यजुर्वेद

Yajurvēda - कृष्ण यजुर्वेद तैत्तिरीय शाखा

यजुर्वेदप्रस्तावः

अथ यजुर्वेदप्रस्तावः

“ यजुर्यजते: ” इति यास्कनिरुक्तात् यज्ञप्रधानो यजुर्वेदः इति गम्यते । तदेतच्चैवानुभावितम्— “ यज्ञस्य मात्रां विमिमीत उ त्वाः । ” (**ऋ० १०।१७।११ **) स्वः एकः यज्ञस्य मात्रां स्वरूपं विमिमीते निष्पादयति, सोऽध्वर्युर्यजुःप्रधानः “ यजुषाऽऽऽचर्युवम् ” इति ब्राह्म-णम्। अत्र यास्कनिरुक्तम्— “ यज्ञस्य मात्रां विमिमीत एकोऽध्वर्युः अध्वर्युश्चाध्वरयुर्गुरुरं यनक्ति अध्वरस्य नेतेति ।” ( इति० नि० १।७ ) तस्मात् यज्ञनिष्पादकत्वाद्ध्वर्युः यजुःप्राधान्याच्च यज्ञप्रधानो यजुर्वेदः, यजुर्वेदप्रधानो यज्ञः इति च सम्पद्यते ।

वेदेषु यज्ञप्रतिपादकत्वेन यजुर्वेदस्य प्राधान्यम्

अथ यज्ञात्मनस्तस्य परमपुरुषस्य यज्ञेनैव यजनीयत्वात् यज्ञस्यैव प्राधान्यं सर्वेष्वपि वेदेषु कलम् । स च यज्ञः ज्ञानो-पासनाक्रियादिरूपो वेदोपदिष्टः समस्तोऽपि धर्मः । तथा च मन्त्रवर्णेः— “ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासनू । ” इति (**ऋ० १।१३०।१६; बा० य० ३।११६ **) द्रव्ययज्ञस्तपोयज्ञाः ध्यानयज्ञास्तथा परे । स्वाध्यायाज्ञानयज्ञाश्च यतयः संशितव्रताः ।। ” इति च स्मृतिः । ( गी० ४।२८ ) यज्ञार्थमेव सर्वेषामपि वेदानां प्रवृत्तिः । तथा च लगधः— “ वेदाङ्गानि यज्ञार्थमभिपवृत्ताः कालानुपूर्वी विहिताश्च यज्ञाः । ” इति (वेद) यज्ञप्राधान्यादेव मनो-मयस्र्यात्मनो यजुःशिरस्त्वं श्रुतिषु प्रसिद्धम् । “ तस्माद्वा एतस्मात्प्राणमयात्। अन्योऽन्तर आत्मा मनोमयः तस्य यजुवेव शिरः । ” इति (**तै० ब्रा० ३० २ **) सर्वस्य गात्रस्य शिरः प्रधानम्। इति प्रत्यक्षादिदृष्टं न्यायतत्त्वम्। अपि च “ गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्किमर्किणः ” (**ऋ० १।११७।१ **) “ ऋचां त्वः पोषमास्ते पुपुष्पवना-यद्वां त्वां गायति शक्वरीषु ।” (**ऋ० १०।१७।११ **) इति च मन्त्रवर्णात् “ ऋचैव होतां क्रियते, यजुषाऽऽऽचर्युवम्, सान्नोद्गीथम् ” ( ऐ० ब्रा० ५।१३ ) ।( १३ )

इति ब्राह्मणवचनाच्च ऋग्यजुःसाम्नां हौत्र-हवन-गानादिरूप यथार्थत्वेन विनियोगात्, सर्वेषामपि वेदानां यज्ञपरत्वेन लाक्षणिकं यजुर्वेदत्वमर्थतः कल्प्सम् । सर्वैर्वेदैर्ब्रह्मयाज्ञसिद्धेश्च-“यत्स्वाध्यायमधयीतैककाभ्यूच्यं यजुः साम वा तद्ब्रह्मयज्ञः सन्तिष्ठते” इति श्रुतेः । (**तै० आ० २।१० **) अपि च ‘ सर्वे वेदा यत्पदमामनन्ति० । तच्चै पदं सङ्ग्रहण ब्रवीम्योमित्येवत्’ ( कठो० १।२।१५ ) इति श्रुतिनिदिष्टस्य सर्ववेदमूलभूतस्य ब्रह्मवाचकस्य प्रणवस्यापि यजुष्ट्वं, तथा ब्रह्मयाज्ञादौ सर्वेषां वेदानामादौ तत्प्रणवानुवचनं च विहितमनु श्रूयते, तथा हि- ‘ ब्रह्मयज्ञेन यक्ष्यमाणः०-ओमिति प्रतिपद्यते एतद्वे यजुष्ट्वयां विद्यां प्रत्ययेवा वागेतत्परमक्ष रमू’ इति । (**तै० आ० २।११ **) तथा ‘ओमिति ब्रह्म, ओमितीदः सर्वम्। ओमित्येतदनुकृति ह स्म वा अप्योश्रावयेत्याश्रावयन्ति । ओमिति सामानि गायन्ति । ओःशोमिति शस्त्राणि शंसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपप्नवानीति । ब्रह्मोवोपप्नोति ॥ (**तै० शि० उ० १।१।१५ **) इति ऋगादिवेदाष्वयेषु सर्वेष्वपि यजुषु यजुर्मन्त्रात्मकप्रणवपूर्वकमेव सर्ववेदमन्त्रानुवचनेन तद्यज्ञकर्मानुष्ठानविधानात् यजुःप्रधानाः सर्वे वेदाः, यजुःप्रधानाः सर्वे यज्ञा इति सम्पद्यते ।

