विश्वरूपः परमात्मा वेदरूपः
यः खलु परमात्मा स्वयं निरलिखः; अस्माकं सर्ववामपि पितृस्थानीयः सर्वसाक्षी स्वयं यजरूपः सन्, सर्वं यज्ञं यजमानः निर्विशेषः प्रत्यक्षाः आत्मगयेवांतर्विनः ‘मौनीव’ सर्वेषां अनेकपयदेशास्पृष्टेोऽभूत्, इमानि इन्द्राणीं परिदृश्यमाननानि सर्वाणीपि भूतानि तदनु तु केवलं ब्रह्मात्मना बीजरूपेणातिष्ठिनि, उत्तरस बहिर्विसुखयमानानि स्वीये केवलै प्रज्ञाने स्वरूपेण रूपे तथोऽसौ आजुदाव; तथा अन्ततः आत्मानमपि तसिमेव तपोऽसौ जुहवांचकार।
यजमुखेनैव विश्वस्य विसुद्ध्ये स्वयं यजमान इव प्रज्ञानेन स्वरूपेण प्रज्वलबेव आस; तस्मिन् स्वीये केवलै प्रज्ञाने एव विश्वं भावयामास । स च पुनस्तस्मिन् सर्वहुति विश्वदवनपूर्ण आत्मयज्ञे आत्मनोऽपि इवनेन नामावेापेतामुपसन्नाडोपि सत्तामात्रेण प्रज्ञान- रूपेण स्वयं प्रकाशमानः सन्, आशीर्वागुच्चारमात्रेण आत्मविभूतिर्योगपूर्णं विश्वविकासामिलषन् आदिभूतः स्वयमनदिद्धिद्धः प्रज्ञानात्मा स छन्दःपुरुषः छन्दोमुखेन विश्वमुत्सृज्य, तत्र स्वयं प्रज्ञानात्मना आविष्टः सन्, विश्वकारणादियुपदेशार्ह बभूव ।
तथा च विश्वकर्मणः भार्ग ऋङ्यजुश्चदर्शनम्। य इमा विश्वा भुवनानि जुहदृषिर्होता म्यसीदत्पिता नः । स आशिषा द्रविणमिच्छमानः प्रथमच्छदवरा विवेश ।
इति । (ऋ० १०।८१।१)( ५ )
स परमः पुरुषः स्वयं न जातः; तथा कदाचिदपि न जायमानः; न च पुनर्जगन्निर्माणाऽवधिः, विविधभूतिप्रयोगेन सर्वज्ञानक्रियाशक्तियोगाच्च एक एव बहुधा नामभिः रूपैश्च युक्तः सन्, प्रकाशते । “अजायमानो बहुधा विजायते ” इति च श्रुतिः ( वा० य० ३१।
१९; तै० आ० ३।१९।१ ) तथा स विश्वतः प्राचीनतमः प्रथमः परः पुरुषः स्वीयैनेव ज्ञानप्रकाशशक्तिविशेषेण पूर्णः आत्मयज्ञाद् बहुधा विश्वरूपेण स्वयं आविर्भवन्, विश्वमेतत्सृजन्, विश्वमूलभूतश्च छन्दोमयीं वाचम् छन्दोनिबद्धं काव्यरूपं सर्वाभिवाचकरूपं शब्दराशिं समुद्धार, आत्मविभवाय विश्वविभूतिविजयाय च ज्ञानसम्भानमिव प्रज्ञानरूपेण सिद्धां सर्वज्ञानक्रियाशक्किपूर्णां मन्त्रमयीं वाचमे आत्मन्यन्तः धारयामासेति यावत्।
तथा च कुलस्य आर्षं दर्शनम्— ‘ स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बल्धष्ट विश्वा । आपश्च मित्रं धिषणा च साधदेवा अशि धारयन्त्रचिनोदामू ’ इति । (**ऋ० ९।६।१ **) तथा सर्वज्ञानप्रकर्षप्रज्ञानरूपेण सस्रष्टां तां छन्दोमयीं वाचम्, स परमः पुरुषः प्रथमतः सर्वदुष्कामकार्योल्कां आत्मयज्ञात्पप्तयः उद्धृतच्छालरूपेण बहिरससर्ज ।
