संत॑ति॒र्वा ए॒ते ग्रहाः᳚ । यत् परः॑ सामानः । वि॒षू॒वान्-दि॑वाकी॒र्त्य᳚म् । यथा॒ शाला॑यै॒ पक्ष॑सी । ए॒वꣳ सं॑ॅवथ्स॒रस्य॒ पक्ष॑सी । यदे॒तेन गृ॒ह्येरन्न्॑ । विषू॑ची संॅवथ्स॒रस्य॒ पक्ष॑सी॒ व्यव॑स्रꣳ सेयाताम् । आर्ति॒मार्च्छे॑युः । यदे॒ते गृ॒ह्यन्ते᳚ । यथा॒ शाला॑यै॒ पक्ष॑सी मद्ध्य॒मं-ॅवꣳ॒॒शम॒भि स॑मा॒यच्छ॑ति
कोर्वै (Index)
(स॒मा॒यच्छ॑ - त्यतिग्रा॒ह्या॑ गृह्यन्ते - गृ॒ह्यते॑ - संॅवथ्स॒रस्था॒न्यो᳚न्यो गृह्येते॒ पञ्च॑ च )