यजुर्वेद

Yajurvēda - कृष्ण यजुर्वेद तैत्तिरीय शाखा

वेदस्वरूपविचारः

वेदस्वरूप प्रश्नाः

अथ पुनर्वेदस्य किं स्वरूपं? किं च तदाश्रितं तत्वम्? कथं कुत्र च तस्याविर्भावः? किं तत्र निमित्तम्? किं च तत्प्रयोजनं कीदृशी च तत्प्रामाण्यप्रतिष्ठा? किं तन्महतत्वम्? कथं कुत्र च तदुपलब्धिश्वास्मिन् लोके मनुष्याणां? कस्तत्र विशेष इतरेभ्यः सर्वेभ्यो वाङ्मयेभ्यः? एतेषु विषयेषु प्राचीनानामाचार्याणां च, तथा सायुकं ततः सायनस्यापि किमभिप्रेतम्? तदप्यये च किं नियतं तत्वम्? का च तत्र वस्तुस्थितिरिति चावश्यं विवेक्तव्यम्।

येन प्राब्रह्मणदिग्रन्थैर्महता प्रबन्धेन तत्प्रामाण्यनिरूपणरूपैः वेदान्त-दार्शनिकादिसूत्रप्रमुखैः, तदाध्यात्ममुखेन च वेदार्थमर्थनेन सर्वेऽप्येकमुखेन तत्प्रामाण्यमङ्गीकुर्वन्ति नास्तिकत्वेन प्रविद्विषोऽन्यथा नास्तिकसद्पवादाह्रां भवन्ति ।

तथा सर्वेष्वपि विषयेषु वैदिकेषु लौकिकेष्वपि वेदावलम्बमेव प्रवर्तन्ते सर्वेऽपि लोकाः, यद्विज्ञानाय सर्वविधापरिशीलन- प्रवृत्तिः प्रामाणिकानां श्रद्धादृढानाम्; क्वचित्तु तत्प्रामाण्यानङ्गीकारेऽपि नास्तिकानामपि तत्त्वज्ञानार्थं तत्र प्राचामनुभावनिरूपणे ।

दर्शने वेद एव सर्वथा शरणं तदर्थिनार्थं भवति । एवं वेदैकशरणानां सर्वेषामपि एकमुखेन सर्वेषामपि प्रवृत्तिरनर्थैव स्यात् इति । अत्रोच्यते— “ ऋचो अक्षरे परमे व्योमन् । ” ( ऋ. मं. ११६४ । १२; अथर्व० १११०११८ ) तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे ।

छन्दासि जज्ञिरे तस्माद्यजुस्तस्मादजायत । (**ऋ० १०।९०।१३ **) अहं बुद्धिर्न्य मन्त्रं गोपाव यद्यु पर्यस्यविदः । ऋचः सामानि यजूंषि । (**तै० ब्रा० १११९०१३१५; रा११९२६; आप० श्रौ० ५।१।१८ **) इत्यादि श्रुतिनिर्देशाः गायत्र्यादिच्छन्दोनिबद्धाः ऋग्यजुःसामशब्दादीः प्रसिद्धास्ते ऋगादयो मन्त्राः छन्दःपुरुषात्मक- ब्रह्मवाचकत्वात् सर्वोऽपि वेदे ब्रह्माब्रह्मरूपेणैव निर्दिष्टाः श्रयन्ते–

मन्त्र-ब्रह्म संबंधः

मन्त्रा ब्रह्मावाचकाः

विश्वामित्रस्य रक्षति “ ब्रह्मेदुं ” आर्त्तं जनम् (**ऋ० ३।

५३।१२ **) “ ब्रह्माणि ” मन्द्रगूतमपीनाम् । (**ऋ० १०।८२।१९ **) “ ब्रह्माणां ” ते ब्रह्मयुजा युनाज्मि ” । (**ऋ० ३।५४।४; अथर्व० २०।८३।१ **) नि “ ब्रह्मभि ” रश्मो दस्युमिन्द्र । (**ऋ० १।३३।५ **) वयं धुरेषु “ ब्रह्माणां ” ब्रह्मणस्पते ” ।

