अनुवाकः 7 TS 3.2.7

(A7)

(श॒स्त्रं - ॅवै - श॒स्त्रन्दु॑हां॒ - द्वाविꣳ॑शतिश्च)

अनुवाकः 7 - Complete Audio

TS 3.2.7 - स्वरानुगामी

0:00 0:00
PS1.1 देव॑ सवितरे॒तत् ते॒ प्राऽऽ*ह॒
PS1.2 तत् प्र च॑ सु॒व
PS1.3 प्र च॑ यज॒ बृह॒स्पति॑र्ब्र॒ह्मा
PS1.4 ऽऽयु॑ष्मत्या ऋ॒चो मा गा॑त
PS1.5 तनू॒पाथ् साम्नः॑ स॒त्या व॑
PS1.6 आ॒शिषः॑ सन्तु स॒त्या आकू॑तय
PS1.7 ऋ॒तं च॑ स॒त्यं च॑
PS1.8 वदत स्तु॒त दे॒वस्य॑ सवि॒तुः
PS1.9 प्र॑स॒वे स्तु॒तस्य॑ स्तु॒तम॒स्यूर्जं॒ मह्यꣳ॑
PS1.10 स्तु॒तं दु॑हा॒मा मा᳚ स्तु॒तस्य॑
PS1.11 स्तु॒तं ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्र -
PS1.12 [ ]
PS2.1 म॒स्यूर्जं॒ मह्यꣳ॑ श॒स्त्रं दु॑हा॒मा
PS2.2 मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्या-दिन्द्रि॒याव॑न्तो
PS2.3 वनामहे धुक्षी॒महि॑ प्र॒जामिषं᳚
PS2.4 सा मे॑ स॒त्याऽऽशीर्दे॒वेषु॑ भूयाद्-ब्रह्मवर्च॒सं
PS2.5 माऽऽ ग॑म्यात्
PS2.6 य॒ज्ञो ब॑भूव॒ स आ
PS2.7 ब॑भूव॒ सप्रज॑ज्ञे॒ स वा॑वृधे
PS2.8 स दे॒वाना॒मधि॑-पतिर्बभूव॒ सो अ॒स्माꣳ
PS2.9 अधि॑पतीन् करोतु व॒यꣳ स्या॑म॒
PS2.10 पत॑यो रयी॒णां
PS2.11 य॒ज्ञो वा॒ वै -
PS2.12 [ ]
PS3.1 य॒ज्ञ्प॑तिं दु॒हे य॒ज्ञ्प॑तिर्वा य॒ज्ञ्ं
PS3.2 दु॑हे॒ स यः स्तु॑तश॒स्त्रयो॒र्दोह॒म
PS3.3 वि॑द्वा॒न॒. यज॑ते॒ तं ॅय॒ज्ञो
PS3.4 दु॑हे॒ स इ॒ष्ट्वा पापी॑यान्
PS3.5 भवति॒ य ए॑नयो॒र्दोहं॑ ॅवि॒द्वान्.
PS3.6 यज॑ते॒ स य॒ज्ञ्ं दु॑हे॒
PS3.7 स इ॒ष्ट्वा वसी॑यान् भवति
PS3.8 स्तु॒तस्य॑ स्तु॒तम॒स्यूर्जं॒ मह्यꣳ॑ स्तु॒तं
PS3.9 दु॑हा॒मा मा᳚ स्तु॒तस्य॑ स्तु॒तं
PS3.10 ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम॒स्यूर्जं॒ मह्यꣳ॑ श॒स्त्रं
PS3.11 दु॑हा॒ ( ) मा
PS3.12 मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्या॒दित्या॑है॒ष
PS3.13 वै स्तु॑तश॒स्त्रयो॒र्दोह॒स्तं ॅय ए॒वं
PS3.14 ॅवि॒द्वान्. यज॑ते दु॒ह ए॒व
PS3.15 य॒ज्ञ्मि॒ष्ट्वा वसी॑यान् भवति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.2.7.1 TS 3.2.7.1
देव॑ सवितरे॒तत् ते॒ प्राऽऽ*ह॒ तत् प्र च॑ सु॒व प्र च॑ यज॒ बृह॒स्पति॑र्ब्र॒ह्मा ऽऽयु॑ष्मत्या ऋ॒चो मा गा॑त तनू॒पाथ् साम्नः॑ स॒त्या व॑ आ॒शिषः॑ सन्तु स॒त्या आकू॑तय ऋ॒तं च॑ स॒त्यं च॑ वदत स्तु॒त दे॒वस्य॑ सवि॒तुः प्र॑स॒वे स्तु॒तस्य॑ स्तु॒तम॒स्यूर्जं॒ मह्यꣳ॑ स्तु॒तं दु॑हा॒मा मा᳚ स्तु॒तस्य॑ स्तु॒तं ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्र - [ ]
पदपाठः (Word-by-word)
देव॑ । स॒वि॒तः॒ । ए॒तत् । ते॒ । प्रेति॑ । आ॒ह॒ । तत् । प्रेति॑ । च॒ । सु॒व । प्रेति॑ । च॒ । य॒ज॒ । बृह॒स्पतिः॑ । ब्र॒ह्मा । आयु॑ष्मत्याः । ऋ॒चः । मा । गा॒त॒ । त॒नू॒पादिति॑ तनू - पात् । साम्नः॑ । स॒त्याः । वः॒ । आ॒शिष॒ इत्या᳚ - शिषः॑ । स॒न्तु॒ । स॒त्याः । आकू॑तय॒ इत्या-कू॒त॒यः॒ । ऋ॒तम् । च॒ । स॒त्यम् । च॒ । व॒द॒त॒ । स्तु॒त । दे॒वस्य॑ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र - स॒वे । स्तु॒तस्य॑ । स्तु॒तम् । अ॒सि॒ । ऊर्ज᳚म् । मह्य᳚म् । स्तु॒तम् । दु॒हा॒म् । एति॑ । मा॒ । स्तु॒तस्य॑ । स्तु॒तम् । ग॒म्या॒त् । श॒स्त्रस्य॑ । श॒स्त्रम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयाष्टके द्वितीयप्रपाठके सप्तमोऽनुवाकः)

