च॒न्द्रमा॒ वा अ॑कामयत । अ॒हो॒रा॒त्रा-न॑र्द्धमा॒सान्-मासा॑-नृ॒तून्थ्- स॑म्ॅवथ्स॒र-मा॒प्त्वा । च॒न्द्रम॑सः॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नुया॒मिति॑ । स ए॒तं च॒न्द्रम॑से प्रती॒दृश्या॑यै पुरो॒डाशं॒ पञ्च॑दशकपालं॒ निर॑वपत् । ततो॒ वै सो॑ऽहोरा॒त्रा-न॑र्द्धमा॒सान्-मासा॑-नृ॒तून्थ्-स॑म्ॅवथ्स॒र-मा॒प्त्वा । च॒न्द्रम॑सः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोत् । अ॒हो॒रा॒त्रान्. ह॒ वा अ॑र्द्धमा॒सान् मासा॑न्-ऋ॒तून्थ्-स॑म्ॅवथ्स॒र-मा॒प्त्वा । च॒न्द्रम॑सः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । च॒न्द्रम॑से॒ स्वाहा᳚ प्रती॒दृश्या॑यै॒ स्वाहा᳚ । अ॒हो॒रा॒त्रेभ्यः॒ स्वाहा᳚ ऽर्द्धमा॒सेभ्यः॒ स्वाहा᳚ । मासे᳚भ्यः॒ स्वाह॒र्तुभ्यः॒ स्वाहा᳚ । स॒म्ॅव॒थ्स॒राय॒ स्वाहेति॑ ।
कोर्वै (Index)
(च॒न्द्रमाः॒ पञ्च॑दशा - होरा॒त्रे स॒प्तद॑ - शो॒षा एका॑द॒शा - थै॒तस्मै॒ नक्ष॑त्ताय॒ त्रयो॑दश॒ - सूर्यो॒ दशा - थै॒तमदि॑त्यै॒ पञ्चा - थै॒तं ॅविष्ण॑वे॒ षट्थ् स॒प्त)