TB 1.2.6

7 पञ्चाशत्

1.2.6 अनुवाकं 6 - महाव्रतम्

1.2.6.1
प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा वृ॒त्तो॑ऽशयत् । तं दे॒वा भू॒तानाꣳ॒॒ रसं॒ तेजः॑ स॒भृंत्य॑ । तेनै॑नमभिषज्यन्न् । म॒हान॑वव॒र्तीति॑ । तन् म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हद्-व्र॒तमिति॑ । तन् म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒ह॒तो व्र॒तमिति॑ । तन् म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् ॥ प॒ञ्च॒विꣳ॒॒शः स्तोमो॑ भवति
कोर्वै (Index)
(भ॒व॒ति॒ - भ॒व॒ति॒ - क्रि॒यते॒ - पुरु॑षो - जयत्य - जय - ञ्जय॒त्येकं॑ च)
1.2.6.2
चतु॑र्विꣳश-त्यर्द्धमासः संॅवथ्स॒रः । यद् वा ए॒तस्मिन्᳚थ् संॅवथ्स॒रे ऽधि॒प्राजा॑यत । तदन्नं॑ पञ्चविꣳ॒॒श-म॑भवत् ॥ म॒द्ध्य॒तः क्रि॑यते । म॒द्ध्य॒तो ह्यन्न॑मशि॒तं धि॒नोति॑ । अथो॑ मद्ध्य॒त ए॒व प्र॒जाना॒मूर्ग्धी॑यते ॥ अथ॒ यद्वा इ॒दम॑न्त॒तः क्रि॒यते᳚ । तस्मा॑दुद॒न्ते प्र॒जाः समे॑धन्ते । अ॒न्त॒तः क्रि॑यते प्र॒जन॑नायै॒व ॥ त्रि॒वृच्छिरो॑ भवति
कोर्वै (Index)
(भ॒व॒ति॒ - भ॒व॒ति॒ - क्रि॒यते॒ - पुरु॑षो - जयत्य - जय - ञ्जय॒त्येकं॑ च)
1.2.6.3
त्रे॒धा॒ वि॒हि॒तꣳ हि शिरः॑ । लोम॑ छ॒वीरस्थि॑ ॥ परा॑चा स्तुवन्ति । तस्मा॒त् तथ् स॒दृगे॒व । न मेद्य॒तोऽनु॑ मेद्यति । न कृश्य॒तोऽनु॑ कृश्यति ॥ प॒ञ्च॒द॒शो᳚ऽन्यः प॒क्षो भ॑वति । स॒प्त॒द॒शो᳚ऽन्यः । तस्मा॒द्-वयाꣳ॑स्य-न्यत॒रम॒र्द्धम॒भि प॒र्याव॑र्तन्ते । अ॒न्य॒त॒रतो॒ हि तद्-गरी॑यः क्रि॒यते᳚ ।
कोर्वै (Index)
(भ॒व॒ति॒ - भ॒व॒ति॒ - क्रि॒यते॒ - पुरु॑षो - जयत्य - जय - ञ्जय॒त्येकं॑ च)
1.2.6.4
प॒ञ्च॒विꣳ॒॒श आ॒त्मा भ॑वति । तस्मा᳚न्-मद्ध्य॒तः प॒शवो॒ वरि॑ष्ठाः ॥ ए॒क॒विꣳ॒॒शं पुच्छ᳚म् । द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै ॥ सर्वे॑ण स॒ह स्तु॑वन्ति । सर्वे॑ण॒ ह्या᳚त्मना᳚ऽऽत्म॒न्वी । स॒होत्पत॑न्ति ॥ एकै॑का॒-मुच्छिꣳ॑षन्ति । आ॒त्मन्न्. ह्यङ्गा॑नि ब॒द्धानि॑ ॥ न वा ए॒तेन॒ सर्वः॒ पुरु॑षः
कोर्वै (Index)
(भ॒व॒ति॒ - भ॒व॒ति॒ - क्रि॒यते॒ - पुरु॑षो - जयत्य - जय - ञ्जय॒त्येकं॑ च)
1.2.6.5
यदि॒त इ॑तो॒ लोमा॑नि द॒तो न॒खान् । प॒रि॒मादः॑ क्रियन्ते । तान्ये॒व तेन॒ प्रत्यु॑प्यन्ते ॥ औदु॑म्बर॒स्तल्पो॑ भवति । ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्या-व॑रुद्ध्यै ॥ यस्य॑ तल्प॒सद्य॒-मन॑भिजितꣳ॒॒ स्यात् । स दे॒वानाꣳ॒॒ साम्य॑क्षे । त॒ल्प॒सद्य॑-म॒भिज॑या॒नीति॒ तल्प॑मा॒-रुह्योद्-गा॑येत् । त॒ल्प॒सद्य॑-मे॒वाभिज॑यति
कोर्वै (Index)
(भ॒व॒ति॒ - भ॒व॒ति॒ - क्रि॒यते॒ - पुरु॑षो - जयत्य - जय - ञ्जय॒त्येकं॑ च)
1.2.6.6
यस्य॑ तल्प॒सद्य॑-म॒भिजि॑तꣳ॒॒ स्यात् । स दे॒वानाꣳ॒॒ साम्य॑क्षे । त॒ल्प॒सद्यं॒ मा परा॑जे॒षीति॒ तल्प॑-मा॒रुह्योद्-गा॑येत् । न त॑ल्प॒सद्यं॒ परा॑जयते ॥ प्ले॒ङ्खे शꣳ॑सति । महो॒ वै प्ले॒ङ्खः । मह॑स ए॒वान्नाद्य॒स्या-व॑रुद्ध्यै ॥ दे॒वा॒सु॒राः संॅय॑त्ता आसन्न् । त आ॑दि॒त्ये व्याय॑च्छन्त । तं दे॒वाः सम॑जयन्न्
कोर्वै (Index)
(भ॒व॒ति॒ - भ॒व॒ति॒ - क्रि॒यते॒ - पुरु॑षो - जयत्य - जय - ञ्जय॒त्येकं॑ च)
1.2.6.7
ब्रा॒ह्म॒णश्च॑ शू॒द्रश्च॑ चर्मक॒र्ते व्याय॑च्छेते । दैव्यो॒ वै वर्णो᳚ ब्राह्म॒णः । अ॒स॒र्यः॑ शू॒द्रः । इ॒मे॑ऽराथ् सुरि॒मे सु॑भू॒त-म॑क्र॒-न्नित्य॑न्यत॒रो ब्रू॑यात् । इ॒म उ॑द्वासीका॒रिण॑ इ॒मे दु॑र्भू॒त-म॑क्र॒न्नित्य॑न्यत॒रः । यदे॒वैषाꣳ॑ सुकृ॒तं ॅया राद्धिः॑ । तद॑न्यत॒रो॑-ऽभिश्री॑णाति । यदे॒वैषां᳚ दुष्कृ॒तं ॅयाऽरा᳚द्धिः । तद॑न्यत॒रो-ऽप॑हन्ति । ब्रा॒ह्म॒णः सं ज॑यति ( ) । अ॒मुमे॒वादि॒त्यं भ्रातृ॑व्यस्य॒ संॅवि॑न्दन्ते ।
कोर्वै (Index)
(भ॒व॒ति॒ - भ॒व॒ति॒ - क्रि॒यते॒ - पुरु॑षो - जयत्य - जय - ञ्जय॒त्येकं॑ च)