ऋ॒द्ध्यास्म॑ ह॒व्यैर्-नम॑सोप॒ सद्य॑ । मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु । अ॒नू॒रा॒धान्. ह॒विषा॑ व॒र्द्धय॑न्तः । श॒तं जी॑वेम श॒रदः॒ सवी॑राः ॥ चि॒त्रं नक्ष॑त्र॒-मुद॑गात् पु॒रस्ता᳚त् । अ॒नू॒रा॒धास॒ इति॒ यद् वद॑न्ति । तन्मि॒त्र ए॑ति प॒थिभि॑ र्देव॒यानैः᳚ । हि॒र॒ण्ययै॒ र्वित॑तै-र॒न्तरि॑क्षे ॥ इन्द्रो᳚ ज्ये॒ष्ठामनु॒ नक्ष॑त्रमेति । यस्मि॑न् वृ॒त्रं ॅवृ॑त्र॒ तूर्ये॑ त॒तार॑
कोर्वै (Index)
(त॒तार॒ - मह्यं॑ - प्रास॒चीर्या - या᳚न्तु य॒ज्ञ्ं - ॅवाचꣳ॑ - स्व॒स्ति - दे॒वा-अनु॑ यन्ति॒ सर्वे॒-वाज॑बस्त्यौ॒-सम॑क्तौ-दे॒वा स्त्रीणि॑ च)