अनुवाकः 1 TS 3.2.1

(A1)

(ए॒ते - वि - द्विच॑त्वारिꣳशच्च)

अनुवाकः 1 - Complete Audio

TS 3.2.1 - स्वरानुगामी

0:00 0:00
PS1.1 यो वै पव॑मानानामन्वारो॒हान्. वि॒द्वान्.
PS1.2 यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न
PS1.3 पव॑माने॒भ्यो-ऽव॑ च्छिद्यते श्ये॒नो॑ऽसि गाय॒त्रछ॑न्दा॒
PS1.4 अनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒
PS1.5 सं पा॑रय सुप॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दा॒
PS1.6 अनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒
PS1.7 सं पा॑रय॒ सघा॑ऽसि॒ जग॑तीछन्दा॒
PS1.8 अनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒
PS1.9 संपा॑र॒येत्या॑है॒ते- [ ]
PS2.1 वै पव॑मानानामन्वारो॒हास्तान्. य ए॒वं
PS2.2 ॅवि॒द्वान्. यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒
PS2.3 न पव॑माने॒भ्योऽव॑ च्छिद्यते॒ यो
PS2.4 वै पव॑मानस्य॒ सन्त॑तिं॒ ॅवेद॒
PS2.5 सर्व॒मायु॑रेति॒ न पु॒राऽऽयु॑षः॒ प्र
PS2.6 मी॑यते पशु॒मान् भ॑वति वि॒न्दते᳚
PS2.7 प्र॒जां पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्तेऽथ॒
PS2.8 वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयः॑
PS2.9 पूत॒भृत् तान्. यदगृ॑हीत्वोपाकु॒र्यात् पव॑मानं॒
PS2.10 ॅवि - [ ]
PS3.1 च्छि॑न्द्या॒त् तं ॅवि॒च्छिद्य॑मानमद्ध्व॒र्योः प्रा॒णोऽनु॒
PS3.2 विच्छि॑द्ये-तोपया॒मगृ॑हीतोऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि
PS3.3 मृ॑शे॒दिन्द्रा॑य॒ त्वेत्या॑धव॒नीयं॒ ॅविश्वे᳚भ्यस्त्वा दे॒वेभ्य॒
PS3.4 इति॑ पूत॒भृतं॒ पव॑मानमे॒व तथ्
PS3.5 सं त॑नोति॒ सर्व॒मायु॑रेति॒ न
PS3.6 पु॒राऽऽयु॑षः॒ प्रमी॑यते पशु॒मान् भ॑वति
PS3.7 वि॒न्दते᳚ प्र॒जां

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.2.1.1 TS 3.2.1.1
यो वै पव॑मानानामन्वारो॒हान्. वि॒द्वान्. यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्यो-ऽव॑ च्छिद्यते श्ये॒नो॑ऽसि गाय॒त्रछ॑न्दा॒ अनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒ सं पा॑रय सुप॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒ सं पा॑रय॒ सघा॑ऽसि॒ जग॑तीछन्दा॒ अनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒ संपा॑र॒येत्या॑है॒ते- [ ]
पदपाठः (Word-by-word)
यः । वै । पव॑मानानाम् । अ॒न्वा॒रो॒हानित्य॑नु - आ॒रो॒हान् । वि॒द्वान् । यज॑ते । अन्विति॑ । पव॑मानान् । एति॑ । रो॒ह॒ति॒ । न । पव॑मानेभ्यः । अवेति॑ । छि॒द्य॒ते॒ । श्ये॒नः । अ॒सि॒ । गा॒य॒त्रछ॑न्दा॒ इति॑ गाय॒त्र-छ॒न्दाः॒ । अन्विति॑ । त्वा॒ । एति॑ । र॒भे॒ । स्व॒स्ति । मा॒ । समिति॑ । पा॒र॒य॒ । सु॒प॒र्ण इति॑ सु - प॒र्णः । अ॒सि॒ । त्रि॒ष्टुप्छ॑न्दा॒ इति॑ त्रि॒ष्टुप् - छ॒न्दाः॒ । अन्विति॑ । त्वा॒ । एति॑ । र॒भे॒ । स्व॒स्ति । मा॒ । समिति॑ । पा॒र॒य॒ । सघा᳚ । अ॒सि॒ । जग॑तीछन्दा॒ इति॒ जग॑ती - छ॒न्दाः॒ । अन्विति॑ । त्वा॒ । एति॑ । र॒भे॒ । स्व॒स्ति । मा॒ । समिति॑ । पा॒र॒य॒ । इति॑ । आ॒ह॒ । ए॒ते ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे द्वितीयः प्रपाठकः)