सा परा वागेव गायत्र्यादिच्छन्दोनिबन्धनकृता मन्त्रमयी ऋगादिरूपा आसीत्। तथा च ऋङ्मन्त्रवर्णः नारायणार्षेयः । ‘ तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत ’ इति (**ऋ० १०।
१८।१३ **) ‘ ऊर्जा इव सूर्यो ज्योतिषा महो विश्वेषाभिज्जनिता ब्रह्मामासि ’ (**ऋ० २।२३।१ **), ‘ प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ’ इति (**ऋ० १०।१८।१५ **) ‘ अस्य महतो भूतस्य निःश्वसितमेतद्यद् ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः ’ इत्यादुपनिषद् ब्रह्मणाम् ।
( बृ० उ० २।४।१० ) तथैव स परमः पुरुषः छन्दोनिबद्धा काव्यरूपा तथा नादिमया परया वाचैव देवदिमानवानामन्तः स्वस्वरूपाः चेतनाः इमाः सर्वाः प्रजाः जनयामास । तथा च कुलसः— ‘ स पूर्वेद्या निविदा काव्यतोऽसृज्यत। प्राजा अजयन्नमनूनाम् ’ इति ।
(**ऋ० ९।६।१२ **) प्रज्ञानचेतनाशकेः सङ्कलनेन उद्धृतच्छालरूपेण वागुच्चारमात्रेण विश्वमेतदुत्सर्जेति श्रूयते । अविद्यमानवद् बीजरूपेण ब्रह्मण्यन्तर्हितस्य अनुनिष्पन्नतोऽस्य जगतः स एव प्रथमतः सृष्ट्यदिहेः आविर्भावः इति च।
तथा च बृहस्पतिरर्षे दर्शनम्— ‘ प्रकृष्टावस्थारेता स कमरि दूधावनान्। देवानां पूर्वे युगेऽसतः सदजायत ’ इति (**ऋ० १०।७।१२ **) तत्त्पश्चात्कात् वैदिकच्छन्दश्छन्दश्छन्दोमयीभावः श्रूयते । ‘ एतदभूयमिन्द्वस्त्वितः पवित्रमादाय ।
विश्वाभ्यमि सोमगा ’ इति (**ऋ० ९।९९।१; साम० ८३० **); तद्वेदोनिषद्सृष्ट्युख्यानब्राह्मणम्— ‘ एत इति वै प्रजापतिर्देवानसृजतार्दवनामिति मनुष्यान् इन्दव इति पितॄन् तिरः पवित्रमिति ग्रहान् आशाव इति स्तोत्राणि विश्वावीति शस्ने अभिसौभगेत्यान्त्यः प्रनाः ’ इति ( ब्र० सू० मा० १२।
२८ ) ‘ अनादिनिधना नित्य वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ’ इति च स्मृतिः । तदेवनिर्णीत विस्तरशश्च प्रपञ्चितमुभयत्रापि मीमांसायाम् । ‘ औत्पत्तिकस्तु शब्दस्यार्थेन सबन्धस्तस्य ज्ञानं शब्दद्वयसिङङ्कृत्त्वे तप्रमाणं बादयरायणस्थानपेक्षत्वात् ’ इति ।
( पू० मी० सू० १।१।५ ) ‘ शब्द इति चेन्नातः प्रमाणत्वादयनानां । अत एव च नित्यत्वम् ’ इत्यादिभिः सूत्रैः ( ब्र० सू० ) कथं वागुद्गारमात्रेण विश्वाविर्भावः ? इति वचनमुपद्यते— ‘ ऋषीणां पुनराघानां वाचमर्थोऽनु धावति ” इति सिद्धमन्त्राणां सत्यवचनानां च तादृशसामर्थ्ययोगात्।
किं पुन: सर्वेश्वरस्य सर्वशक्तिमतः स्वत:सिद्धसत्यमन्त्रवचनस्य “ स भूरिति व्याहरद् भुवनमसृजत, तत्पृथिव्येव समपद्यत ” इत्यादिश्रुतेः । “ ईशानः सर्वेविद्यानामीश्वरः सर्व-भूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिो ” इति च सप्तम्।