(**ऋ० २।२३।१७; तै० सं० १।३।५।५; का० १०।१३।२ **) गूह सूर्य तमसाऽपव्रतेन तुरीयेण “ ब्रह्माणा ” ऽऽविन्द्रदभिः । इति (**ऋ० ५।४०।६ **) ते च ऋगादयो मन्त्राः वाङ्मयाः वाच एव प्रत्यक्षप्रमाणरूपाः परोक्षेण परमेण ब्रह्मात्मना मिथुनीभूताः, सत्याः, प्रब्रह्मवस्तुवत् परोक्षेणापि परब्रह्मणो यथावत् स्वरूपसत्त्वावगमे प्रत्यक्षप्रमाणभूताश्च भवन्ति ।

तथा च ऋक्संमवणे(१५)

वाक्-ब्रह्म तादात्म्यम्

यावद्ब्रह्म विष्ठितं तावती वाक्

इति (ऋ० सं० १०।११९।८; ऐ० आ० ११२।८) तस्येदमुपव्याख्यानब्राह्मणम्–

यत्र ह क्व च ब्रह्म तद् वाक्, यत्र वा वाक् तद् ब्रह्म

इत्येतदुक्तं भवति" इति (ऐ० आ० ११२।८) वाच्यवाचकयोर- भेदस्तादात्म्यं च क्वचित्तु तदन्तरालभेदो सर्वेषां शाखिनांचिन्तानां सद्ब्रह्माप्रमाणवादिनामप्यभिसतं न्यायसिद्धं प्रतिरूढतरं वस्तुतत्त्वम्। अत एव प्रत्यक्षं ब्रह्मैव वाक्, वागैव प्रत्यक्षं ब्रह्म, परोक्षं परं ब्रह्मेव, तस्याः अधिपतिः परमः पुरुषः इति, तत्सर्वदर्शनं वाग्- ब्रह्माणोस्त्थयोः, ब्रह्म-ब्राह्मणस्पतिशब्दाम्यां, वेदेषु असकृदभिष्टुतिः सर्वथा सङ्गच्छते ।

‘ वाचस्पतिं विश्वकर्माणमूत्ये (ऋ० सं० १०।८१।७) ; ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पतेः (**ऋ० सं० २।२३।१ **)’ ‘ एष उ एव ब्रह्मणस्पतिः, वागेव ब्रह्म तस्या एव पतिः ’ इति च औपनिषदं ब्राह्मणम् । ( बृ० उ० १।

१३।१ ) अस्मिन्नेवार्थे कवीन्द्रस्य कालिदासस्य काव्यराशेः शिरोभूते मङ्गळवचनं सुप्रसिद्धम् – ‘ वागर्थाविव सम्प्रक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ । ’ इति । एवं ‘ ऋचो अक्षरे परमे व्योमन् ।

ॐ खं ब्रह्म। ओमित्येकाक्षरं ब्रह्म। ओमित्येकाक्षरमिदं सर्वम्। ओंकार आत्मैव । तस्य वाचकः प्रणवः ’ इत्यादीनि श्रुतिस्मृतिवचनान्येवमेव समर्थयन्ति ।

गायत्री छन्दस् विचारः

छन्दः । गायत्री । दैवतं ।’ इति पिङ्गलच्छन्दःसूत्रात्; तथा ‘ प्रणवस्य ब्रह्मा ब्रह्मा देवी गायत्री ’ इति (आ० गु० प० ) सूत्राच्च यथोक्तैकाक्षरस्वरूपस्य प्रणवस्य गायत्रीछन्दोनिबन्धनसिद्धं प्रसिद्धं मन्त्रतत्त्वम्।

