ए॒क॒विꣳ॒॒श ए॒ष भ॑वति । ए॒तेन॒ वै दे॒वा ए॑कविꣳ॒॒शेन॑ । आ॒दि॒त्यमि॒त उ॑त्त॒मꣳ सु॑व॒र्गं ॅलो॒क-मारो॑हयन्न् । स वा ए॒ष इ॒त ए॑कविꣳ॒॒शः । तस्य॒ दशा॒वस्ता॒दहा॑नि । दश॑ प॒रस्ता᳚त् । स वा ए॒ष वि॒राज्यु॑भ॒यतः॒ प्रति॑ष्ठितः । वि॒राजि॒ हि वा ए॒ष उ॑भ॒यतः॒ प्रति॑ष्ठितः । तस्मा॑दन्त॒रेमौ लो॒कौ यन्न् । सर्वे॑षु सुव॒र्गेषु॑ लो॒के-ष्व॑भि॒तप॑न्नेति ।
कोर्वै (Index)
(ए॒ति॒-पव॑मानयोः॒-स्परा॑णी॒ पञ्च॑ च)