एवं सिसृक्षत्सत्यमन्त्रवचनानां ऋषीणामपि तादृशं सामर्थ्य श्रूयते— “ युवाना पितरा पुन: सत्यमन्त्रा ऋजुयवः । ऋभवो विष्ट्यकृतः ” इति (**ऋ० १०।१२।४ **) सत्यमन्त्रा ऋजुगामिनः ऋस्रवः-सुधन्वनः पुत्राः । ऋजुः-विश्वा-वाजः ।
इत्येते त्रयः ऋषयः वृद्धौ मातापितरौ कर्मणा तपसा सिद्धमन्त्रसामर्थ्यात् पुन: युवानां चक्रुरिति वेदे प्रसिद्धम् । ‘ अमन्थानाः अभिसन्मयमानैनिर्मार्दिराभरमो दसुः. (८)
मिन्द्र (**ऋ० ११२३१ **) इति च अर्थज्ञानरहितानानपि रक्षितुं स्वकीयरवेन अभिसम्मयमानैर्मन्त्रैः इन्द्रः दस्युं निर्जघानेति । प्रसिद्धं चेदमिदानीमपि लोके तथा च सिद्धमन्त्राणां सत्यवचनानां महात्मनां तपस्विनां तथा गुरुजनानां च चार्जवन आशिषा च तद्वचनमात्रेण निग्रहानुग्रहादिरूपः तदर्थः प्रत्यक्षं सिध्यतीति ।
तस्मादिन्द्रियाविष्करणीभूतत्वात् परब्रह्मगः स्वतःसिद्धं सर्वशक्तिस्वादिकमिव, तत एव हेतोः तदात्मकस्य प्रत्यक्षबाधा- करूपस्य श्रुतिवेदादेरपि सर्वाथैबोधकत्वरूपत्वं, सर्वकार्यकारित्वात् सर्वशक्तिरूपत्वं, सर्वप्रकाशकत्वं, तथा अनन्य- सापेक्षं प्रत्यक्षं प्रामाण्यं च स्वतःसिद्धमेवेति यथोक्तं सर्वं सम्पन्नतरम्।
अत्राप्यग्निष्टोमे काठिन्यपुनर्विचारप्रसङ्गः, कथमैतदुपपद्यते-तत्स्वरूपाधिगमे तद्वचनमेव प्रमाणं भवितुमर्हतीति । तथा चेत् स्वमुखे- नैव स्वपाण्डित्योपवर्णनमिव, काचिद्वह्वक्षरादिस्रस्तवनमिव, कचिदू वृथाजल्पनमिव, कचिदुन्मत्तताद्युपशमनमिव, वेदवचनमपि नास्तिकानामपि चिरात्प्रतिष्ठिता दृढतरा वेदाश्रद्धापि अन्यपर- मश्रद्धासम्पत्तिकारिदिव्यं चिरस्थायिदर्श स्यात्।
तथा च एतावता महता प्रबन्धेन स्वतः प्रत्यक्षं प्रमाणं इति साधितोऽपि वेदः सर्वेषामप्यश्रद्धेयवचन एव भवेत्। तेन सदसद्विषययोः प्रवृत्तिनिवृत्त्योः प्रयोजकप्रमाणान्तराभावात् सर्वेषामपि सर्वत्र विषयेषु यथेच्छाचारप्रवृत्तिर्निवार्य्या स्यात्, तेनैव च सर्वेषामप्यनर्थपरम्परा सर्वदैव दुःखानुभवप्रसङ्गः समापयेतेति अत्यन्तं शोचनीयमेवेदम् ।
सलमे- वैतत्, तथापि अत्रास्ति कश्चिद्विवेकः समाधानकारणीभूतः, तत्सत्पुरुषविदितार्थानां स्वरूपज्ञानानुभवादीनां अन्यस्मै वितरणेन प्रकाशने तत्पुरुषवचनमेव प्रमाणमिति ब्रूमः, तदेतद्रस्तुसिद्धं तस्मादिदानीमपि सर्वेषां तत् समानम् ।
