अनुवाकः 4 TS 3.2.4

(A4)

(म॒खो - वा - अ॒न्तरि॑क्षात् - प्र॒सर्प॑न्तं॒ - त्रय॑स्त्रिꣳशच्च)

अनुवाकः 4 - Complete Audio

TS 3.2.4 - स्वरानुगामी

0:00 0:00
PS1.1 स्फ्यः स्व॒स्तिर्वि॑घ॒नः स्व॒स्तिः पर्.शु॒र्वेदिः॑
PS1.2 पर॒शुर्नः॑ स्व॒स्तिः
PS1.3 य॒ज्ञिया॑ यज्ञ्॒कृतः॑ स्थ॒ ते
PS1.4 मा॒स्मिन् य॒ज्ञ् उप॑ ह्वयद्ध्व॒मुप॑
PS1.5 मा॒ द्यावा॑पृथि॒वी ह्व॑येता॒मुपा᳚ऽऽ*स्ता॒वः क॒लशः॒
PS1.6 सोमो॑ अ॒ग्निरुप॑ दे॒वा उप॑
PS1.7 य॒ज्ञ् उप॑ मा॒ होत्रा॑
PS1.8 उपह॒वे ह्व॑यन्तां॒ नमो॒ऽग्नये॑ मख॒घ्नेम॒खस्य॑
PS1.9 मा॒ यशो᳚ऽर्या॒दित्या॑हव॒नीय॒मुप॑ तिष्ठते य॒ज्ञो
PS1.10 वै म॒खो - [
PS1.11 ]
PS2.1 य॒ज्ञ्ं ॅवाव स तद॑ह॒न्
PS2.2 तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒
PS2.3 प्रस॑र्पत्या॒त्मनोऽना᳚र्त्यै॒ नमो॑ रु॒द्राय॑ मख॒घ्ने
PS2.4 नम॑स्कृत्या मा पा॒हीत्याग्नी᳚द्ध्रं॒ तस्मा॑
PS2.5 ए॒व न॑म॒स्कृत्य॒ सदः॒ प्रस॑र्पत्या॒त्मनोऽना᳚र्त्यै॒
PS2.6 नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒यं
PS2.7 मे॑ वी॒र्यं॑ मा निर्व॑धी॒रिति॑
PS2.8 हो॒त्रीय॑मा॒शिष॑मे॒वैतामा शा᳚स्तैन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय॒ या
PS2.9 वै - [ ]
PS3.1 दे॒वताः॒ सद॒स्यार्ति॑मा॒र्पय॑न्ति॒ यस्ता वि॒द्वान्
PS3.2 प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति॒ नमो॒ऽग्नये॑
PS3.3 मख॒घ्न इत्या॑है॒ता वै दे॒वताः॒
PS3.4 सद॒स्यार्ति॒माऽर्प॑यन्ति॒ ता य ए॒वं
PS3.5 ॅवि॒द्वान् प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति
PS3.6 द्दृ॒ढे स्थः॑ शिथि॒रे स॒मीची॒
PS3.7 माऽꣳह॑सस्पातꣳ॒॒ सूर्यो॑ मा दे॒वो
PS3.8 दि॒व्यादꣳह॑सस्पातु वा॒युर॒न्तरि॑क्षा - [
PS3.9 ]
PS4.1 द॒ग्निः पृ॑थि॒व्या य॒मः पि॒तृभ्यः॒
PS4.2 सर॑स्वती मनु॒ष्ये᳚भ्यो॒ देवी᳚ द्वारौ॒
PS4.3 मा मा॒ सं ता᳚प्तं॒
PS4.4 नमः॒ सद॑से॒ नमः॒ सद॑स॒स्पत॑ये॒
PS4.5 नमः॒ सखी॑नां पुरो॒गाणां॒ चक्षु॑षे॒
PS4.6 नमो॑ दि॒वे नमः॑ पृथि॒व्या
PS4.7 अहे॑ दैधिष॒व्योदत॑स्तिष्ठा॒ऽन्यस्य॒ सद॑ने सीद॒
PS4.8 यो᳚ऽस्मत् पाक॑तर॒ उन्नि॒वत॒ उदु॒द्वत॑श्च
PS4.9 गेषं पा॒तं मा᳚ द्यावापृथिवी
PS4.10 अ॒द्याह्नः॒ सदो॒ वै प्र॒सर्प॑न्तं
PS4.11 - [ ]
PS5.1 पि॒तरोऽनु॒ प्रस॑र्पन्ति॒ त ए॑नमीश्व॒रा
PS5.2 हिꣳसि॑तोः॒ सदः॑ प्र॒सृप्य॑ दक्षिणा॒र्द्धं
PS5.3 परे᳚क्षे॒ताऽग॑न्त पितरः पितृ॒मान॒हं ॅयु॒ष्माभि॑र्भूयासꣳ
PS5.4 सुप्र॒जसो॒ मया॑ यू॒यं भू॑या॒स्तेति॒
PS5.5 तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सदः॒
PS5.6 प्रस॑र्पत्या॒त्मनोऽना᳚र्त्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.2.4.1 TS 3.2.4.1
स्फ्यः स्व॒स्तिर्वि॑घ॒नः स्व॒स्तिः पर्.शु॒र्वेदिः॑ पर॒शुर्नः॑ स्व॒स्तिः । य॒ज्ञिया॑ यज्ञ्॒कृतः॑ स्थ॒ ते मा॒स्मिन् य॒ज्ञ् उप॑ ह्वयद्ध्व॒मुप॑ मा॒ द्यावा॑पृथि॒वी ह्व॑येता॒मुपा᳚ऽऽ*स्ता॒वः क॒लशः॒ सोमो॑ अ॒ग्निरुप॑ दे॒वा उप॑ य॒ज्ञ् उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्तां॒ नमो॒ऽग्नये॑ मख॒घ्नेम॒खस्य॑ मा॒ यशो᳚ऽर्या॒दित्या॑हव॒नीय॒मुप॑ तिष्ठते य॒ज्ञो वै म॒खो - [ ]
पदपाठः (Word-by-word)
स्फ्यः । स्व॒स्तिः । वि॒घ॒न इति॑ वि - घ॒नः । स्व॒स्तिः । पर्.शुः॑ । वेदिः॑ । प॒र॒शुः । नः॒ । स्व॒स्तिः ॥ य॒ज्ञियाः᳚ । य॒ज्ञ्॒कृत॒ इति॑ यज्ञ्-कृतः॑ । स्थ॒ । ते । मा॒ । अ॒स्मिन्न् । य॒ज्ञे । उपेति॑ । ह्व॒य॒द्ध्व॒म् । उपेति॑ । मा॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚-पृ॒थि॒वी । ह्व॒ये॒ता॒म् । उपेति॑ । आ॒स्ता॒व इत्या᳚ - स्ता॒वः । क॒लशः॑ । सोमः॑ । अ॒ग्निः । उपेति॑ । दे॒वाः । उपेति॑ । य॒ज्ञ्ः । उपेति॑ । मा॒ । होत्राः᳚ । उ॒प॒ह॒व इत्यु॑प-ह॒वे । ह्व॒य॒न्ता॒म् । नमः॑ । अ॒ग्नये᳚ । म॒ख॒घ्न इति॑ मख-घ्ने । म॒खस्य॑ । मा॒ । यशः॑ । अ॒र्या॒त् । इति॑ । आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । उपेति॑ । ति॒ष्ठ॒ते॒ । य॒ज्ञ्ः । वै । म॒खः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)
अथ तृतीयाष्टके तृतीयप्रपाठके चतुर्थोऽनुवाकः ।

