TB 1.2.5

4 पञ्चाशत्

1.2.5 अनुवाकं 5 - पशवः वैष्णवाद्या नव

1.2.5.1
अप्र॑तिष्ठां॒ ॅवा ए॒ते ग॑च्छन्ति । येषाꣳ॑ संॅवथ्स॒रेऽना॒प्तेऽथ॑ । ए॒का॒द॒शिन्या॒प्यते᳚ ॥ वै॒ष्ण॒वं ॅवा॑म॒न-माल॑भन्ते । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ्मे॒वाल॑भन्ते॒ प्रति॑ष्ठित्यै । ऐ॒न्द्रा॒ग्न-माल॑भन्ते । इ॒न्द्रा॒ग्नी वै दे॒वाना॒-मया॑तयामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ते ए॒वाल॑भन्ते
कोर्वै (Index)
(ते-ए॒वाल॑भन्ते-मैत्रावरु॒णीमाल॑भ॒न्ते-ऽव॑रुद्ध्यै-+स॒प्त च॑)
1.2.5.2
वै॒श्व॒दे॒व-माल॑भन्ते । दे॒वता॑ ए॒वाव॑-रुन्धते । द्या॒वा॒पृ॒थि॒व्यां᳚ धे॒नु-माल॑भन्ते । द्यावा॑पृथि॒व्योरे॒व प्रति॑ तिष्ठन्ति । वा॒य॒व्यं॑ ॅव॒थ्समाल॑भन्ते । वा॒युरे॒वैभ्यो॑ यथाऽऽयत॒नाद्-दे॒वता॒ अव॑रुन्धे । आ॒दि॒त्यामविं॑ ॅव॒शा-माल॑भन्ते । इ॒यं ॅवा अदि॑तिः । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति । मै॒त्रा॒व॒रु॒णी-माल॑भन्ते
कोर्वै (Index)
(ते-ए॒वाल॑भन्ते-मैत्रावरु॒णीमाल॑भ॒न्ते-ऽव॑रुद्ध्यै-+स॒प्त च॑)
1.2.5.3
मि॒त्रेणै॒व य॒ज्ञ्स्य॒ स्वि॑ष्टꣳ शमयन्ति । वरु॑णेन॒ दुरि॑ष्टम् । प्रा॒जा॒प॒त्यं तू॑प॒रं म॑हाव्र॒त आल॑भन्ते । प्रा॒जा॒प॒त्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ सम॑र्द्धयन्ति । अथो॒ अह्न॑ ए॒वैष ब॒लिर् ह्रि॑यते । आ॒ग्ने॒यमाल॑भन्ते॒ प्रति॒ प्रज्ञा᳚त्यै ॥ अ॒ज॒पे॒त्वान्. वा ए॒ते पूर्वै॒र्मासै॒र-व॑रुन्धते । यदे॒ते ग॒व्याः प॒शव॑ आल॒भ्यन्ते᳚ । उ॒भये॑षां पशू॒ना-मव॑रुद्ध्यै ( ) ।
कोर्वै (Index)
(ते-ए॒वाल॑भन्ते-मैत्रावरु॒णीमाल॑भ॒न्ते-ऽव॑रुद्ध्यै-+स॒प्त च॑)
1.2.5.4
यदति॑रिक्ता-मेकाद॒शिनी॑-मा॒लभे॑रन्न् । अप्रि॑यं॒ भ्रातृ॑व्य-म॒भ्यति॑रिच्येत । यद् द्वौद्वौ॑ प॒शू स॒मस्ये॑युः । कनी॑य॒ आयुः॑ कुर्वीरन्न् । यदे॒ते ब्राह्म॑णवन्तः प॒शव॑ आल॒भ्यन्ते᳚ । नाप्रि॑यं॒ भ्रातृ॑व्य-म॒भ्य॑ति॒रिच्य॑ते । न कनी॑य॒ आयुः॑ कुर्वते ।
कोर्वै (Index)
(ते-ए॒वाल॑भन्ते-मैत्रावरु॒णीमाल॑भ॒न्ते-ऽव॑रुद्ध्यै-+स॒प्त च॑)