सुविदितशास्त्रवृत्तानां विदुषामपि वचने अश्रद्धादिरुत्पद्यमाननिमित्तेन अप्रमाणे चेत्, एकस्यानुभूतं विदितं चार्धं को वाऽन्यो विज्ञातुं समर्थः ? तद्वचनसामान्ये तदप्रामाण्ये च तद्द्विज्ञानादिप्रकाशे तद्वचनमन्तरेण साधनान्तरस्यासम्भवात् अशक्यत्वादिदोषप्राप्त- ज्ञानोपदेशेऽनवकाशात्; तथा आनर्थक्यप्रसङ्गञ्च प्रसज्येत।
तथा मौनिनो भूकस्य च वचनाभावे तद्विदितार्थप्रकाशः सर्वथाप्यशक्यस्वादिति प्रत्यक्षसिद्धम्। कथं तर्हि एकेन विदितस्यार्थस्य उपलब्धिरेकस्यामेव, तद्वचनाभावे तदर्थं किमन्यस्याध्नं भवितुमर्हति ? ततः किम् ? यदि एकस्य वचनमन्यस्य प्रमाणं न भवेत्, तर्हि सर्वेऽपि स्वयमेव अज्ञैरेव स्यादिति ज्ञानोपदेशेऽनवकाशात् अन्यपरंपरैव समापयेत।
तथा भिषग्वराणां वचनमौषधं च अप्रमाणं चेत् रुग्णैरेव स्वानुभवेन औषधं शोधनीयं, सर्वदा रोगदुःखानुभव एव प्रसज्येत। तथा च औषधसेवनमन्तरेण न तदनुभवः, अनुभवे विना औषधप्रयोजनकरमिति अनर्थ एव तत्र प्रसज्येत। एवंविधं प्राग्विभेदः अन्यस्याभावात् सद्वचनस्याभावे तदप्रामाण्ये च विश्वश्रद्धस्तस्य वस्तुतत्त्वे सृष्ट्यादिश्च विषये पर्यवसायिनस्तद्वयं किमन्यप्रमाणं भवितुमर्हति, उत्तरत्र इदानींतनैर्यथा कथञ्चित् तत्परिकल्पनेऽपि तस्य कल्पनामात्रार्थं- पर्यवसायित्वेन सर्वथा ज्ञानमेव व्याप्येत।
एवं प्राचामाषीणां दृश्यस्य वा वेदादिरूपं शास्त्रवचनं अप्रमाणमिति मन्यमानः अन्यवचनाप्रामाण्यवादेन स्ववचनस्यैव प्रामाण्यमनुमन्यत् अहंकारवादीनां अश्रद्धेयवचन एव भवेत्, कथं तर्हि “ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह (**तै० उ० २।
४; ब्रह्यो० २२ **)
मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानम् ” इति च श्रुतिनिर्दिष्टं तस्य ब्रह्मणः वाचा अनिर्वचनीयत्वं तथा मौनेनैव तत्प्रकाशनीयत्वं च प्रसिद्धम् ।
१. कथं अनिर्वचनीयस्य निर्गुणस्यापि ब्रह्मणः श्रुत्या निर्वचनम्, कथं च वेदवाचा तदुपदेशः कर्तुं शक्यः, येन तदप्रामाण्यमुप- पद्येत ? उच्यते—तस्य शब्दमुखेन श्रुतस्यापि अनुभवैकगम्यत्वोपदेशोऽयम्, नहि तावता तद्वचनस्य वेदाभावः; तदप्रा- माण्यं चेत्युक्तं भवति ।
यतः निर्गुणस्यापि ब्रह्मणस्तस्य शब्दरूपादिभ्यो भूतगुणोभ्यो भिन्नाः विशिष्टाः सत्यज्ञानानन्तत्वादयः स्वभावतो नित्यसिद्धाः धर्माः श्रूयन्ते “ सत्यं ज्ञानमनन्तं ब्रह्म
इति (**तै० उ० २।१।१ **) । ते च श्रुत्येवोपदेष्टुं शक्या अनुभवैकगम्याश्च भवन्तीति । अन्यथा
यतो वाचो निवर्तन्ते
इति तदनिर्वचनीयश्रुतिवचनमपि श्रुत्येत्यपि तदप्रामाण्येन च सर्वथाप्यनवस्थैव प्रसज्येत ।(८. १.)
