TB 3.1.3

3 पञ्चाशत्

3.1.3 अनुवाकं 3 - चान्द्रमसादीनां सप्तनामिष्टीनां याज्यानुवाक्याः

3.1.3.1
"नवो॑ नवो भवति॒ जाय॑मानो॒ {3]" "यमा॑दि॒त्या अꣳ॒॒शुमा᳚प्या॒यय॑न्ति {4}"॥ ये विरू॑पे॒ सम॑नसा स॒म्ॅव्यय॑न्ती । स॒मा॒नं तन्तुं॑ परि तात॒नाते᳚ । वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मेतम् ॥ व॒यं दे॒वी ब्रह्म॑णा सम्ॅविदा॒नाः । सु॒रत्ना॑सो दे॒ववी॑तिं॒ दधा॑नाः । अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्द्धय॑न्तः । अति॑ पा॒प्मान॒-मति॑मुक्त्या गमेम ॥ प्रत्यु॑वदृश्याय॒ती
कोर्वै (Index)
(आ॒य॒त्य॑ - गम॒थ् - स्वि॑ष्टम्)
3.1.3.2
व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः । अ॒पो म॒ही वृ॑णुते॒ चक्षु॑षा ॥ तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚ । उदु॒स्त्रियाः᳚ सचते॒ सूर्यः॑ । स चा॑ उ॒द्यन्नक्ष॑त्र-मर्चि॒मत् । तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च ॥ सं भ॒क्तेन॑ गमेमहि । तन्नो॒ नक्ष॑त्र-मर्चि॒मत् । भा॒नु॒मत्तेज॑ उ॒च्चर॑त् । उप॑ य॒ज्ञ्-मि॒हाग॑मत् ।
कोर्वै (Index)
(आ॒य॒त्य॑ - गम॒थ् - स्वि॑ष्टम्)
3.1.3.3
प्र नक्ष॑त्राय दे॒वाय॑ । इन्द्रा॒येन्दुꣳ॑ हवामहे । स नः॑ सवि॒ता सु॑वथ् स॒निम् । पु॒ष्टि॒दां ॅवी॒रव॑त्तमम् ॥ "उदु॒त्यं {5}" "चि॒त्रम् {6}"॥ "अदि॑तिर्न उरुष्यतु {7}" "म॒हीमू॒षु मा॒तर᳚म् {8} ॥ "इ॒दं ॅविष्णुः॒{9}" "प्रतद्विष्णुः॑ {10]" ॥ "अ॒ग्निर्मू॒र्द्धा {11}" "भुवः॑ {12}" ॥ "अनु॑ नो॒ऽद्यानु॑मति॒ {13}" "रन्विद॑नुमते॒ त्वम् {14}" ॥ "ह॒व्य॒वाहꣳ॒॒ {15}" "स्वि॑ष्टम् {16}" ( ) ।
कोर्वै (Index)
(आ॒य॒त्य॑ - गम॒थ् - स्वि॑ष्टम्)