पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयाष्टके द्वितीयप्रपाठके षष्ठोऽनुवाकः) ।
अनुवाके पञ्चमे तु भक्षमन्त्रा उदीरिताः ।
कल्पः — “आज्याग्रहणकाले चतुर्जुह्वां गृह्णाति चतुरुपभृति दधन्याज्यमानीय महीनां पयोऽसीति पृषदाज्यधान्यां पञ्चगृहीतं पृषदाज्यम्” इति । पाठस्तु---
महीनामिति । हे पृषदाज्य त्वं महीनां गवां पयोऽसि । विश्वेषां सर्वेषां देवानां तनूरसी । शरीरस्थितिहेतुत्वात् । पृषत्यो मरुतामश्वाः । अद्यास्मिन्दिने पृषतीनां ग्रहस्थानीयं त्वामृध्यासं वर्धयामि । त्वं पृषतीनां ग्रहेऽसि ग्रहस्थानीयमसि । विप्णोर्यज्ञस्य हृदयं प्रियमसि । हे इष सर्वैर्दवैरिष्यमाण विष्णुर्वज्ञस्त्वामेकं मुख्यं विचक्रमे विशेषेण स्वीकृतवान् । अत्रत्येन घृतेन दध्ना च तव भूतिर्माहात्म्यं वर्धताम् । तस्य तादृशस्येष्टस्य देवेभ्यो हुतस्य वीतस्य वेवैर्भक्षितस्य च् यद्द्रविणं फलमस्ति तन्मां प्रत्यागम्यादागच्छतु । त्वं वैश्वानरं ज्योतिरति विश्वेषा नराणां हितस्य भासकमसि पृश्नियै दुग्धमसि श्वेतवर्णाया गोःक्षीरमसि । अस्य च पृषदाज्यस्य पश्वनूयाजार्यत्वादग्नीषोमीयपशप्रपाठके पृथिव्यै त्वाऽन्तरिक्षाय त्वेत्येतस्मादनुवाकत्पूर्वमयं मन्त्रो द्रष्टव्यः ।
कल्पः — ‘आग्नीध्रे प्रतिप्रस्थाता दधिधर्मं गृह्णात्यौदुय्बर्या स्त्रुच्युपस्तीर्य यावती द्यावापृथिवी इति दधि गृहीत्वाऽभिघार्य’ इति । पाठस्तु-
यावतीति । सप्त सिन्धवः समुद्राः ते च भागवतस्य पञ्चमस्कन्धे स्मर्यन्ते क्षारोदेक्षुरसोदसुरोदघृतोददधिमण्डोदक्षीरोदशुद्धोदाः सप्त जलधयः । हे इन्द्र द्यावापृथिवी द्यावापृथिव्यौ महित्वा स्वकीयेन महिम्ना यावती यावत्यौ यत्परिमाणे वर्तेते । किंच सप्त सिन्धवो वा यावद्वितस्तुर्यावन्तं कालं स्थितास्तावन्तं ग्रहं गृह्णामि सर्वस्मिन्देशे सर्वस्मिन्काले त्वदीयं ग्रहमूर्जा सारेण सहास्तृतमविनाशितं यथा भवति तथा गृह्णामि । सोऽयं मन्त्रो ग्रहप्रपाठक इन्द्र मरुत्व इत्यस्मादनुवाकादूर्ध्वं द्रष्टव्यः ।
यदुक्तं सूत्रकारेण-पृषदाज्यं स्कन्नमभिमन्त्र्यापोऽभ्यवहृत्य निर्णिज्य स्रुच शतमानं हिरण्यं स्रुच्यवधायेदं विष्णुर्विचक्रम इत्यन्यत्पृषदाज्यं गृहीत्वाऽश्वेनावघ्राप्याऽऽयतने सदयेत्’ इति । तत पुनर्ग्रहणं विधत्ते —
यत्कृष्णशकुन इति । पृषद्भिर्दधिबिन्दुभिर्मिश्रमाज्यं पृषदाज्यम् । तस्य पक्षिस्पर्शे श्वस्पर्शे भूमिपतनेन विनाशे च पुनर्ग्रहणं प्रायश्चित्तं तेन पशुविनाशो न भवति ।
तदेतत्पुनर्ग्रहणं पशुविनाशदोषपरिहारेण प्रशस्य प्राणविनाशदोषपरिहारेणापि प्रसंसति —
प्राणो वा इति । ग्रहणपात्रे हिरण्यस्य प्रक्षेपं तत्परिमाणं च क्रमेण’ विधत्ते —
हिरण्यमवधायेति । गृहीतस्य पृषदाज्यस्याश्वमुखस्पर्शनं विधत्ते —
अश्वभवेति । अश्वस्य प्रजापत्यक्षिजन्यत्वात्प्राणस्य च स प्राणमसृजतेत्यादिश्रुतौ प्रजापतिसृष्टत्वाभिधानाच्च तयोरेककार्यत्वे सति प्राणस्य स्वकीययोनिरूपादश्वान्निर्माणं सिध्यति ।
पृषदाज्यस्य पुनर्ग्रहणे विष्णो त्वं नो अन्तम इति मन्त्रं विधत्ते —
वि वा इति । विष्णो त्वं न इति मन्त्रो जुष्टो वाच हत्यनुवाके व्याख्यातः । आपस्तम्बस्य मते त्विदं विष्णुरिति वैष्णवी । सा च युञ्जते मन इत्यत्र व्याख्याता ।
अत्र विनियोगसंग्रहः —
महीति पृषदाज्ये स्याद्यावतीति दघिग्रहे ।
इदं विष्णुर्वैष्णवी स्यादिह मन्त्रास्त्रयो मताः ॥
द्वितीयप्रपाठके षष्टोऽनुवाकः ॥६ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
प्रमाणशीलाः मरणशीलाः म्रियतेश्छान्दस उकञ् । पशवो वै पृषदाज्यमिति । तद्धेतुत्वात्ताच्छब्द्यम् । यथोक्तेन पुनर्ग्रहणेन स्कन्नस्योपलक्षणत्वात्सर्वामेध्यत्वान्निवृत्तिः। प्राणो वै पृषदाज्यमिति । पूर्ववत्ताच्छब्द्यम् ।