पृषदाज्यं भवेत्षष्ठे मन्त्रश्च दधिघर्मगः ।

अथ सप्तमे स्तुतशस्त्रे अभिधीयेते ।

कल्पः ‘ब्रह्मन्स्तोष्यामः प्रशास्तरित्युच्यमाने देव सवितरेतत्ते प्राहेत्यनुद्रुत्य रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्युक्त्वों स्तुतेति प्रसौति’ इति । पाठस्तु---

देव सवितरिति । हे सवितर्देवायमुद्गाता स्तोष्याम इत्येतद्वाक्यं ते तुभ्यं प्राह तत्स्तोत्रं त्वं प्रसुव प्रकर्षेणानुज्ञां च दोहि । प्रयज च प्रकर्षेण च यागं निष्पादय । हे उद्वातारो बृहस्पतिरेवाहं ब्रह्मा न तु मनुष्यमात्रः । सोऽहं वो ब्रवीमीति शेषः । आयुष्मत्या ऋचो मा गात । आयु स्थानीयो निर्वाहोऽस्यामृच्यस्तीति आयुष्मती । तस्या ऋचः सकाशान्माऽपगच्छत ऋगक्षरोञ्चारणे सावधाना भवतेत्यर्थः । तथा तनूपात्साम्नो मा गच्छत । स्तोत्रस्य तनूः शरीरमेव ऋक्तां तनूं पतिति तनूपं साम । ऋगक्षराभिव्यक्तिर्हि साम्ना क्रियते । तत स्तस्मिन्यूयमप्रमत्ता भवतेति । गीयमाने स्तोत्रे वो युष्माकं संबन्धिन्यो यजमानविषया आशिषो याः सन्ति ताः सर्वाः सत्याः सन्तु । याश्च भवतामाकूतयः संकल्परूपास्ता अपि सत्याः सन्तु । यूयं मनसर्तं यथार्थं स्मरत । वाचा च सत्यं वदत । सवितुर्देवस्य प्रसवेऽनुज्ञायां सत्यां स्तुत स्तोत्रं पठत ।