(तत्र प्रथमोऽनुवाकः) ।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽ खिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

आद्यप्रपाठके दीक्षां प्राराभ्य प्रकृतौ पुरा ।

यद्बहिष्पवमानान्तं न्यूनं तत्सर्वमीरितम् ॥

प्रतिनिर्ग्राह्यपर्यन्तं पवमानग्रहादिकम् ।

यन्न्यूनं प्रकृतौ तत्तु वर्ण्यतेऽस्मिन्प्रपाठके ॥

यदुक्तं सूत्रकारेण — “वस्व्यै हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै तेऽ वरुद्ध्या इति पुरुस्ताद्वहिष्पवमानाद्यजमानो जपति दशहोतारं व्याचष्टे स्तूयमाने च दशहोतारं जपति श्येनोऽसि गायत्रछन्दा इति मध्यमायां च स्तीत्रीयायामन्वारोहं द्वितीयो पवमाने द्वितीयेन मन्त्रेण तृतीयो तृतीयेन” इति । तमिममन्वारोहजपं विधत्ते —

यो वा इति । बहिष्पवमानो मार्ध्यदिनः पवमान आर्भद्रः पवमान इत्येतन्नामकाः पवमानत्रयमताः स्तोत्रवशेषाः सामवेदे समाम्नाताः पवमानास्तान्यो यजमानो मन्त्रैरारोहति न कदाचिदयं पवमानेभ्यो विच्छिन्नो भवति । श्येन इत्यादयो मन्वाः । हे बहिष्पवमान त्वं श्येनोऽसि श्येनवच्छीघ्रगतिरसि । गायत्रछन्दा गायत्रीछन्दस्कोऽप्यसि । अतस्त्वामन्वारभेऽनुक्रमेणाऽऽसेहामि प्राप्नोमि निर्विघ्नेन मां संपारय सम्यक्पारं नय । तमिमं मन्त्रमुपास्मै गायतेत्यादिषु नवसु स्तोत्रीयासु मध्यमायां पञ्चम्यां स्तोत्रीयायां गीयमानायां जपेत् ।सुपर्ण इत्यादिर्द्वितीयो मन्त्रः । हे माध्यंदिन पवमान त्वं सुपर्णोऽसि सुपर्णवदुत्पातितुं समर्थोऽसि । शेषं पूर्ववत् । तमिमं मनत्रमुच्चा ते जातमन्धस इत्यादिकमाध्यंदिनपवमानस्स्तोत्रे मध्यमायामृचि गीयामानायां जपेत् । सघेत्यादयस्तृतीयो मन्त्रः । हे आर्भव पवमान त्वं सघाऽसि भासमानकपक्षिवत्पतितुं समर्थोऽसि । शेषं पूर्ववत् । तमिमं मन्त्रं स्वादिष्ठयेत्येतस्यिन्नार्भवपवमानाख्ये स्तोत्रे मध्यमायामृचि गीयमानायां (पठे) जपेत् ।

