TB 3.1.4

15 पञ्चाशत्

3.1.4 अनुवाकं 4 - देव नक्षत्रेष्टिब्राह्मणम्

3.1.4.1
अ॒ग्निर्वा अ॑कामयत । अ॒न्ना॒दो दे॒वानाꣳ॑ स्या॒मिति॑ । स ए॒तम॒ग्नये॒ कृत्ति॑काभ्यः पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर॑वपत् । ततो॒ वै सो᳚ऽन्ना॒दो दे॒वाना॑मभवत् । अ॒ग्निर्वै दे॒वाना॑मन्ना॒दः ॥ यथा॑ ह॒ वा अ॒ग्निर् दे॒वना॑-मन्ना॒दः । ए॒वꣳ ह॒ वा ए॒ष म॑नु॒ष्या॑णां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ ॥ सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्यः॒ स्वाहा᳚ । अ॒म्बायै॒ स्वाहा॑ दु॒लायै॒ स्वाहा᳚ । नि॒त॒त्न्यै स्वाहा॒ ऽभ्रय॑न्त्यै॒ स्वाहा᳚ । मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र॒.षय॑न्त्यै॒ स्वाहा᳚ । चु॒पु॒णीका॑यै॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.2
प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता अ॑स्माथ् सृ॒ष्टाः परा॑चीरायन्न् । तासाꣳ॑ रोहि॒णी-म॒भ्य॑द्ध्यायत् । सो॑ऽकामयत । उप॒ माऽऽव॑र्तेत । समे॑नया गच्छे॒येति॑ । स ए॒तं प्र॒जाप॑तये रोहि॒ण्यै च॒रुं निर॑वपत् । ततो॒ वै सा तमु॒पाव॑र्तत । समे॑नया ऽगच्छत ॥ उप॑ ह॒ वा ए॑नं प्रि॒यमाव॑र्तते । सं प्रि॒येण॑ गच्छते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ ॥ सोऽत्र॑ जुहोति । प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा᳚ । रोच॑मानायै॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.3
सोमो॒ वा अ॑कामयत । ओष॑धीनाꣳ रा॒ज्य-म॒भिज॑येय॒मिति॑ । स ए॒तꣳ सोमा॑य मृगशी॒र॒.षाय॑ श्यामा॒कं च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स ओष॑धीनाꣳ रा॒ज्यम॒भ्य॑जयत् । स॒मा॒नानाꣳ॑ ह॒ वै रा॒ज्यम॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । सोमा॑य॒ स्वाहा॑ मृगशी॒र॒.षाय॒ स्वाहा᳚ । इ॒न्व॒काभ्यः॒ स्वाहौष॑धीभ्यः॒ स्वाहा᳚ । रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.4
रु॒द्रो वा अ॑कामयत । प॒शु॒मान्थ् स्या॒मिति॑ । स ए॒तꣳ रु॒द्राया॒र्द्रायै॒ प्रैय॑ङ्गवं च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान्. ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । रु॒द्राय॒ स्वाहा॒ ऽऽर्द्रायै॒ स्वाहा᳚ । पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्यः॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.5
ऋ॒क्षा वा इ॒यम॑लो॒मका॑ऽऽसीत् । साऽका॑मयत । ओष॑धीभि॒र्-वन॒स्पति॑भिः॒ प्रजा॑ये॒येति॑ । सैतमदि॑त्यै॒ पुन॑र्वसुभ्यां च॒रुं निर॑वपत् । ततो॒ वा इ॒यमोष॑धीभि॒र्-वन॒स्पति॑भिः॒ प्राजा॑यत । प्रजा॑यते ह॒ वै प्र॒जया॑ प॒शुभिः॑ । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्याम् । स्वाहाऽऽभू᳚त्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.6
बृह॒स्पति॒र्वा अ॑कामयत । ब्र॒ह्म॒व॒र्च॒सी स्या॒मिति॑ । स ए॒तं बृह॒स्पत॑ये ति॒ष्या॑य नैवा॒रं च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भवत् । ब्र॒ह्म॒व॒र्च॒सी ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा᳚ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.7
दे॒वा॒सु॒राः सम्ॅय॑त्ता आसन्न् । ते दे॒वाः स॒र्पेभ्य॑ आश्रे॒षाभ्य॒ आज्ये॑ कर॒म्भं निर॑वपन्न् । ताने॒ताभि॑रे॒व दे॒वता॑-भि॒रुपा॑नयन्न् । ए॒ताभि॑र्ह॒ वै दे॒वता॑भिर्-द्वि॒षन्तं॒ भ्रातृ॑व्य॒-मुप॑नयति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । स॒र्पेभ्यः॒ स्वाहा᳚ऽऽश्रे॒षाभ्यः॒ स्वाहा᳚ । द॒न्द॒शूके᳚भ्यः॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.8