कल्पः — “स्तुतस्य स्तुतमतीति स्तोत्रमनुमन्त्रयते शस्त्रस्य शस्त्रमसीति शस्त्रमिन्द्रियावन्तो वनामह इत्युभयत्रानुषजति” इति । पाठस्तु — स्तुतस्येति । सोऽयं मन्त्रो याजमानः । उद्गातृभिर्गीयमान हे स्तोत्र त्वं स्तुतस्य स्तुतमसि स्तोत्रस्यापि स्तोत्रमसि । स्तोत्रजातावुत्तममसीत्यर्थः । तादृशं स्तुतं स्तोत्ररूपं त्वां मह्यं मदर्थमूर्जं दुहां सारं दुहे । ततः स्तुतस्य स्तुतमुत्तमं स्तोत्रं मां प्रत्यागम्यादागच्छतु । एवं होतुभिः शस्यमान हे शस्त्र त्वं शस्त्रस्य शस्त्रमसि शस्त्रजातावुत्तममसि । शेषं पूर्ववत् । युवयोः स्तुतशस्त्रयोः प्रसादादिन्द्रिवावन्त इभ्द्रियैरविकलैर्युक्ताः सन्तो वनामहे स्वापेक्षितफलं भजामहे । प्रजां पुत्रादिरूपामिषमन्नं च धुक्षीमहि संपादयामः । किंच देवेषु विषयभूतेषु मे मदीया यजामीत्याशीर्याऽस्ति सा सत्या भूयात् । ब्रह्मवर्चसं यज्ञानुष्ठानरूपं मां प्रत्या गम्यादागच्छतु । उत्तरोत्तरमभिवर्धतामित्वर्थः । इदानीमनुष्ठीयमानो यज्ञः संपूर्णो भवति । स यज्ञ आबभूव पुगरप्यावृत्तो भवतु स यज्ञ प्रजज्ञेऽस्माननालस्येनानुष्ठातृन्प्रति प्रजातवान् । अत एवास्मद्गृहे स यज्ञो वावृधे पुनः पुनरनुष्ठानेन वर्धताम् । स यज्ञोऽस्माभिरिज्यमानानां देवानामधिकं पालयिता भवतु । स यज्ञोऽस्मानप्यधिपतीनधिकमनुष्ठानस्य पालकान्करोतु । वयमपि तस्य यज्ञपुरुषस्य प्रसादाद्रयीणां यज्ञसाधनानां धनानां पतयो भूयास्म ।

तदिदमनुमन्त्रणं स्तुतशस्त्रयोर्दोह इति वैदिकैः परिभाष्यते, तमिमं दोहं विधत्ते —

यज्ञो वा वा इति । अत्र दोहनं नाम रिक्तीकरणं गा दोग्धीत्यत्र तद्दर्शनात् । तथा सत्येतद्विचार्यते-किं यज्ञो यजमानं रिक्ती करोति किंवा यजमानो यज्ञमिति । तत्र यतो दोहनविद्वान्यः कोऽपि दोहनामकमभिमन्त्रणमज्ञात्वा यजेत तमेवं पुरुषं यज्ञो रिक्ती करोति । स चेष्ट्या दरिद्रो भवति । विद्वांस्तु यज्ञं दुग्ध्वा वसीयान्भवतीति । यद्यप्येतदभिमन्त्रणं सर्वत्र संचारि तथाऽपि वहिष्प वमानस्तोत्रस्याऽऽज्यशस्त्रस्य प्रथमभावित्त्वात्तदर्थस्तोत्रमन्त्र ऋतुग्रहानुवाकात्प्राक्पठयीयः । शस्त्रमन्त्रस्त्वैन्द्राग्नग्रहानुवाकादूर्ध्वं पठनीयः । अत्र विनियोगसंग्रहः —

देव ब्रह्मा सौति गातॄन्स्तुतस्य यजमानकः ।

स्तोत्रं समन्त्र्य शस्त्रस्य मन्त्रयेच्छस्त्रमेतयोः ॥

इन्द्रः शेषः स णामन्ते मन्त्रा अत्र त्रयो मताः ॥

अत्र प्रथममन्त्र ऋचो मा गात तनूपात्साम्न इत्यत्राक्षराभिव्यञ्जकतया सामानि ऋचः शरीरं रक्षन्तीत्युक्तम् । सोऽयमर्थो नवमाध्यायस्य द्वितीयपादे मीमांसितः —