अपि च वेदस्य ईशवचनाभावे कृतकत्वे च अभ्युपगम्यमाने—
अदृश्यः सम्भूतः पृथिव्यै रसाच्च । विश्वकर्मणः समवर्तताग्रे । तस्य त्वष्टा विदध्रूपमेति । तत्पुरुषस्य विश्वेदेवाजामन्त्रे । (वा० य० ३. १९७; मै० सं० २. ७.११, का० सं० ३. १२१; तै० आ० ३. १२. १) इत्यादिमादृष्टिषुविषयं प्रत्यक्षमेवानुवदद्वचनमपि
स्वयमह्मद्राक्षं सम पितुर्जन्म
इतिवत् अप्रमाणमश्रद्धेयमेव भवेत्। तस्माद्ब्रह्मणः यथावत् स्वरूपाधिगमे तदुच्छ्रसितं ऋगादिवेदवचनमेव प्रमाणमिति सर्वथा सम्पद्यते । तथैव साक्षात्काराम- नाणामपि वचनस्य प्रामाण्यं वेदितव्यम् ।
अहं मनुरभवं सूर्यश्च। इति वामदेवः (ऋ० सं० ४. २६. १)
अग्निरस्मि जन्मना जातवेदाः
इति विश्वामित्रः (ऋ० सं० ३. २६. ७)
अहं रुद्रेभिर्वसुभिश्चरामि । इति वागाम्भृणी (ऋ० सं० १०. १२५. ७) इत्यादिवचनलिङ्गं । वैदिकेयं तत्त्वं वामदेवादिमहर्षीणामनुभवसिद्धं ब्रह्मात्मैक्यं दर्शयितुमन्था अशक्यमेव । अत एव
प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व
इति (कौ० ब्रा० ३. २) इन्द्रप्रतर्दनसंवादे इन्द्रस्याभिमानव- चनाक्षेपे
शास्त्रदृष्ट्या तूपदेशो वामदेवादि वत् ।
(ब्र० सू० १. १.१) विद्वुषां साक्षात्कारामनां तादृशानुभवो- पदेशः नाभिमानादिरूपः नाप्यप्रमाणभूतः इति निर्णीतम् ब्रह्ममीमांसायाम् ।
तद्दैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति
इति च औपनिषदं ब्राह्मणम् (बृ० उ० १. ४.१०) तथैव सर्वेषां विद्वुषां इदानींतनानामपि वचनं तद्विदिताथवबोधे प्रमाणमेव । अज्ञानां तु
अहं प्राज्ञः अहं सर्वज्ञः
इत्यादिकमयथार्थवचनमप्रमाणमेवेति निर्विवादम्। प्रस्तुत भज्ञानानां यथार्थवचनं तद्विदिताथवबोधे प्रमाणमेव “बालादपि सुभाषितम्,” इति च न्यायसिद्धम्, तद्विदितार्थस्य तु सत्यत्वात्सत्यसत्ययोरेति विवादः । तस्मात् सर्वदा समस्तरूपस्य परब्रह्मणः समुदितं प्रत्यक्षरूपारूपं निखिलं- सधया हिततमं यथार्थवबोधकत्वात् वेदवचनं प्रमाणम्, तद्वत् सद्ग्रंध्यापरीशीलनेन तपसा सदसद्विविकेन सुविदितसत्यवस्तु- तत्ववानां साक्षात्कारामनानां ब्रह्मणांवापरोक्ष ज्ञानैर्वा समदृशीनां विद्वुषांविद्वत्तमविणायुगविदुषामपि पुसिद्धिसत्यरूपवचनं प्रमाणामि- मिति सर्वेषां शास्त्रचिन्तकानां सिद्वान्तः ।
अत्र केचिदेवं प्रत्यवतिष्ठन्ते- विश्वस्यास्य जडप्रपञ्चस्य भौतिकत्वेऽपिभौतिकविषये वेदवचनं प्रमाणं भवितुमर्हतीत्युच्यन्तं नाम, भौतिकप्रपञ्चस्य वेदकार्यत्वात्। न तु निर्विशेषस्य स्वतःसिद्धस्य चेतनारमनः परब्रह्मणः बोधे तत्प्रमाणं अस्तिमुर्दहति, ततोऽपि परत्वात्।
तथैव सर्वेषामप्यन्तर्हृदये अह्भिति स्फुरणतः प्रसिद्धस्य ब्रह्मात्मनो ज्ञानं तरसाक्षात्कारः तद्विदां च येन केनचित् साधनविशेषेण तपसा वाक्यार्थविचारादिना सेत्स्यति, सुपुस्रिवत् समाधिरपि एकाग्रतातिशये सति स्वयमेव सम्पद्यते, तत्र श्रुतिरप्यनुवादिकैव भवेत्तु, सिद्धार्थानुवादकत्वेन वा चरितार्थेति वक्तव्यमापत्तति ।