कल्पः “स्फ्यः स्वस्तिरित्यत्करे वेदिकरणानि परास्योपतिष्ठते” इति ।

पाठस्तु —

स्फ्यः स्वस्तिरिति । स्फ्यः खननहेतुः । विघनो भूमिघट्ट्नहेतुः । पशुं स्तृणादिच्छेदनहेतुः । परशुर्वृक्षादिच्छेदनहेतुः । तत्रायं स्फ्यः स्वस्तिरविनाशहेतुरस्तु । एवमितरेष्वपि योज्यम् । एतैः स्फ्यादिभिर्निष्पन्ना वेदिरपि नोऽस्माकं स्वस्तिरस्तु । हे स्फ्यादयो यूयं यज्ञिया यज्ञार्हा अतोऽत्र यज्ञकृतः स्थ यज्ञसंपादका भवतु । ते यूयं मामस्मिन्यज्ञ उपह्रयध्वमनुजानीत ।

कल्पः- “उप मा द्यावापृथिवी इति द्यावपृथिवी उपाऽऽस्ताव इति बहिष्पवमानास्तावं कलश इति कलशंसोम इति सोममग्निरित्यग्रिमुप देवा इति देवानुप यज्ञ इति यज्ञमुप मा होत्रा इति होत्रकान्ह्वयतां ह्वयन्तां ह्वयतामिति यथालिङ्गं सर्वत्रानुषजति” इति । एतेषां पाठस्तु —