“सामर्चं प्रति मुख्यं स्याद्गुणो वा बाह्यपाठतः ।

मुख्यमभ्यसितुं पाठो गुणो गीताक्षरः स्तुतेः” ॥

रथंतरं गायतीत्यादौ यद्गानं विहितं तदेतत्सामशब्दार्थ इति प्रतिपादितं स्मारितं च । तदेतद्रानमृचं प्रति प्रधानकर्म स्यात् । कुतः । यागप्रयोगाद्बहिरध्ययनकालेऽपि पठ्यमानत्वात् । गुणकर्म चेद्ब्रीहिप्रोक्षणादिवद्यागप्रयोऽमध्य एव गानमुष्ठीयेत । ततो यागाद्बाहिर्गानस्य विश्वजिदादिवत्फलं कल्पनीयम् । मध्यकालीनं गानं तु प्रयाजादिवदुपकारकम् । तस्मान्मुख्यमेतन्न गुणकर्मेति प्राप्ते ब्रूमः — न तावद्बहिः पाठः प्रधानकर्मत्वं कल्पयितुं शक्नोति । भूमिरथिकशुष्केष्टिन्यायेन प्रयोगपाटवाय गानाध्ययनोपपत्तेः । यथा भूमिरथिको भूमौ रथमालिख्याभ्यासं करोति यथा छात्रः शुष्केष्ट्या प्रयोगपाटवं संपादयति तद्वत् । नापि गुणकर्मत्वे प्रयोजनाभावात्प्रधानकर्मत्वमिति वाच्यम् । गानेन संस्कृतैर्ऋगक्षरैः स्तुतिसंभवात् । आज्यः स्तुवते पृष्ठैः स्तुवत इति स्तुतिविधानात् । तस्पादृगक्षराणां स्वरविशिष्ठत्वाक्षराभिव्यक्तिर्दृष्टं प्रयोजनमिति । अदृष्टस्याकल्पनीयत्वाद्रानं संस्कारकर्म ।

द्वितीयाध्यायस्य प्रथमपादे चिन्तितम्--

“प्रउगं शंसतीत्यादौ गुणतोत प्रधानता ।

दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ॥

स्मृत्यर्थत्वे स्तौतिशस्योर्धात्वोः श्रौतार्थबाधनम् ।

तेनादृष्टमपेत्यापि प्राधान्यं * स्तुतये मतम् ॥

ज्योतिष्ठोमे श्रूयते--- “प्रउगं शंसति निष्केवल्यं शंसति आज्यै स्तुवते पृष्ठैः स्तुवते” इति । प्रउगनिष्केवलयशब्दौ शस्त्रविशेषनामनी । आज्यपृष्ठशब्दौ तु स्तोत्रवाचित्वेन चित्राधिकरणे व्याख्यातौ । अप्रगीतमन्त्रसाध्या स्तुतिः शास्त्रं, प्रमीतमन्त्रसाध्या स्तुतिः स्तोत्रं, तयोः स्तुतशस्त्रयोर्गणकर्मत्वं युक्तम् । तुषविमोकवद्दृष्टार्थत्वलाभात् । पठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता संस्क्रियत इति प्राप्ते ब्रूमः — स्तोतव्याया देवतायाः स्तावकैर्गुंणैः संबन्धः स्तौतिशंसतिधात्वोर्वाच्योऽर्थः । यदि मन्त्रवाक्यानि (णि) गुणसंबन्धाभिधानपराणि तदा धात्वोर्मुख्यार्थलाभाच्छ्रतिरनुगृहीता भविष्यति । यदा तु गुणद्वारेणानुस्मरणीयदेवतास्वरूपप्रकाशनपराणि मन्त्रवाक्यानि (णि) स्युस्तदा धात्वोर्मुख्यार्थो न स्यात् । लोके हि देवदत्तश्चतुर्वेदाभिज्ञ इत्युक्तः स्तुतिः प्रतीयते । तस्य वाक्यस्य गुणसंबन्धपरत्वात् । (* यश्चतुर्वेदाभिज्ञो देवदत्तस्तमाकारयेत्युक्तौ स्तुतिर्न भवत्याकारणपरत्वेन वाक्यस्य गुणसंबन्धपरत्वाभावात् । तथाऽत्रापि पठ्यमानगुणविशिष्टो यः स देव इत्येव मन्त्रवाक्यानां (णां) देवताप्रकाशनपरत्वं तावच्चेत्स्यात्) ततश्चाऽऽज्यैर्देवं प्रकाशयेत्पृष्ठैर्देवं प्रकाशयेदित्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्यार्थो बाध्येत । ततो धातुस्तुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम् । तत्र दृष्टं प्रयोजनं नास्तीति चेत् । तर्ह्यपर्वमस्तु ॥