सर्वेषां वेदानां यजुष्ट्वम्

तथैव वेदरसरभूताना ‘ भूर्भुवः स्वः ’ इति प्रसिद्धानां तिसृणां व्याहृतीनामपि छन्दतः क्लृप्तं यजुष्ट्वम्। तासां व्याह तीनां वेदरसारभूतत्वात् वेदसाधेषु प्राणायामावभ्रह्मयज्ञसन्ध्योपासनदिषु सर्वेष्वपि यजुषु यजुर्मन्त्रप्रणवव्याहृति पूर्वकमेव गायत्र्याः जपादिक् तथा गायत्रीमुखेन च सर्वेषां वेदानामनुवचनं च विहितम् । ‘ ओमिति प्रतिपद्यते० श्रीनेव त्रिरनुवाह षोडशौर्ध्वशोडशोनवानम् ’ इति ब्रह्मयज्ञविधानम् (**तै० आ० २।११ **) गायत्रीं शिरसा सार्धं जपेद्याहृतिपूर्विकाम्। प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥ ( पा० स्मृ० ) इति च प्राणायामविधिः ॥ १ ‘प्रणवः पूर्वमुख्यायों भूर्भुवः स्वस्ततः परम्। गायत्री प्रणवचान्ते जपेद्येवमुदाहृतम् ॥ ( योगीश्वरः ) इति सन्ध्योपासनादौ जपविधिः । एवं ‘ ऋचो अक्षरे परमे व्योमन ’ (**ऋ० १।१६४।३९ **) ‘ओमित्येवा वाक् एतद् वा एतदक्षरं यत्सर्वा त्रयी विद्यां प्रति प्रतीति च’ ( ब्राह्मणम् ) ‘सर्वे वेदा यत्पदमामनन्ति० ओमित्येतत्’ ( कठो० १।२।१५ ) इत्यादि श्रुतिनिदिष्टब्रह्मवाचक्यजुर्मन्त्रात्मकप्रणवोदितत्वात् सर्वेषामपि वेदानां यजुर्वेदत्वमिति सिध्यति । एतदेव सर्वपरित्यागेन सन्न्यासयोगेन केवलमात्मसाक्षात्काराथं यतमानानां नैष्ठिकं धर्मामरूढानां यतीनां तस्य परब्रह्मोप रत्नमनो ज्ञानाय जप-ध्यान-धारणावश्यकत्वाय च यजुर्मन्त्रात्मकं परं तत्प्रणवाक्षरमेवोपदिश्य ‘ ऊँ खं ब्रह्म ’ ( वा० म० ४०।१८ ) ‘ ओमित्यैकाक्षरं ब्रह्म। अग्निदेवता ब्रह्म इत्यार्षम्। गायत्री छन्दं परमार्थं सरूपम् । सायुज्य विनियोगम् ’ इति ( म० ना० उ० १।३३ ) ‘ओमित्येतदक्षरमिदः सर्व०, ओंकार आत्मैव संविशत्यात्मनात्मानं । य एवं वेद० ’ इति । ( मां० उ० १-१२ ) ‘ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ’ ( मुंड० उ० २।२।६ ) ‘ एतद्व्येवाक्षरं ब्रह्म। एतद्व्येवं ब्रह्म। इति ( कठो० १।२।१६-१७ ) ‘ऋग्भिरेतं यजुर्भिरन्तरिक्षं ससामभिर्यत्कवयो वेदयन्ते । तमोधोरणेनैवायतनेनान्वेति विद्वान्यत्त -च्छान्तमजरममृतमभयं परं चेति ’ इति । ( प्रसो० पा० )(१३)

ओमित्येत्दक्षरमुद्गीथमुपासीत

(छां० उ० १।१।१)

पर (म) हंसत्रती यस्तु प्रणवाभ्यासशीलत: । यद्युत्पन्नविज्ञानी विरक्तः संयतेन्द्रियः । यावज्जीवं जपेन्मन्त्रं प्रणवं ब्रह्मणो वपुः

इति पाठे। तस्मात् यज्ञप्राधान्यात् ज्ञानादिसर्वयज्ञपरत्वाच्च प्रणवाभ्याह्लादीनां ऋगादिवेदवदनानामपि यजुर्वेदत्वमिति सिद्धम्। तथा च विष्णुपुराणवचनम्–

एक एव यजुर्वेदस्तं चतुर्धा व्यकल्पयत्

इति।

एक एव पुरा वेदः प्रणवः सर्ववाङ्मयः

इति ( भाग० १।१४।४९ ) “ ओमिति प्रतिपद्यते एतद्वै यजुः” इति। (**तै० आ० २।१ **)

← परिचयः (Back to Index)