उप मेति । इमे द्यावापृथिव्या मामपह्वयेतां मामनुजानीताम् ।अयमास्तावो बहिष्पवमानदेशः । अत्र यथायोगमनुषङ्गद्योतनाययोपशब्दः प्रयुक्ता । एवं द्रोणकलशादिषु । योज्यम् तत्र तत्रोशब्दश्चानुषङ्गद्योतनाय प्रयुक्तः । उपषह्वयतेऽस्मिन्नित्युपहवो यज्ञस्तस्मिन्यज्ञे प्रशास्तृब्राह्मणाच्छंस्यादयो होत्रका मामुषह्वयन्ताम् । एतैर्मन्त्रैर्यथावद्यज्ञाङ्गत्मुपश्तातव्यम् ।

आहवनीयस्योपस्थानं विधत्ते —

नमोऽग्नय इति । नमस्कराभावे मखं यज्ञं हन्तीति मखहा तस्मै मखघ्नेऽग्नये नमोऽस्तु । तस्य प्रसादान्मखस्य यशो यज्ञानुष्ठानकीर्तिर्मामर्यात्प्राप्नोतु । अस्मिन्मन्त्रे मखशब्देन यज्ञ उच्यते । यज्ञमेव सोऽग्निस्तदा हन्ति यदा नमस्कारो न क्रियते । अतस्तस्मा एव नमस्कृत्य सदःप्राप्तौ सत्यां यजमानशरीरस्याऽऽर्तिर्न भवति ।

यदुक्तं सूत्रकारेण — “नमोऽग्नये मखघ्न इत्याहवनीयं नमो रुद्राय मखघ्न इत्याग्नीघ्नं नम इन्द्राय मखघ्न इति होत्रीयम्’ इति ।उपतिष्ठत इत्यनुवर्तते ।

तत्राऽऽहवनीयोपत्थानं विधायाऽऽग्नीघ्रस्योपस्थानं विधत्ते —

नमो रुद्रायेति । आग्नीघ्रीये धिष्णियेऽवस्थितोऽग्निर्मखहा रुद्रस्तस्मै रुद्राय नमोऽस्तु । अनया नमस्कृत्या हे रुद्र मां पाहीत्यनेन मन्त्रेणाऽऽग्नीध्रम ग्निमुपतिष्ठेत । तस्मा इत्यादि पूर्ववत् । अथ होत्रीयस्य धिष्णियस्योपस्थानं विधत्ते —

नम इन्द्रायेति । परमेश्वर्ययोगाद्धोत्रीयो धिष्णियोऽग्निरिन्द्रो यज्ञघातो तस्मै नमोऽस्तु हे इन्द्र मदीयमिन्द्रियं वीर्यं च मा विनाशय । अनेन मन्त्रेण होत्रीस्योदस्थाने सत्याशिषमेव प्रार्थितवान्भवति । सा चाऽऽशीरिन्द्रियस्य वीर्यस्याविनाशाय संपद्यते । उक्तमन्त्रत्रयोपस्थानं प्रशंसति —

या वै देवता इति । अग्निरुद्रेन्द्ररूपा या देवताः सदस्यवस्थितयजमात्रादीनार्तिं प्रापयन्ति यो यजमानस्तत्कृतं विद्वांस्ता देवताः प्रसर्पति नमस्कारेण भजतेऽसौ सदसि प्रविष्टोऽ प्याति न प्राप्नोति । तस्मान्नमोऽग्नय इत्यादीन्पूर्वोक्तान्मन्त्रान्पठेत् ।

कल्पः – ‘दृढे स्थः शिथिरे समाचा इति द्यावापृथिवी उपतिष्ठते सूर्यं वायुमग्निं यप्रं सरस्वतीं सदसो द्वारापिति पातं पात्विति यथालिङ्गं सर्वत्रानुषजति’ इति । ततः (त्र) प्रथममन्त्र पाठस्तु —

दृढे स्थ इति । हे द्यावापृथिवी उपस्थानरहितं प्रति शिथिले अपि युवामुपस्थतारं प्रति समीची अनुकूले सत्यौ दृढे स्थः । अत उपस्थातारं मां प्रतिबन्धकादंहसः पातम् । द्वितीयमन्त्रपाठस्तु---

सूर्यो मेति । द्युलोकविपयान्मया कृतादंहसो मां सूर्यो देवः पातु ।

उत्तरमन्त्रपाठस्तु---

वायुरिति । वाय्वग्नियमसरस्वतीमन्त्रेषु पात्वित्त्वनुषञ्जनीयम् । हे द्वाररूपे देव्यावु स्थातारं मां युवां मा संताप्तामिति संतापयुक्तं मा कुरुतम् ।

नमः सदस इति । कल्पः — “नमः सदस इति सदो नमः सदसस्पतय इति ब्रह्माणं नमः सखीनां पुरोगाणामित्यृत्विजो नमो दिवे नमः पृथिव्या इति द्यावापृथिवी उपस्थाय” इति ।