श्रीमत्सायणार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये

तृतीयकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः ॥७ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यत्र हि 'ब्रह्मन् स्तोष्यामः प्रशास्तः' इति, तद्ब्रह्मा प्रसौति - देव सवितरिति ॥ हे देव सवितः एतत्तवायं प्राह ब्रवीति स्तोष्याम इति । तत्प्रसुव च अनुजानीहि । प्रयज च प्रकर्षेण यागं निर्वर्तय च । 'च वा योगे प्रथमा' इति तिङ्विभक्तिर्न निहन्यते । हे उद्गातारः बृहस्पतिरेवाहं ब्रह्मा, न मनुष्यमात्रः, सोहं वो ब्रवीमि । आयुष्मत्या अविनष्टया ऋचा योनिभूतया मा गात मा अपगमत । कीदृश्या? तनुपात्साम्नः साम्नो गीतेश्शरीरं रक्षन्त्या ऋचा हि साम्नः शरीरं रक्ष्यते । छान्दसो लिङ्गव्यत्ययः । यद्वा - ऋचस्तनुं पालयतस्साम्नश्च मा गात तस्या ऋचश्शरीरमवलम्बमानादित्यर्थः । सत्या अवितथाः युष्माकमाशिषः प्रार्थनास्सन्तु । आकूतयस्संकल्पाश्च सत्या यथासंकल्पसमाप्तयः सन्त्वित्येव । ऋतं च वदत । मानसं तथ्यमृतम् । यथा मनसाऽभिसंहितं तथा वदत । स्वत्यं च वदत । वाचिकं सत्यं तथ्यम् । यथा वाचा प्रतिज्ञातं तथा वदत । स्तुत गीत्या स्तुतिं निर्वर्तयतः देवस्य सवितुः प्रसवे अनुज्ञां लब्ध्वा स्तुतिं कुरुत । अत्र प्रातस्सवने - 'भूरिन्द्रवन्तः स्तुत' इति विशेषमाहुः । 'भुव इन्द्रवन्तस्स्तुत' इति माध्यन्दिने । 'सुवरिन्द्रवन्तस्स्तुत' इति तृतीयसवने ॥
2 अथ स्तुते स्तुतस्य दोहं वाचयति - स्तुतस्य स्तुतमसीति ॥ स्तुतस्य यज्ञस्य स्तुतं फलं त्वमसीति हे स्तोत्र त्वदधीनत्वात्तस्य । यद्वा - स्तुतस्यापि स्तुतं त्वमसि स्तोत्रस्यापि स्तोत्रमसि त्वत्तुल्यं स्तोत्रं नास्तीति । यथा - ब्राह्मणानामपि त्वं ब्राह्मण इति । स्तुतस्येति जातावेकवचनम् । तादृशं त्वां स्तुतं यथोक्तस्तुतरूपं मह्यं मदर्थं ऊर्जमन्नं दुहां दुहे । लेट्यामागमः, विकरणव्यत्ययेन शः । ततश्च स्तुतस्य स्तुतं यथोक्तं स्तुतिफलरूपं वा विशिष्टस्तोत्ररूपं मामागम्यात् आगच्छतु ॥
3 अथ शस्त्रे शस्त्रस्य दोहं वाचयति - शस्त्रस्येति ॥ शस्त्रस्य शंसनफलं त्वमसि, शस्त्राणामपि वा शस्त्रमसि । तादृशशस्त्ररूपं त्वां ऊर्जं दुहे । ततो मां यथोक्तं शस्त्रमागच्छतु । अत्र ष्टुञ् स्तुतौ, शंस स्तुतौ, इत्यर्थाविशेषेऽपि गीतिविशिष्टं स्तोत्रं, ऋक्समुदायमात्रं शस्त्रमित्यवगन्तव्यम् ॥