तदा तस्य सत्यत्वादिंकं वस्तुतरत् तु अविदितमपि तद्विषया अनुभूतमेव भवेदिति । अत्रेदं रहस्यम्- अन्तरात्मनः अह्भिति प्रत्ययस्फुरणे वस्तुसिद्धमपि ब्रह्मातत्त्वं न विज्ञायते, नापि तत्सर्वानुभवसिद्धम्. तथा नो चेत् सर्वेऽपि कृतकृत्याः स्वतःसिद्धाः साक्षात्कारामना एवेंति, न तत्र साधनान्तरापेक्षा भवेत्तु, ततु विशिष्टाधिकारिणां- मितिचेत् यथा वामदेवस्य गर्भे एव ज्ञानोदयः प्रसिद्धः, तथारूतं तर्हि, तेषां तथा तत्परं ब्रह्मसत्वं स्फुरतीति कथं ज्ञायत अनैः? किं तत्र प्रमाणम् ? तेषामनुभूतिनिंदितं वचनमेव प्रमाणमिति चेत्, नहि तत् ऋषीणामनुभूतोदितवेदवचनादिरिश्रम्, ज्ञानिनां वचनमेव तदनुभूतार्थविबोधे प्रमाणं चेत् वेदवचनमेवाप्रमाणमिति वचने को हेतुः ? अन्यानुभुतिवचनस्य वेद वचनस्य वा प्रामाण्यवादेन स्ववचनैकप्रमाणवादी पुछोऽपि परेषामाश्रयेद्यवचन एव भवेत्।
अथ पुनः स्वातुभवेकरतत्वपरांणां तेषां तादृशानुभूतिज्ञानस्य परेषाभलाभेडपि, स्वसुखायाल भवति । किं तत्र अन्थेषां ज्ञानकालादिश्चित्वानामनुधावन ? तदिदं स्वयं श्रुतिरेवानुधावयति — २ (तै० सं०)(१०)
आत्मानं चेद्विजानीयादयमस्मीति पुरुषः। किमच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत्। इति (बृ० उ० ४।४।१२) तथा चेत् मौनसूकादीनां जाताद्यर्थस्य ज्ञानिनोऽपि ज्ञानस्य वाङ्मुखेन उपदेशाभावे तत्प्रकाशाभावात् प्रज्ञानाभिवृद्धि- स्तत्प्रसत्तिश्च विच्छिद्येत। अथवा सर्व वस्तुस्वज्ञानं सर्वेरपि स्वयमेव सम्पादनीयं इति सर्वेरपि स्वयमज्ञैरेव भवितव्यं, नो चेत् सर्वेषां स्वयमज्ञेयं भवेत् इत्यापद्येत । श्रुतिस्तु आत्मज्ञानिनां स्वभावतः सिद्धां ज्ञानतः सम्पन्नां च आत्ममुखानुभवे- कतरस्परतां यथा येन मुखेनानुवदति, तथा तेनैव च मुखेन ज्ञानोपदेशात् तत्प्रकाशेन ज्ञानाभिवृद्धिं तत्सन्ततिं चानु- धावयति । तथादि—
ब्रह्मा देवानां प्रथमः सम्वभूव विश्वस्य कर्ता भुवनस्य गोप्ता। स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह । इति० (मुं० उ० १।१) भृगुर्वै वारुणिः। वरुणं पितरमुप ससार। अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच ० । इति (तै० भू० उ० १) तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः।।
इति (छां० उ० ७।२६।२)
एतावान्वै ब्रह्मपद इति वेदो नातः परमस्तीति (प्रश्नो०६।७) अभयं वै जनक प्राप्तोऽसि । (बृ० उ० ४।४।१४) इत्यादीनि वचनान्युदाहर्तव्यानि ।। यथा मनुष्याणां प्रसव-गर्भाधानादिकं स्त्रीपुरुषत्वादिलिङ्गैः, अन्यथा तयोः स्त्रीपुरुषयोः स्वात्मसुखसिद्धिरपि वन्ध्यापनयन्- सक्प्रस्वादिप्रसिद्धिरनिवार्या स्यात् तत्सन्ततिविवृद्धिश्च।
तथा स्त्रीपुरुषयोगेन आत्मप्रजासन्तत्या अमृतत्वप्रतिष्ठैव जिज्ञासोर्ज्ञा- निजन योगेन ज्ञानसन्तत्या उत्तमामृतत्वप्रतिष्ठापि भवतीति सम्पद्यते ।
प्रजाभिरमृतरचयश्यामृ (ऋ० ५।४।१०) ; त्यागेनैकै अमृतत्वमानशुः ।
