत्तेभ्योऽ- भितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत्” ( छा० उ० २।
१२।१२ ) इति च ब्राह्मणम्। “क्रियासूक्कमयजुषी इति वेदाख- यन्नरी” इत्यमरः।
“१. ऋचैव होत्रं क्रियते, यजुषाऽऽध्वर्यवं, साम्नोद्गीथम्। द्वाररद्या त्रयी विद्या भवत्यथ केन ब्रह्मत्वं क्रियते, ऋग्या विद्ययेति ब्रूयात्।” इति च ( ऐ० ब्रा० ५-३२ ) यज्ञादिषु वेदत्रयस्यैव प्राधान्येन विनियोगात् ऋग्या एव प्राधान्यं इति केचित्।
२ (**तै० तै० **)(१८)
यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् । सामानि यस्य लोमानि अथर्वाङ्गिरसो मुखम् । स्कम्भं तं ब्रूहि कतमः स्विद एव सः ॥ ( अथर्व० चौ० १०।७।२० ) इत्यादिषु अथर्वसंज्ञकचतुर्थो वेदोऽपि श्रुतः । तदेतत् अपरा विचारायां स्पष्टमभिहितम्- तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः ।
( मुं० १।१।४ ) अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः ॥ इति ( बृ० उ० २।४।१० ) तस्य यजुरेव शिरः; ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः; आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ।
(**तै० उ० २।३।३ **) ऋचां प्राची महती दिगुच्यते । यजुषां दक्षिणा, सामनामसुदीची । अथर्वाङ्गिरसां प्रतीची ॥ इति (**तै०ब्रा० ३।१२।९ **) । एवमादिषु चतुर्धा वेदविभागोऽभिहितः । एवं वेदार्थप्रकाशकत्वेन भारतादिपुराणग्रन्थानामपि पञ्चमवेदत्वं कल्पितं दृश्यते ।
“ नाम वा ऋग्वेदो यजुर्वेदः सामवेदः आथर्वणश्चतुर्थः इतिहासपुराणः पञ्चमः इति ( छां० उ० ७।१।२ ) “ भारतः पञ्चमो वेदः ” इति च प्रसिद्धम् ।