4 एतयोरुभयोरभ्यासं वाचयति - इन्द्रियावन्त इति । इयं पथ्याबृहती 'तृतीयश्चेद्द्वादशाक्षरः पथ्या' इति । द्व्यक्षरोनत्वाद्विराट् ॥ इन्द्रियावन्त इन्द्रियैरविकलैस्तद्वन्तः । 'मन्त्रे सोमाश्व' इति दीर्घत्वम् । त्वामेव वनामहे भजामहे सर्वकालम् । ते धुक्षीमहि दोहामहे त्वाम् । किम्? प्रजां पुत्रादिकां इषमन्नं तस्याश्च जीवनम् । किं च - देवेषु मे या आशीः प्रार्थना यजामीति सा सत्या अवितथा भूयात् पुनःपुनः यज्ञ उत्पद्यतां यागश्च प्रवर्ततामिति । अवितथं च ब्रह्मवर्चसमागम्यात् आगच्छतु । यियक्षा वर्तिष्यते इति ॥
5 यज्ञस्य पुनरालम्भं जपति - यज्ञो बभूवेति ॥ इयं जगती पञ्चविधा । व्याख्याता चेयम् 'अगन्म सुवः' इत्यत्र । यज्ञस्सम्पद्यतां, स विश्वमभिभवतु, स पजनयतु स प्रजास्संवर्धताम्, स देवानामधिकं पालयिता भूयात् । वयं च रयीणां धनानां स्वामिनः स्यामेति ॥
6 अथ स्तुतशस्त्रयोर्दोहस्य ब्राह्मणं - यज्ञो वा वा इत्यादि ॥ यद्द्वयमत्र भवति यज्ञो वा यज्ञपतिं दुहे, यज्ञपतिर्वा यज्ञं दुहे इति । 'लोपस्त आत्मनेपदेषु' इति तलोपः । 'वै वा वेति च छन्दसि' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । कस्तयोः प्रथम इत्याह - स इत्यादि । गतम् । यज्ञो दुह इति । तं रेचयति । यथा गौर्दुह्यमाना क्षीरशून्या भवति, एवमयं यज्ञेन दुह्यमानो रिक्तात्मा भवेत्, ततस्स इष्ट्वा पापीयान् भवति । अत्र दुह प्रपूरणे इति प्रशब्दः पूरणप्रतिपक्षमाह यथा प्रस्मरणं प्रस्थानमिति, एवं प्रपूरणं रेचनमिति जानीयात् ॥
7 य एनयोरित्यादि ॥ यज्ञोनेन दुह्यमानः पुनःपुनरुपचीयमानः सदा गौरिव दोग्धुरस्योपकरोति । ततश्च स इष्ट्वा यज्ञवान् भूत्वा वसीयान् वसुमत्तरो भवति 'विन्मतोर्लुक्' इति लुक्, 'टेः' इति टिलोपः । कः पुनरेतयोः दोह इत्याह - स्तुतस्येत्यादि । गतम् । दोहमजानन्तं गोकल्पं यज्ञो दुग्धे । दोहवित्तु यज्ञमेव गोस्थानीयं सर्वाण्यभिमतानि दुग्धे । इत्थं यज्ञवांश्च भूत्वा वसीयान् भवति गोमानिव समृद्धो भवतीत्यर्थः ॥
इति तृतीये द्वितीये सप्तमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.2.7.2 TS 3.2.7.2
म॒स्यूर्जं॒ मह्यꣳ॑ श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्या-दिन्द्रि॒याव॑न्तो वनामहे धुक्षी॒महि॑ प्र॒जामिषं᳚ ॥ सा मे॑ स॒त्याऽऽशीर्दे॒वेषु॑ भूयाद्-ब्रह्मवर्च॒सं माऽऽ ग॑म्यात् ॥ य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ सप्रज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑-पतिर्बभूव॒ सो अ॒स्माꣳ अधि॑पतीन् करोतु व॒यꣳ स्या॑म॒ पत॑यो रयी॒णां ॥ य॒ज्ञो वा॒ वै - [ ]
पदपाठः (Word-by-word)
