मि॒त्रो वा अ॑कामयत । मि॒त्र॒धेय॑मे॒षु लो॒केष्व॒भि ज॑येय॒मिति॑ । स ए॒तं मि॒त्राया॑नूरा॒धेभ्य॑श्च॒रुं निर॑वपत् । ततो॒ वै स मि॑त्र॒धेय॑मे॒षु लो॒केष्व॒भ्य॑जयत् । मि॒त्र॒धेयꣳ॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । मि॒त्राय॒ स्वाहा॑ ऽनूरा॒धेभ्यः॒ स्वाहा᳚ । मि॒त्र॒धेया॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 5थ् आनुवकम् (मि॒त्र - इन्द्रः॑ - प्र॒जाप॑ति॒र् दश॑ द॒शा - प॒ एका॑दश॒ - विश्वे॒ ब्रह्म॒ दश॑दश॒ - विष्णु॒ स्त्रयो॑दश॒ - वस॑व॒ - इन्द्रो॒ऽ - जोऽहि॒र्वै -
बु॒द्ध्नियः॑ - पु॒षा - ऽश्विनौ॑ - य॒मो दश॑द॒शा - थै॒तद॑ - मावा॒स्या॑या अ॒ष्टौ पञ्च॑दश )