तृतीयमन्त्रान्ते चक्षुष इतीदमान्नातम् । ऋत्विजो यजमानस्य सखायस्तीयकार्यनिष्पादकत्वात् । ते च स्वस्वऽयापारे पुरतो गच्छन्तीति पुरोगास्तेषां चक्षुषे चक्षुःस्थानीयाय स्वस्वप्रयोगाभिज्ञाय नमः ।

कल्पः “अहे दैधिव्येत्यायतनात्तृणं निरस्य” इति ।

औदुम्बर्या दक्षिणभागो यजमानस्याऽऽयतनम् । अत एव सूत्रकार आह — “अपरेण ब्रह्मसदनं यजमानायतनम्” इति । पाठस्तु —

अहे दैधिपव्येति । धारणसमर्थं स्थानं इदिधिषुस्तत्रोत्पन्नत्वाद्दैधिषव्यत्वम् । अहिशब्दस्तृणलक्षकः । सर्पवदुपद्रवकारित्वात् । यजमानायतने सदुत्पन्न हे तृण त्वमतोऽस्यात्स्मानादुत्तिष्ठ । योऽन्यः पुरुषोऽस्मत्पाकतरो बालतरोऽप्रबुद्धस्तस्यान्यस्य सदने स्थाने तिष्ठ ।

उन्निवत इति । कल्पः- “उन्निवत उदुद्वतश्च गेषमित्युपविशति” इति । ये पुरुषा मत्तो न्यग्भूतास्त निवन्तो न्यग्मूतेषु निशब्दस्य विद्यमानत्वात् । तान्पुरषानहमुद्रेषमुद्वतोऽस्मि । येऽपि मत्त उद्गतास्ते पुरुषा उद्वन्त उच्छ्रितेषूच्छब्दस्य विद्यमानत्वात् । तानप्यहमुद्गेषल्लङ्व्योपरि गम्यासम् ।

पातं मेति । कल्पः — “पातं मा द्यावापृथिवी अद्याह्न इत्युपविश्य जपति” इति । अद्यास्मिन्दिवसे यदिदमहःशब्दावाच्यमग्निष्टोमानुष्ठानं तस्मान्मां हे द्यावापृथिव्यौ पातं तस्मिन्नहनि वैकल्पं यथा न भवति तथा रक्षतमित्यर्थः ।

यदुक्तं सूत्रकारेण — “आगन्त पितरः पितृमानिति दक्षिणार्धं परेक्षते” इति । तदेतद्विधत्ते —

सदो वा इति । सदः प्रसर्पन्तं यजमानमनु पितरः प्रसर्पन्ति तं यजमानमनमस्कृताः पितरो हिंसितुं प्रभवन्ति । अतः सदसो दक्षिणभागमवेक्षमाण आयन्तेत्यामिमन्वं पठेत् । हे पितर आगन्त नः सदसः स्थानमागच्छत । आगतर्युष्माभिरहं पितृमान्भूयासं यूयं च मया सुप्रजसः शोभनापत्ययुक्ता भूयास्त । अनेन मन्त्रेण पितृणां नमस्कृतत्वाद्यजमानस्याऽऽ र्तिर्न भवति ।

अत्र विनियोगसंग्रह —

स्फ्य उत्करे परिक्षिप्तं स्फ्यं तत्रेवोपतिष्ठते ।

उप द्युभूमी अन्येषूप मा इत्यनुषज्यते ॥

आस्ता चेति स्तोत्रदेशं कलेति द्रोणकुम्भकम् ।

सोमः सोमं चाग्निरग्निमुप देवेति देवताः ॥

उप यज्ञेति यज्ञं तमुप मेति तु होत्रकान् ।

नमस्त्रयविधिः स्पष्टो दृढे स्थो द्युभुवौ भजेत् ॥

सूर्यः सूर्यं वायुर्वायुं पात्वित्येषोऽनुषज्यते ।

अग्निर्यमः सेरत्येतान्दे द्वारौ सदसो भजेत् ॥

सदो ब्रह्मा चर्त्विजो द्यौर्भूर्नमःपञ्चभिः क्रमात् ।

अहे तृणं निरस्योन्नीत्युपविश्यात्र पा जपेत् ॥

आगन्त दक्षिणं पश्येन्मन्त्रा विंशतिरीरिताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