पि॒तरो॒ वा अ॑कामयन्त । पि॒तृ॒लो॒क ऋ॑द्ध्नुया॒मेति॑ । त ए॒तं पि॒तृभ्यो॑ म॒घाभ्यः॑ पुरो॒डाशꣳ॒॒ षट्क॑पालं॒ निर॑वपन्न् । ततो॒ वै ते पि॑तृलो॒क आ᳚र्द्ध्नुवन्न् । पि॒तृ॒लो॒के ह॒ वा ऋ॑ध्नोति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । पि॒तृभ्यः॒ स्वाहा॑ म॒घाभ्यः॑ । स्वाहा॑ ऽन॒घाभ्यः॒ स्वाहा॑ ऽग॒दाभ्यः॑ । स्वाहा॑ ऽरुन्ध॒तीभ्यः॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.9
अ॒र्य॒मा वा अ॑कामयत । प॒शु॒मान्थ् स्या॒मिति॑ । स ए॒तम॑र्य॒म्णे फल्गु॑नीभ्यां च॒रुं निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान्. ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्याꣳ॒॒ स्वाहा᳚ । प॒शुभ्यः॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.10
भगो॒ वा अ॑कामयत । भ॒गी श्रे॒ष्ठी दे॒वानाꣳ॑ स्या॒मिति॑ । स ए॒तं भगा॑य॒ फल्गु॑नीभ्यां च॒रुं निर॑वपत् । ततो॒ वै स भ॒गी श्रे॒ष्ठी दे॒वाना॑मभवत् । भ॒गी ह॒ वै श्रे॒ष्ठी स॑मा॒नानां᳚ भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्याꣳ॒॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.11
स॒वि॒ता वा अ॑कामयत । श्रन्मे॑ दे॒वा दधी॑रन्न् । स॒वि॒ता स्या॒मिति॑ । स ए॒तꣳ स॑वि॒त्रे हस्ता॑य पुरो॒डाशं॒ द्वाद॑शकपालं॒ निर॑वपदाशू॒नां ॅव्री॑ही॒णाम् । ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑धत । स॒वि॒ताऽभ॑वत् । श्रद्ध॒ वा अ॑स्मै मनु॒ष्या॑ दधते । स॒वि॒ता स॑मा॒नानां᳚ भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । स॒वि॒त्रे स्वाहा॒ हस्ता॑य । स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते । स्वाहा᳚ प्र॒यच्छ॑ते॒ स्वाहा᳚ प्रतिगृभ्ण॒ते स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.12
त्वष्टा॒ वा अ॑कामयत । चि॒त्रं प्र॒जां ॅवि॑न्दे॒येति॑ । स ए॒तं त्वष्ट्रे॑ चि॒त्रायै॑ पुरो॒डाश॑म॒ष्टा-क॑पालं॒ निर॑वपत् । ततो॒ वै स चि॒त्रं प्र॒जाम॑विन्दत । चि॒त्रꣳ ह॒ वै प्र॒जां ॅवि॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा᳚ । चैत्रा॑य॒ स्वाहा᳚ प्र॒जायै॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.13
वा॒युर्वा अ॑कामयत । का॒म॒चार॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ । स ए॒तद्-वा॒यवे॒ निष्ट्या॑यै गृ॒ष्ट्यै दु॒ग्धं पयो॒ निर॑वपत् । ततो॒ वै स का॑म॒चार॑मे॒षु लो॒केष्व॒भ्य॑जयत् । का॒म॒चारꣳ॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा᳚ । का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.14
इ॒न्द्रा॒ग्नी वा अ॑कामयेताम् । श्रैष्ठ्यं॑ दे॒वाना॑-म॒भिज॑ये॒वेति॑ । तावे॒तमि॑न्द्रा॒ग्निभ्यां॒ ॅविशा॑खाभ्यां पुरो॒डाश॒-मेका॑दशकपालं॒ निर॑वपताम् । ततो॒ वै तौ श्रैष्ठ्यं॑ दे॒वाना॑-म॒भ्य॑जयताम् । श्रैष्ठ्यꣳ॑ ह॒ वै स॑मा॒नाना॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । इ॒न्द्रा॒ग्निभ्याꣳ॒॒ स्वाहा॒ विशा॑खाभ्याꣳ॒॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहेति॑ ।
कोर्वै (Index)
श्पॆचिअल् खोर्वै इन्दिचतिन्ग् थे नुम्बेर् ऒf "वाक्यम्स्" इन् एअच् डसिनि ऒf 4थ् आनुवकम् (अ॒ग्निः पञ्च॑दश - प्र॒जाप॑तिः॒ षोड॑श॒ - सोम॒ एका॑दश - रु॒द्रो दश॒ - र्.क्षैका॑दश॒ - बृह॒स्पति॒र् दश॑ - देवासु॒रा नव॑ - पि॒तर॒ एका॑दशा-र्य॒मा-भगो॒ दश॑ दश-सवि॒ता चतु॑र्दश॒-त्वष्टा॑-वा॒यु- रि॑न्द्रा॒ग्नी दश॑ द॒शा-थै॒तत् पौ᳚र्णमा॒स्या अ॒ष्टौ पञ्च॑दश )
3.1.4.15
अथै॒तत्-पौ᳚र्णमा॒स्या आज्यं॒ निर्व॑पति । कामो॒ वै पौ᳚र्णमा॒सी । काम॒ आज्य᳚म् । कामे॑नै॒व कामꣳ॒॒ सम॑र्द्धयति । क्षि॒प्रमे॑नꣳ॒॒ स काम॒ उप॑नमति । येन॒ कामे॑न॒ यज॑ते । सोऽत्र॑ जुहोति । पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहेति॑ ।