अथ द्रोणकलशादीनामभिमर्शनं विधातुं प्रस्तौति —

यो व इति । योऽयं बहिष्पवमानादिशब्दैरभिधीयमानः स्तोत्रविशेषत्रयरूपः पवमानोस्ति तस्य संततिमविच्छेदप्रकारं यो यजमानो वेद स यजमानः संपूर्णमायुः प्राप्नोति । जन्मकाले कर्मणा देवैश्च परिकल्पितात्संपूर्णादायुषः पुरा केनाप्यपमृत्युनाऽसौ न म्रियेत प्रजापशुसमृद्धश्चायं भवति । द्रोणकलशादिनामकास्त्रयो ग्रहा इम ऐन्द्रवायवादिग्रहवन्मन्त्रैर्गृह्यन्तामिति । तत्र तावत्पवमानस्य संबन्धिन एते ग्रहाः संततिसिद्ध्यर्थं गृह्यन्तामिति प्राप्तं सोऽयं पक्षो न संभवति । मन्त्रकाण्डे ध्रुवग्रहर्तुग्रहयोर्मध्ये पवमानग्रहार्थानां मन्त्राणामनाम्नातत्वात्षष्ठकाण्डे दद्विध्यभावाच्च । तदेतदुच्यते — अथवा अस्यैतेऽगृहीता द्रोणकलश इत्यादिता । यद्यपि पवमानस्य संबन्धिन एते द्रोणकलशाधवनीयपूतभृतस्तूणीं गृहीता एव तथाऽपि मन्त्राभावादगृहीतप्रायास्तेषु चागृहीतेषूपाकरणे पवमानविच्छेदस्तस्मिन्विच्छिन्नेऽ ध्वर्युप्राणविच्छेदः स्यादिति मन्त्रैस्तानभिमृशेत् । ततश्च नोक्तविच्छेद इत्यर्थः । मन्त्रैस्तदभिमर्शनं विधत्ते —

उपयामेति । मन्त्रार्थस्तु हे सोमरस त्वमुपयामेन पार्थिवपात्रेण कलशेन गृहीतोऽसि । इयं वा उपयाम इति श्रुतेः पार्थिवपात्रमुपयामशब्दस्यार्थः । तेन गृहीतं त्वां प्रजापत्यर्थमभिमृशामि । अनेन मन्त्रेण द्रोणकलशमभिमृशेत । उत्तरयोरपि मन्त्रयोरुपयामगृहीतोऽसीत्यनुषज्यते । तत्राऽऽधवनीयः कलशः पूतभृत्कलशश्चोपयामशब्दस्यार्थः । हे सोमरसोपयामेन मृन्मयेन भाण्डेनाऽऽ- धवनीयकलशेन त्वं गृहीतोऽसि । अतस्त्वामिन्द्रार्थमभिमृशामि । अनेन मन्त्रेणाऽऽ धवनीयमभिमृशेत् । हे सोमरसोपयामेन मृन्मयभाण्डेन पूतभृत्कलशेन गृहीतोऽस्यतस्त्वां विश्वेभ्यो देवेभ्यो देवेभ्योऽभिमृशामि । अनेन मन्त्रेण पूतभृतमभिमृशेत् । तेन पात्रत्रयाभिमर्शनेन पवमानस्तोत्रं सततं करोति । यद्यप्येषु पात्रेष्वैन्द्रवायवादिवत्समन्त्रकं ग्रहणं नास्ति तथाऽपि रसस्तेष्वस्ति । अत एव सूत्रकार आह — “अभिषुतमध्वर्युरञ्जलिना ससिञ्चति तमुन्नेताऽन्तरेषे णो (चो) द्धृत्योत्तरत आधवनीयेऽ वनयति’ इति, ‘उद्गातारो द्रोणकालशं प्रतिष्ठाप्य तस्मिन्नुदीचीनदशं पवित्रं वितन्वन्ति, पवित्रस्य यजमानो नाभिं कृत्वा तस्मिन्होतृचमसेन धारां स्रावयति’ इति च, ‘पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तमसर्वं पूतभृत्यवनीय’ इति च । तदेवं त्रिषु पात्रेषु सोमरसस्यावस्थि तत्वादभिमर्शनमन्त्रेण संस्कृतत्वाच्च केनापि प्रकारेण गृहीता एम पवमानग्रहा भवन्ति । तेन पवमानस्य संततत्वाद्यजमानोऽप्यायुरादिकं प्राप्नोति । त एते पूर्वोक्ता अन्वारोहमन्त्रा अभिमर्शनमन्त्राश्च मूर्धानं मधुश्चेत्यनयोरनुवाकयोरन्तराले द्रष्टव्याः । अत्र विनियोगसंग्रहः —

श्येनस्रीन्पवमानेषु त्रिषु मन्त्रान्क्रमाज्जपेत् ।

प्रजेन्द्रा विश्वे मन्त्राः स्युरुपयामादिकास्त्रयः ॥

तैर्द्रोणकलशादीनां स्पर्शो मन्त्रास्तु षण्मताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे द्वितीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