द्वितीयप्रपाठके चतुर्थोऽनुवाकः ॥४ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 स्फ्यविघनादि यजमानमुपस्थापयति - स्फ्यस्स्वस्तिरिति ॥ बृहतीविशेषोयम् 'बृहती द्वादशाक्षरा त्रयश्चाष्टाक्षरा' इति ॥ स्फ्यः स्वस्तिः अविनाशहेतुरस्माकमयम् । अयं स्वस्तिशब्दो निपातो गुणमात्रे अविनाशे वर्तते । सोयमिदानीं मतुब्लोपादभेदोपचाराद्वा शुक्लादिवद्गुणिन्यपि अविनाशहेतौ वर्त ते । विघनश्चास्माकं स्वस्तिः अविनाशहेतुः । विहन्यते भूमिरनेनेति विघनः । व्यत्ययेन अपि घत्वं च, थाथादिनोत्तरपदान्तोदात्तत्वम् । एवं पर्श्वादयः अविनाशहेतवः । पर्‌शुः पार्श्ववक्रः तृणादिच्छेदनः । परशुः वृक्षवृश्चनः । ते यूयं यज्ञिया यज्ञसंपादनार्हाः यज्ञकृतश्च स्थ यूयमेव यज्ञं संपादितवन्तस्स्थ । ते यूयं मां विशेषकरणार्थं अस्मिन् यज्ञे उपह्वयध्वं अनुजानीत यन्मया कर्तव्यं तदहमेव करोमि तदनुज्ञातुमर्हथेति । 'निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् ॥
2 द्यावापृथिवी उपतिष्ठते - उप मेति ॥ द्यावापृथिवी उप मा ह्वयेताम् । 'द्यावापृथिव्योर्हि यज्ञः' इति तदनुज्ञानं प्रार्थयते । द्यावापृथिव्योः स्वर उक्तः ॥
3 बहिष्पवमानास्तावमुपतिष्ठते - उपास्ताव इति ॥ ह्वयतामित्यनुषज्यते । उपास्तावो ह्वयतामिति । यत्र वचनभेदस्तत्रोपसर्गावृत्तिः ॥
4 द्रोणकलशमुपतिष्ठते - कलश इति ॥ शिष्टमनुषज्यते - उप मा कलशो ह्वयतामिति ॥
5 सर्वं सोममुपतिष्ठते - उप मा सोमो ह्वयतामिति ॥
6 अग्निमुपतिष्ठते - अग्निरिति ॥ उप माऽग्निर्ह्वयतामिति ॥
7 देवानुपतिष्ठते - उप देवा इति ॥ उप मा देवा ह्वयन्तामिति । पूर्ववद्वचनभेदादुपसर्गावृत्तिः ॥
8 यज्ञमुपातिष्ठते - उप यज्ञ इति ॥ उप मा यज्ञो ह्वयता-