(कै० उ० २; महानि० १०।१५) इति । तथा उभयविधममृतत्वमेकस्यैव सेत्स्यति उभययोगात् ।
त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवे दिवे यस्तत्कृणोष्युभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ।।
(ऋ० १।३१।१०) इति मन्त्रवर्णात्
स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति, नास्याब्रह्मवित्कुले भवति।। इति (मुं० उ० ३।२।९)
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्
(छां० उ० ३।११।५) इति च उभयविधावृतत्वनिर्देशात्। अत एव ज्ञानोदयाय विद्वद्विदुषोर्योपदेशः—
“ अविद्वाँसो विदुषेरं सपेम” (ऋ० ६।१५।१०) “ अहस्तासो हस्तवन्तं सहन्ते ” इति (ऋ० १०।३२।१५) यथा च परब्रह्मणः स्वतःसिद्धभापि सर्वज्ञत्वं सर्वक्रियाशक्तिमत्त्वं च सर्वज्ञानपूर्णावेदवागुद्रेण, तथा वेदवाङ्मुखेन विश्व- भूतसृष्ट्या, स्वस्वरूपसचेतनजीवाविशिष्टया च प्रकाश्यते ।
तथैव सर्वेषानां सर्वज्ञकल्पनां च ऋणीनामपि—
“ अहं ब्रह्मास्मि ” इत्यादि ज्ञानमपि “ अहं मनुरभवं सूर्यश्च ” (बृ० ४।१।९)
अङ्गिरसमस्मि जन्मना जातवेदाः (ऋ० मं० ३।१२।७) इत्यादि वेदवागुद्रेणैव प्रकाशयं गतं सत्, सर्वेषामपि तादृशज्ञानोदयाय कारणं भवति । तस्मात् तत् सर्वं परं ब्रह्मापि स्वात्मब्रह्मज्ञानप्रकाशाय सर्वज्ञानपूर्णं वेदं प्रकाशयति, वेदमुखेन स्वं परं ब्रह्मरूपं तथा विश्वरूपं च तत्प्रकाशयति । अत एव वेदमुखेनैव तत्परब्रह्मप्रकाश इति सम्पद्यते, तथा च मन्त्रवर्णः—
यच्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात् सम्बभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम्
इति । (तै० आ० १।४।१;१०।४।१) एवं प्रज्ञानात्मकपरवाग्रूपेण ब्रह्मणि निलिलिङः सन् तत्प्रज्ञानप्रकाशाय ब्रह्मणः सकाशात् प्रातिस्वध्यरैरपि आविर्भूतो वेदः तत्परं ज्ञानं प्रकाशयन् अद्यापि वर्रीवति, इतः परमपि आत्मप्रज्ञाभिविष्यं यथाप्रमेव चिरं प्रतिष्ठास्यति, सर्वप्रपञ्च-(११)
प्रविलीयतेऽपि, स वेदो न प्रविलीयते, तदानीमपि प्रज्ञानात्मना परावाग्रूपेण तस्मिन्परमे व्योमन्यक्षरे ब्रह्मण्यान्तर्हितः सन्, कल्पान्तरेऽपि यथापूर्वमेव पुनराविर्विष्यति। तथा तत्परं ब्रह्म सर्वत्र पूर्णमपि वेदमुरेणैव विदुषां तपस्विनां अन्तर्हृदये स्वरूपतस्तत्त्वेन प्रकाशते।
एवं पूर्व महर्षयः साक्षात्कृतात्मानः कीर्तिशेषा अपि स्वयमनृतात्मानः सन्तः, आदिसृष्टौ वेदर्दर्शनं चारम्य अद्यावत् वेदरूपेणैव प्रतिसिष्ठन्ति, स्वात्मीयवेदवाग्मुवनेव उपदेशात् प्रत्यक्षवत् स्वं ज्ञानं प्रकाशयन्त; इदानीमपि वेदरूपेणैव जीवन्ति, इतः परमपि आप्रलयं वेदरूपेणैव चिरं प्रतिषास्यन्ति।
प्रत्यक्षखरूपो वेद एव तेषामृषीणां प्रज्ञानामात्मना शरीरं च, वेदवागेव तेषां सर्वाणि ज्ञानक्रियादिकानि। १ वेद एव तेषां सर्वस्वमिति च सुकंण्ठेनारुनिनादयन् सोऽयं चिरं विजयते दिग्वेदो वेदमृदुभिः।