तैत्तिरीयसंहितायां

द्वितीयप्रपाठकः ॥

1 यो वै पवमानानामित्यादि ॥ पवमानाः बहिष्पवमानादयः । 'पूङ्यजोश्शानन्' । तेषामन्वारोहाः तान् । यैरन्वारुह्यन्ते अनुक्रमेण प्राप्यन्ते तेषामन्वारोहाः मन्त्राः । तान् विद्वान्यजमानः पवमानानन्वारोहति । न पवमानेभ्योवच्छिद्यते । के पुनरन्वारोहा इत्यत आह - श्येनोसीति । तत्र बहिष्पवमाने पञ्चम्यां स्तोत्रियायां प्रस्तुतायां वाचयति । श्येनः पक्षिविशेषः । स शयनीयः शीघ्रगतिः । स एव त्वमसि । गायत्रछन्दाः गायत्रछन्दस्कः । गायत्र्येव गायत्रम्, 'छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसंख्यानम्' इत्यण् । तं त्वामहमन्वारभे अनुक्रमेण रोहामि । किंच - मा स्वस्ति अविघ्नेन संपारय समाप्तकर्माणं कुरु । पार तीर कर्मसमाप्तौ ॥
2 अथ माध्यन्दिने पवमाने अष्टम्यां स्तोत्रियायां प्रस्तुतायां वाचयति - सुपर्णोसीति ॥ सुपर्णः श्येनः वृद्धतरः शोभनपतनः । स एव त्वमसि । त्रिष्टुप्छन्दाः । गतमन्यत् ॥
3 अथार्भवे पवमाने नवम्यां प्रस्तुतायां वाचयति - सघाऽसीति ॥ गृध्रो वा भासो वा सुपर्णादपि वृद्धतरः । स एव त्वमसि । जगतीछन्दाः । समानमन्यत् । इत्याहेति । निगदव्याख्यातम् ॥
4 -6यो वै पवानस्येत्यादि ॥ सन्तानः सन्ततिः अविच्छेदः । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । आयुषः शतर्संवत्सरप्रमाणात् पुरा प्राक् मध्ये न प्रमीयते न म्रियते, पशुमान् भवति बहुपशुर्भवति । 'ह्रस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम् । का पुनस्सन्ततिरित्याह - पवमानस्य ग्रहाः द्रोणकलशादयः । ते पवमानोपाकरणात्प्राक् ये गृह्यन्ते सा पवमानस्य सन्ततिः । तर्हि कस्य ते गृह्यन्तामित्यत आह - अथेति । एते खलु पवमानस्य ग्रहास्स्युः अस्य पवमानस्य सम्बन्धितया गृहीता एव ग्रहा भवन्ति । के पुनस्ते इत्यत आह - द्रोणकलश इत्यादि । तर्हि ते मा ग्राहिषतेत्यत आह - तान्यदित्यादि । यद्येवं का गतिः, यदि गृह्यन्ते पवमानग्रहास्स्युः, यदि न गृह्यन्ते पवमानो विच्छिद्येत । नहि भवन्ति गृह्यन्ते न गृह्यन्ते चेति । तत्राह - उपयामगृहीतोसि प्रजापतये त्वेत्यादि । इयं वा उपयामः तयैव गृहीतस्त्वमसीति व्याख्यातम् । तं त्वां प्रजापतये प्रजापत्यर्थं अभिमृशामीति शेषः । अनेन मन्त्रेण द्रोणकलशमभिमृशेत् उपयामगृहीतोसीति त्रयाणामनुषङ्गः । उपयामगृहीतोसीन्द्राय त्वेत्याधवनीयमभिमृशेत् । उपयामगृहीतोसि विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतमभिमृशेत् । सर्वे पुरस्तादुपयामाः । एतेनाभिमर्शनेन ग्रहपर्यायेण ते गृहीता भवन्ति । तेन पवमानं सन्तनोति । सर्वमायुरेतीत्यादि । गतम् ॥