तस्माद् ब्रह्मात्मकः प्रणवः; प्रणवात्मकं च ब्रह्मति सम्पद्यते । तथा च औपनिषदं वचनम्- ‘ ओमित्येकाक्षरं ब्रह्म। असिर्देवता ब्रह्म इत्यावरम्। गायत्र्यै छन्दः परमात्मै सरूपं सायुज्यं विनियोगम् ’ इति ( म० ना० उ० ३३ ) ।

एवं गायत्री छन्दोनिबन्धत्वात् ब्रह्मात्मकस्यैव प्रणवाक्षरस्य, गायत्रीछन्दोमायमाक्षरब्रह्मप्रणवोद्भूतत्वाच्च, ऋगादिमन्त्राणां तादृशगायत्र्यादिछन्दःशरीरं प्रत्यक्ष- ब्रह्मस्वरूपगदिमात्मकं, तत्परं ब्रह्म, ब्रह्मात्मकं छन्दः, ब्रह्मात्मकाः छन्दोमायाः ऋगादिमन्त्राः इति च अर्थात् सिध्यति ।

वस्तुतस्तु वागात्मकस्य छन्दोमयस्य, मन्त्ररूपस्य वेदैर्वैध मुख्यो ब्रह्मशब्दः प्रत्यक्षब्रह्मस्वरूपत्वात्; निर्गुणस्य परमात्म- वस्तुनः परब्रह्मणस्तु गौणो ब्रह्मणस्तेजस्यस्य नामरूपातीत्त्वात् इत्थैव वक्तुं युक्तम् इति प्रतीयते ।

‘ आयातु वरदा देवी अक्षरे ब्रह्मसम्मिमितम। गायत्री छन्दसां मातेदं ब्रह्म जुषस्व मे । इति ( म० ना० उ० ) अथ बौधायनः शाखामुकः याजुषो मन्त्ररूपः श्लोकः तदेव समर्थयति । तस्मात् प्रत्यक्षब्रह्मात्मकरूपयाः गायत्र्यादिमन्त्राः वाचकासमानः, तथा परोक्षं परं ब्रह्मैव तद्वाच्यार्थकमिति सामास्ययोगेन उभयोरपि तयोः वेद-ब्रह्मरूपयोः वाक्-पुरुषयोः तादात्म्यं ऐक्यं च नाम्ना रूपेण सत्येन चेति वस्तुसिद्धं शास्त्रतत्त्वम्।

अत एवाचार्येन्द्राः ‘ शास्त्रयोनित्वात् ’ इत्थत्र ऋगा- दिब्रह्मसूत्रेण सर्वब्रह्मणामाप्तं महत्तत्त्वं सर्वविनाशकत्वं सर्वप्रकाशकरत्वं सर्वविद्यासदृशं परब्रह्मणः यथार्थतत्त्वावबोधे प्रत्यक्ष- प्रमाणत्वं च स्पष्टं निर्णयमामास भाष्यमुखेन ।

‘ महतः ऋग्वेदादेः शास्त्रस्यानेकेविधा स्थानापोवृंहितस्य प्रदीपरवत् सर्वार्थद्योतितोतिः सर्वैककल्पस्य योनिः कारणं ब्रह्म। इति । अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणं अस्य ब्रह्मणो यथावत् स्वरूपपिनिगम ।

शास्त्रादेव प्रमाणान्तरं जगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्याभिप्रायः । इति ( म० सू० ११३ ) तदिदं सर्वमपि प्रत्यक्षब्रह्म-परब्रह्मनामको वाचक-वाच्यार्थरूपयोः वेदवाग्- यब्रह्मवस्तुतोः तादात्म्ये ऐक्यं एव सङ्गच्छते ।