मिति । पूर्ववदुपसर्गावृत्तिः ॥

9 होत्रकानुपतिष्ठते - उप मा होत्रा इति ॥ होत्रा धिष्ण्यवन्तः । 'सप्त होत्राः प्राचीर्वषट्कुर्वन्ति' इति । तेषामुपहवे ह्वयन्तामिति । उपहूयन्ते अस्मिन्नित्युपहवो यज्ञः । यद्वा - उपहवेऽनुज्ञाने कर्तव्ये यत्रयत्र उपहवमिच्छामि, तत्रतत्र मामुपह्वयन्तामिति ॥
10 अथाहवनीयस्य समन्त्रमुपस्थानं ब्राह्मणमेव विदधाति - नम इति ॥ अनया द्विपदया गायत्र्या आहवनीयमुपतिष्ठते । अथोपस्थाने कारणमाह - यज्ञो वा इत्यादि । सोग्निः तत् तदानीं सदःप्रसर्पणकाले अहन् आर्तिमार्पयति अनमस्कृतः । तस्मात् तस्मै नमस्कृत्य सदः प्रसर्पत्यात्मनोनार्त्यै यज्ञविनाशेन आत्मन आर्तिर्मा भूदिति । मन्त्रार्थस्तु - अग्नये मखघ्ने मखस्य यज्ञस्य अनमस्कारकारिणो नाशयित्रे तुभ्यं नमः । उदात्तनिवृत्तिस्त्वरेण चतुर्थ्या उदात्तत्वम् । मखस्य यशः फलं मा अर्यात्प्राप्नोतु तद्विघातश्च त्वया न कर्तव्य इति ॥
11 अथाग्नीध्रस्योपस्थानं विदधाति - नमो रुद्रायेति ॥ आग्नीध्रमुपतिष्ठते इत्येव । तस्मा इत्यादि । गतम् । मन्त्रार्थोपि गतः । नमस्कृत्या प्रणिपातेनानेन मां पाहि । ऊर्यादित्वेन नमसो गतित्वात् 'तादौ च निति' इति प्रकृतिस्वरत्वम् । अग्नीधश्शरणमाग्नीध्रम्, 'अग्नीधश्शरणे रण् भं च' ॥
12 अथ होत्रीयस्योपस्थानं विदधाति - नम इन्द्रायेति ॥ होत्रियमुपतिष्ठते इत्येव । होतुर्धिष्णियं होत्रीयम्, गहादित्वाच्छः । इन्द्रियं चक्षुरादिकं वीर्यं बलं मा निर्वधीः निष्कृष्य मा वधीः । एतामाशिषं मा निर्वर्धीः इत्याशास्ते इन्द्रियस्य वीर्यस्य चानिर्घाताय भवति । या वै देवता इत्यादि । आङ्पूर्वोयमृच्छतिर्विनाशे वर्तते । तत्र 'गोपोषं पुष्णाति' इतिवत् धात्वर्थसामान्यवचनो द्वितीय ऋच्छतिर्वेदितव्यः । आङ्पूर्वात् क्तिनः 'उपसगार्दृति धातौ इति वृद्धिः, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । एता 'देवता इत्यादि । एतन्मन्त्रनिर्दिष्टा अग्निरुद्रेन्द्रा इत्यर्थः । एता देवता विदित्वा यस्सदः प्रसर्पति स विद्वानार्तिं न प्राप्नोति, अविद्वांसं आर्तिं प्रार्पयन्तीति ॥
13 द्यावापृथिवी उपतिष्ठते - दृढे स्थ इति ॥ दृढे स्थिरे युवां स्थः भवतं शिथिरे मे सर्पणेन शिथिलिते अपि दृढे भवतम् । यद्वा - ममांहसः शिथिलयित्र्यौ । कपिलकादिः । समीची सम्यगञ्चनहेतू । 'चौ' इति पूर्वपदस्य दीर्घत्वं अन्तोदात्तत्वं च । तादृश्यौ युवामागच्छतम् । अंहसः पापात्पातं रक्षतम् ॥
14 सूर्यमुपीतष्ठते - सूर्य इति ॥ दिव्यात् दिवि भवात् प्रमादकृतात्पापात् सूर्यो देवो मां पातु ॥
15 वायुमुपतिष्ठते - वायुरिति ॥ पात्वित्यनुषज्यते । अन्तरिक्षात् अन्तरिक्षनिमित्तात् पापात् पातु ॥
16 अग्निमुपतिष्ठते - अग्निरिति ॥
17 यममुपतिष्ठते - यम इति ॥ पितृभ्यः पित्रपचारनिमित्तात्पापात्पातु ॥
18 सरस्वतीमुपतिष्ठते - सरस्वतीति ॥ मनुष्यद्रोहनिमित्तात्पापात्पातु ॥
19 पूर्वे द्वारौ सदसस्संमृशति - देवी इति ॥ हे देव्यौ द्वारौ मा मा सन्ताप्तं मा कार्ष्टम् ॥
20 सदः प्रपद्यते - नम इति ॥ 'ऐन्द्रं हि देवतया सदः' इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । 'षष्ठयाः पतिपुत्र' इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥
21 आसनाद्बहिस्सदसस्तृणं निरस्यति - अहे इति ॥ आगत्य हन्तीत्यहिः, अनिष्टकृत् । हे अहे तृण दैधिषव्य दिधिषु आसनधारणसमर्थम् । दधातेः कुप्रत्यये द्विर्वचनं, इषुगागमश्च निपात्यते, तस्यापत्यं दैधिषव्यम्; तत्प्रभवत्वात् । 'द्युप्रागवाक्' इति यत्प्रत्ययः । तादृशस्त्वं अतोस्मादासनादुत्तिष्ठ अन्यस्य सदने सीद मा अत्र स्थाः । कस्यान्यस्य? योस्मत् अस्मत्तः पाकतरः बालतरः अज्ञः तस्य सदने सीद माऽत्र सीद ॥
22 उपविशति - उदिति ॥ निवतः न्यग्गतान् येऽस्मत्तो न्यग्भूताः तानुद्गेषम् । किंच - उद्वतश्च येऽस्मत्तः उद्गता उद्भूताः, तानपि उद्गेषं उत्क्रम्योल्लङ्घ्य उपरि गम्यासम् । 'उपसर्गाच्छन्दसि धात्वर्थे' इति वतिः । इणः आशिषि लिङ्, आदेशश्छान्दसः, लिङ्याशिष्यङ्, अतो येयः, आर्धधातुकत्वात्सलोपाभावः ॥
23 द्यावापृथिव्यौ समीक्षते - पातमिति ॥ हे द्यावापृथिव्यौ मां पातं रक्षतं अद्याह्नः अस्मादह्नः । यद्वा - अस्मिन् कर्मणि अह्नः अहर्निमित्तात्पापात्पातं रक्षतम् । 'सद्यःपरुत्' इत्यादिना इदमोद्येति निपात्यते ॥
24 सद इत्यादि ॥ एनं हिंसितोः हिंसितुं पितरः ईश्वराः अनमस्कृताः । तस्मात्सदः प्रसृप्य दक्षिणार्धं परेक्षेत 'आगन्त' इत्यादिना यजुषा । ततस्तेभ्यो नमस्कृत्य प्रसर्पणं कृतं भवति आत्मन आर्त्यभावाय । मन्त्रार्थस्तु - हे पितरः आगन्त आगच्छत । शपो लुक्, 'तप्तनप्तनधनाश्च' इति तादेशः । युष्माभिरागतैः पितृमानहं भूयासं, यूयमपि मया युष्मदागमनोपलब्धसाधुत्वेन सुप्रजसो भूयास्तेति । 'नित्यमसिच्प्रजामेधयोः' इति समासान्तोसिच् ॥
इति तृतीये द्वितीये चतुर्थोनुवाकः ॥
पञ्चशत् 2 #
TS 3.2.4.2 TS 3.2.4.2
य॒ज्ञ्ं ॅवाव स तद॑ह॒न् तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्रस॑र्पत्या॒त्मनोऽना᳚र्त्यै॒ नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा पा॒हीत्याग्नी᳚द्ध्रं॒ तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्रस॑र्पत्या॒त्मनोऽना᳚र्त्यै॒ नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒यं मे॑ वी॒र्यं॑ मा निर्व॑धी॒रिति॑ हो॒त्रीय॑मा॒शिष॑मे॒वैतामा शा᳚स्तैन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय॒ या वै - [ ]
पदपाठः (Word-by-word)
य॒ज्ञ्म् । वाव । सः । तत् । अ॒ह॒न्न् । तस्मै᳚ । ए॒व । न॒म॒स्कृत्येति॑ नमः - कृत्य॑ । सदः॑ । प्रेति॑ । स॒र्प॒ति॒ । आ॒त्मनः॑ । अना᳚र्त्यै । नमः॑ । रु॒द्राय॑ । म॒ख॒घ्न इति॑ मख - घ्ने । नम॑स्कृ॒त्येति॒ नमः॑-कृ॒त्या॒ । मा॒ । पा॒हि॒ । इति॑ । आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् । तस्मै᳚ । ए॒व । न॒म॒स्कृत्येति॑ नमः - कृत्य॑ । सदः॑ । प्रेति॑ । स॒र्प॒ति॒ । आ॒त्मनः॑ । अना᳚र्त्यै । नमः॑ । इन्द्रा॑य । म॒ख॒घ्न इति॑ मख - घ्ने । इ॒न्द्रि॒यम् । मे॒ । वी॒र्य᳚म् । मा । निरिति॑ । व॒धीः॒ । इति॑ । हो॒त्रीय᳚म् । आ॒शिष॒मित्या᳚ - शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । इ॒न्द्रि॒यस्य॑ । वी॒र्य॑स्य । अनि॑र्घाता॒येत्यनिः॑ - घा॒ता॒य॒ । याः । वै ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.2.4.3 TS 3.2.4.3