अ॒सि॒ । ऊर्ज᳚म् । मह्य᳚म् । श॒स्त्रम् । दु॒हा॒म् । एति॑ । मा॒ । श॒स्त्रस्य॑ । श॒स्त्रम् । ग॒म्या॒त् । इ॒न्द्रि॒याव॑न्त॒ इती᳚न्द्रि॒य - व॒न्तः॒ । व॒ना॒म॒हे॒ । धु॒क्षी॒महि॑ । प्र॒जामिति॑ प्र - जाम् । इष᳚म् ॥ सा । मे॒ । स॒त्या । आ॒शीरित्या᳚ - शीः । दे॒वेषु॑ । भू॒या॒त् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । मा॒ । एति॑ । ग॒म्या॒त् ॥ य॒ज्ञ्ः । ब॒भू॒व॒ । सः । एति॑ । ब॒भू॒व॒ । सः । प्रेति॑ । ज॒ज्ञे॒ । सः । वा॒वृ॒धे॒ ॥ सः । दे॒वाना᳚म् । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । ब॒भू॒व॒ । सः । अ॒स्मान् । अधि॑पती॒नित्यधि॑ - प॒ती॒न् । क॒रो॒तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥ य॒ज्ञ्ः । वा॒ । वै ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.2.7.3 TS 3.2.7.3
य॒ज्ञ्प॑तिं दु॒हे य॒ज्ञ्प॑तिर्वा य॒ज्ञ्ं दु॑हे॒ स यः स्तु॑तश॒स्त्रयो॒र्दोह॒म वि॑द्वा॒न॒. यज॑ते॒ तं ॅय॒ज्ञो दु॑हे॒ स इ॒ष्ट्वा पापी॑यान् भवति॒ य ए॑नयो॒र्दोहं॑ ॅवि॒द्वान्. यज॑ते॒ स य॒ज्ञ्ं दु॑हे॒ स इ॒ष्ट्वा वसी॑यान् भवति स्तु॒तस्य॑ स्तु॒तम॒स्यूर्जं॒ मह्यꣳ॑ स्तु॒तं दु॑हा॒मा मा᳚ स्तु॒तस्य॑ स्तु॒तं ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम॒स्यूर्जं॒ मह्यꣳ॑ श॒स्त्रं दु॑हा॒ ( ) मा मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्या॒दित्या॑है॒ष वै स्तु॑तश॒स्त्रयो॒र्दोह॒स्तं ॅय ए॒वं ॅवि॒द्वान्. यज॑ते दु॒ह ए॒व य॒ज्ञ्मि॒ष्ट्वा वसी॑यान् भवति ॥
पदपाठः (Word-by-word)
य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । दु॒हे । य॒ज्ञ्प॑ति॒रिति॑ य॒ज्ञ्-प॒तिः॒ । वा॒ । य॒ज्ञ्म् । दु॒हे॒ । सः । यः । स्तु॒त॒श॒स्त्रयो॒रिति॑ स्तुत - श॒स्त्रयोः᳚ । दोह᳚म् । अवि॑द्वान् । यज॑ते । तम् । य॒ज्ञ्ः । दु॒हे॒ । सः । इ॒ष्ट्वा । पापी॑यान् । भ॒व॒ति॒ । यः । ए॒न॒योः॒ । दोह᳚म् । वि॒द्वान् । यज॑ते । सः । य॒ज्ञ्म् । दु॒हे॒ । सः । इ॒ष्ट्वा । वसी॑यान् । भ॒व॒ति॒ । स्तु॒तस्य॑ । स्तु॒तम् । अ॒सि॒ । ऊर्ज᳚म् । मह्य᳚म् । स्तु॒तम् । दु॒हा॒म् । एति॑ । मा॒ । स्तु॒तस्य॑ । स्तु॒तम् । ग॒म्या॒त् । श॒स्त्रस्य॑ । श॒स्त्रम् । अ॒सि॒ । ऊर्ज᳚म् । मह्य᳚म् । श॒स्त्रम् । दु॒हा॒म् ( ) । एति॑ । मा॒ । श॒स्त्रस्य॑ । श॒स्त्रम् । ग॒म्या॒त् । इति॑ । आ॒ह॒ । ए॒षः । वै । स्तु॒त॒श॒स्त्रयो॒रिति॑ स्तुत - श॒स्त्रयोः᳚ । दोहः॑ । तम् । यः । ए॒वम् । वि॒द्वान् । यज॑ते । दु॒हे । ए॒व । य॒ज्ञ्म् । इ॒ष्ट्वा । वसी॑यान् । भ॒व॒ति॒ ॥
पदसंख्या: 72