इति तृतीये द्वितीये प्रथमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.2.1.2 TS 3.2.1.2
वै पव॑मानानामन्वारो॒हास्तान्. य ए॒वं ॅवि॒द्वान्. यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑ च्छिद्यते॒ यो वै पव॑मानस्य॒ सन्त॑तिं॒ ॅवेद॒ सर्व॒मायु॑रेति॒ न पु॒राऽऽयु॑षः॒ प्र मी॑यते पशु॒मान् भ॑वति वि॒न्दते᳚ प्र॒जां पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्तेऽथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयः॑ पूत॒भृत् तान्. यदगृ॑हीत्वोपाकु॒र्यात् पव॑मानं॒ ॅवि - [ ]
पदपाठः (Word-by-word)
वै । पव॑मानानाम् । अ॒न्वा॒रो॒हा इत्य॑नु - आ॒रो॒हाः । तान् । यः । ए॒वम् । वि॒द्वान् । यज॑ते । अन्विति॑ । पव॑मानान् । एति॑ । रो॒ह॒ति॒ । न । पव॑मानेभ्यः । अवेति॑ । छि॒द्य॒ते॒ । यः । वै । पव॑मानस्य । संत॑ति॒मिति॒ सं - त॒ति॒म् । वेद॑ । सर्व᳚म् । आयुः॑ । ए॒ति॒ । न । पु॒रा । आयु॑षः । प्रेति॑ । मी॒य॒ते॒ । प॒शु॒मानिति॑ पशु-मान् । भ॒व॒ति॒ । वि॒न्दते᳚ । प्र॒जामिति॑ प्र - जाम् । पव॑मानस्य । ग्रहाः᳚ । गृ॒ह्य॒न्ते॒ । अथ॑ । वै । अ॒स्य॒ । ए॒ते । अगृ॑हीताः । द्रो॒ण॒क॒ल॒श इति॑ द्रोण - क॒ल॒शः । आ॒ध॒व॒नीय॒ इत्या᳚ - ध॒व॒नीयः॑ । पू॒त॒भृदिति॑ पूत-भृत् । तान् । यत् । अगृ॑हीत्वा । उ॒पा॒कु॒र्यादित्यु॑प - आ॒कु॒र्यात् । पव॑मानम् । वीति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.2.1.3 TS 3.2.1.3
च्छि॑न्द्या॒त् तं ॅवि॒च्छिद्य॑मानमद्ध्व॒र्योः प्रा॒णोऽनु॒ विच्छि॑द्ये-तोपया॒मगृ॑हीतोऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि मृ॑शे॒दिन्द्रा॑य॒ त्वेत्या॑धव॒नीयं॒ ॅविश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इति॑ पूत॒भृतं॒ पव॑मानमे॒व तथ् सं त॑नोति॒ सर्व॒मायु॑रेति॒ न पु॒राऽऽयु॑षः॒ प्रमी॑यते पशु॒मान् भ॑वति वि॒न्दते᳚ प्र॒जां ॥
पदपाठः (Word-by-word)
छि॒न्द्या॒त् । तम् । वि॒च्छिद्य॑मान॒मिति॑ वि - छिद्य॑मानम् । अ॒द्ध्व॒र्योः । प्रा॒ण इति॑ प्र -अ॒नः । अनु॑ । वीति॑ । छि॒द्ये॒त॒ । उ॒प॒या॒मगृ॑हीत॒ इत्युप॑या॒म - गृ॒ही॒तः॒ । अ॒सि॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा-प॒त॒ये॒ । त्वा॒ । इति॑ । द्रो॒ण॒क॒ल॒शमिति॑ द्रोण - क॒ल॒शम् । अ॒भीति॑ । मृ॒शे॒त् । इन्द्रा॑य । त्वा॒ । इति॑ । आ॒ध॒व॒नीय॒मित्या᳚ - ध॒व॒नीय᳚म् । विश्वे᳚भ्यः । त्वा॒ । दे॒वेभ्यः॑ । इति॑ । पू॒त॒भृत॒मिति॑ पूत - भृत᳚म् । पव॑मानम् । ए॒व । तत् । समिति॑ । त॒नो॒ति॒ । सर्व᳚म् । आयुः॑ । ए॒ति॒ । न । पु॒रा । आयु॑षः । प्रेति॑ । मी॒य॒ते॒ । प॒शु॒मानिति॑ पशु - मान् । भ॒व॒ति॒ । वि॒न्दते᳚ । प्र॒जामिति॑ प्र - जाम् ॥
पदसंख्या: 42