दे॒वताः॒ सद॒स्यार्ति॑मा॒र्पय॑न्ति॒ यस्ता वि॒द्वान् प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति॒ नमो॒ऽग्नये॑ मख॒घ्न इत्या॑है॒ता वै दे॒वताः॒ सद॒स्यार्ति॒माऽर्प॑यन्ति॒ ता य ए॒वं ॅवि॒द्वान् प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति द्दृ॒ढे स्थः॑ शिथि॒रे स॒मीची॒ माऽꣳह॑सस्पातꣳ॒॒ सूर्यो॑ मा दे॒वो दि॒व्यादꣳह॑सस्पातु वा॒युर॒न्तरि॑क्षा - [ ]
पदपाठः (Word-by-word)
दे॒वताः᳚ । सद॑सि । आर्ति᳚म् । आ॒र्पय॒न्तीत्या᳚ - अ॒र्पय॑न्ति । यः । ताः । वि॒द्वान् । प्र॒सर्प॒तीति॑ प्र - सर्प॑ति । न । सद॑सि । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । नमः॑ । अ॒ग्नये᳚ । म॒ख॒घ्न इति॑ मख - घ्ने । इति॑ । आ॒ह॒ । ए॒ताः । वै । दे॒वताः᳚ । सद॑सि । आर्ति᳚म् । एति॑ । अ॒र्प॒य॒न्ति॒ । ताः । यः । ए॒वम् । वि॒द्वान् । प्र॒सर्प॒तीति॑ प्र - सर्प॑ति । न । सद॑सि । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । दृ॒ढे इति॑ । स्थः॒ । शि॒थि॒रे इति॑ । स॒मीची॒ इति॑ । मा॒ । अꣳह॑सः । पा॒त॒म् । सूर्यः॑ । मा॒ । दे॒वः । दि॒व्यात् । अꣳह॑सः । पा॒तु॒ । वा॒युः । अ॒न्तरि॑क्षात् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.2.4.4 TS 3.2.4.4
द॒ग्निः पृ॑थि॒व्या य॒मः पि॒तृभ्यः॒ सर॑स्वती मनु॒ष्ये᳚भ्यो॒ देवी᳚ द्वारौ॒ मा मा॒ सं ता᳚प्तं॒ नमः॒ सद॑से॒ नमः॒ सद॑स॒स्पत॑ये॒ नमः॒ सखी॑नां पुरो॒गाणां॒ चक्षु॑षे॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अहे॑ दैधिष॒व्योदत॑स्तिष्ठा॒ऽन्यस्य॒ सद॑ने सीद॒ यो᳚ऽस्मत् पाक॑तर॒ उन्नि॒वत॒ उदु॒द्वत॑श्च गेषं पा॒तं मा᳚ द्यावापृथिवी अ॒द्याह्नः॒ सदो॒ वै प्र॒सर्प॑न्तं - [ ]
पदपाठः (Word-by-word)
अ॒ग्निः । पृ॒थि॒व्याः । य॒मः । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । सर॑स्वती । म॒नु॒ष्ये᳚भ्यः । देवी॒ इति॑ । द्वा॒रौ॒ । मा । मा॒ । समिति॑ । ता॒प्त॒म् । नमः॑ । सद॑से । नमः॑ । सद॑सः । पत॑ये । नमः॑ । सखी॑नाम् । पु॒रो॒गाणा॒मिति॑ पुरः - गाना᳚म् । चक्षु॑षे । नमः॑ । दि॒वे । नमः॑ । पृ॒थि॒व्यै । अहे᳚ । दै॒धि॒ष॒व्य॒ । उदिति॑ । अतः॑ । ति॒ष्ठ॒ । अ॒न्यस्य॑ । सद॑ने । सी॒द॒ । यः । अ॒स्मत् । पाक॑तर॒ इति॒ पाक॑ - त॒रः॒ । उदिति॑ । नि॒वत॒ इति॑ नि-वतः॑ । उदिति॑ । उ॒द्वत॒ इत्यु॑त् - वतः॑ । च॒ । गे॒ष॒म् । पा॒तम् । मा॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ । अ॒द्य । अह्नः॑ । सदः॑ । वै । प्र॒सर्प॑न्त॒मिति॑ प्र - सर्प॑न्तम् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 3.2.4.5 TS 3.2.4.5
पि॒तरोऽनु॒ प्रस॑र्पन्ति॒ त ए॑नमीश्व॒रा हिꣳसि॑तोः॒ सदः॑ प्र॒सृप्य॑ दक्षिणा॒र्द्धं परे᳚क्षे॒ताऽग॑न्त पितरः पितृ॒मान॒हं ॅयु॒ष्माभि॑र्भूयासꣳ सुप्र॒जसो॒ मया॑ यू॒यं भू॑या॒स्तेति॒ तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्रस॑र्पत्या॒त्मनोऽना᳚र्त्यै ॥
पदपाठः (Word-by-word)
पि॒तरः॑ । अनु॑ । प्रेति॑ । स॒र्प॒न्ति॒ । ते । ए॒न॒म् । ई॒श्व॒राः । हिꣳसि॑तोः । सदः॑ । प्र॒सृप्येति॑ प्र - सृप्य॑ । द॒क्षि॒णा॒र्द्धमिति॑ दक्षिण - अ॒र्द्धम् । परेति॑ । ई॒क्षे॒त॒ । एति॑ । अ॒ग॒न्त॒ । पि॒त॒रः॒ । पि॒तृ॒मानिति॑ पितृ - मान् । अ॒हम् । यु॒ष्माभिः॑ । भू॒या॒स॒म् । सु॒प्र॒जस॒ इति॑ सु-प्र॒जसः॑ । मया᳚ । यू॒यम् । भू॒या॒स्त॒ । इति॑ । तेभ्यः॑ । ए॒व । न॒म॒स्कृत्येति॑ नमः-कृत्य॑ । सदः॑ । प्रेति॑ । स॒र्प॒ति॒ । आ॒त्मनः॑ । अना᳚र्त्यै ॥
पदसंख्या: 33