अत एव सर्ववेदपायन-तदर्थज्ञानाद्यधिकारसिद्धयर्थं द्विजत्वेन द्वितीयजन्मरूपेण स्वरूपज्ञानोदयेन द्विजत्वसिद्धये, परामात्म- साक्षात्कारेण शास्त्रोक्तपूर्णवाग्ब्रह्मोपासनाभ्युदयर्थं च वेदमातृरूपप्रत्यक्षब्रह्मस्वरूपगायत्रीमन्त्रसुखेनैव ब्रह्मपोपदेशः, तथा पूर्ण- ज्ञानोदयेन ब्रह्मासाक्षात्कारस निश्वय तदुपासनायोजनश्च प्राधान्येन विहितः, तदर्थज्ञानमुखेन आत्मसाक्षात्कारश्च उपदिष्टः, सोऽयं पूर्वैर्वायुषाणां आचार्याणां च ब्रह्योपदेशपरम्परया समागतः अद्यापि प्रचलतीति सर्वत्र सुप्रसिद्धम्।

तथा च औपनिषदं वच- नम्- “

गायत्री मन्त्र विधानम्

गायत्र्या गायत्री छन्दो विश्वामित्र ऋषिः, सविता देवता, अग्निमुखे, ब्रह्मा शिरो, विष्णोहृदयं, रुद्रः शिखा, पृथिवी योनिः, प्राणापानव्यानोदानसमानाः सप्राणाः श्वेतवर्णाः सांख्यायनसगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा, षट् कुक्षिः, पञ्च शीर्षा उपनयने विनियोग इति ।

( म० ना० उ० ३५ )(६)

“गायत्र्या ब्राह्मणमुपनयीत। अहर्हः सन्ध्यासुपासीत। जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् । सन्ध्यां प्राक् प्रातरेवं तिष्ठेदासूर्योदर्शनात् ।” (या० स्मृ०) इति उपनयनसन्ध्योपासनयोजगयित्रा विनियोगः । एवं गायत्र्युद्धवेन ब्रह्मात्मैक्यतत्त्वज्ञाने तदनुसन्धाने च उपादिष्टे शास्त्रे प्रसिद्धम्।

न भिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह । सोऽहमस्मीत्युपासीत विधिना येन केन चित् ।’ इति — एवं सर्वसंवर्लसनयोगेन केवलं ब्रह्मात्मसाक्षात्कारार्थं भाषायिष्ये सुप्रसिद्धे चतुर्ग्रिासेपि गायत्रीप्रवेश एवोपदिष्टः ।

‘ ॐ भूः तत्सवितुर्वरेण्यम् गायत्रीं प्रविशामि । ॐ भुवः भगो देवस्य धीमहि सावित्रीं प्रविशामि । ॐ स्वः धियो यो नः प्रचोदयात् सरस्वतीं प्रविशामि ।’ इति तत्प्रयोगविधानात् तथैवाचाराच्च ( बौधायन धर्मसूत्रे ) गायत्र्याश्च ब्रह्मात्मैक्यमेव परमः प्रधानोऽर्थः इति प्राज्ञैः सर्वज्ञैपि ऋषयः आचार्याः; तथा अर्वाचीनाश्च वेदविदः एकमुखेन अङ्गीकुर्वन्ति, समर्थयन्ति च तत्प्राप्तसुखेन।

तस्माद् ब्रह्मन्! सकाशात् सर्वेषां छन्दसामविर्भावः; तथा छन्दोमुखेनैव विश्वतो रूपेण ब्रह्माविर्भावः; ब्रह्मात्मतत्त्वज्ञानोद्भव बुद्धिप्रतिनिधिः, तयेोर्दृष्टग्रहयोः वाक्-पुरुषामकयोः अन्योऽन्यात्मत्वे एवोपपद्यते ।

तथा च मन्त्रवर्णः ‘ यच्छन्दसामृषभ्मो विश्वरूपः । छन्दोभ्योऽमृतार्समभूव । स मेन्द्रेा मेधया स्पृणोतु० ।’ इति । (**तै० आ० ७।११।१।१५। **; **तै० उ० १।४।१ **)

← परिचयः (Back to Index)