पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयकाण्डे द्वितीयप्रपाठके दशमोऽनुवाकः) ।
उक्तः प्रतिगरः साङ्ग समन्त्रो नवमे स्फुटम् ।
कल्पः — ‘उपयामगृहीतोऽसि वाक्षसदसीति प्रतिनिर्ग्राह्यं गृहीत्वा न सादयति” इति । पाठस्तु — उपयामेति ।
हे प्रतिनिर्गाह्य त्वमुपयामेन पार्थिवपात्रेण गृहीतोऽसि । वाक्षो वागिन्द्रियं तत्रावस्थितोऽसि । वाग्वा एषा यदेन्द्रवायवः” इति श्रुतेः । तादृशं त्व वाचः पालकाभ्यां क्रतोर्यज्ञस्य पालकाभ्यां घ्रुवस्याविनाशिनोऽस्य यज्ञस्याध्यक्षाभ्यां स्वामिभ्यामिन्द्रवायुभ्यां गृह्णामि तदर्थं गृह्णामीत्यर्थः ।
कल्पः — ‘ग्रहाणां प्रतिनिर्ग्राह्याणां ग्रहणादित्योपस्थानावनयनप्रदाना-न्यूत्तरोत्तरैर्मन्त्रैः” इति ।
अस्यायमर्थः — प्रतिनिर्ग्राह्यनामका ये ग्रहा ऐन्द्रवायवमैत्रावरुणाश्-विनसंबन्धिनस्तेषां ग्रहणादिक्रियाऽऽम्नानक्रमेणोत्तरैर्मन्त्रेद्रष्टव्येति ।
तत्रैन्द्रावायवप्रतिनिर्ग्राह्यस्य ग्रहणमन्त्र उक्तः । मैत्रावरुणप्रतिनिर्ग्राह्यस्य ग्रहणमन्त्रः —
उपयामेति । ऋतं सत्यं यज्ञो वा तत्र सीदतीत्यृतसत् ।
आश्विनप्रतिनिर्ग्राह्यमन्त्रः —
उपयामेति । श्रुतं श्रोत्रेन्द्रियं तत्र सीदतीति श्रुतसत् “चक्षुर्मैत्रावरुण-श्रोत्रमाश्विनम्” इति श्रुत्यन्तरात् ।
देवेभ्यस्त्वेति । कल्पः — “देवेभ्यस्त्वेत्यादित्यपात्रेण प्रतिप्रस्थाताऽऽदि-त्यस्थाल्यां संपातमवनीय” इति ।
हे ऐन्द्रवायमप्रतिनिर्गाह्य देवार्थं त्वामवनयामीति शेषः । एवं विश्वदेवे-भ्यस्त्वा देवेभ्य इति मन्त्राभ्यामुत्तरयोः संपातावनयनं कुर्यात् । गणप्राधान्येन विश्वदेवेभ्य इति समासनिर्देशः । प्रत्येकप्राधान्येन विश्वेभ्य इति व्यासनिर्देशः ।
विष्णाविति । कल्पः — “विष्णवृरुक्रमैष ते सोमस्त रक्षस्वेत्यादित्य-पात्रेण प्रतिप्रस्थाताऽऽदित्यस्थालीमपिदधाति” इति ।
तं ते दुश्चक्षा माऽव ख्यदित्येव आम्नातो मन्त्रशेषः ।
हे उरुक्रम विष्णो रक्षणार्थमेष सोमस्तवाधीनः । अतस्तं रक्षस्व । तं ते त्वदीयं सोमं दुश्चक्षाः पापदृष्टिः पुरुषो माऽवख्यान्मा द्राक्षीत् ।
कल्पः — “ग्रहमध्वर्युरादाय क्षिप्र होतारमतिद्रुत्य मयी वसुः पुरोवसुरिति ग्रह होत्रे प्रयच्छति” इति । पाठस्तु —
मयि वसुरिति । वसुर्धनरूपः सोमो मयि वर्तते । स कीदृशः । पुरोवसुः पुरस्कृतेतरसमस्तधनः । यद्वा पुरस्तात्प्राणादीनां वासयिता । यथाविधस्त्वं वाक्पा वाचः पालकः । अतो मम वाचं पाहि ।
यथाऽनेन मन्त्रेणैन्द्रवायवग्रहो होत्रे दत्त एवमुत्तराभ्यां मन्त्राभ्यां मैत्रावरुणाश्विनग्रहौ देयौ । तयोः पाठस्तु —
मयि वसुरिति । विदद्वसुर्लब्धसमस्तधनः । संयद्वसुः प्राप्तसमस्तधनः ।
भूरसि श्रेष्ठ इति । कल्पः — “हुते चाऽदित्यमुपतिष्ठते भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहीति” इति ।
हे हस्तस्थ सोम त्वं भूरसि सखानां भावयिताऽसि । अतो रश्गीनां सुखप्रकाशकानां वस्तूनां मध्ये त्वं श्रेष्ठोऽसि । त्वमेव प्राणस्य फलकस्तस्मान्मे प्राणं पाहि पालय ।
यथाऽनेन मन्त्रेणैन्द्रवायवग्रहहोमादूर्ध्वमादित्योपस्थानं तथैवोत्तरेण मन्त्रेणमैत्रावरुणग्रहहोमादूर्ध्वमादित्यमुपतिष्ठते । पाठस्तु —
धूरसि श्रेष्ठ इति । हे मैत्रावरुण ग्रह त्वं धूरसि दुःखानां हिंसिताऽसि । शेषं पूर्ववत् ।आश्विनग्रहहोमादूर्ध्वभावी तूपस्थानमन्त्रः शाखान्तरे द्रष्टव्यः ।
कल्पः — “यदि मन्येत यजमानः पूर्वो माऽतिक्रान्तो भ्रातृव्य इति प्राग्वोनादङ्गुष्ठेनाङ्गुलिमवगृह्णीयाद्यो न इन्द्रवायू अभिदासतीति” इति । पाठस्तु —
भो न इन्द्रेति । हे इन्द्रवायू यो भ्रातृव्यो नोऽस्मानभिदासति हिनस्ति, उत्पिपीतोऽस्मानुल्लङ्घ्य सोमं पिबति हे शुभस्पती शुभस्य कर्मणः पालयिदारौ तं भ्रातृव्यमहमध पादयाम्यपकृत्य पातयामि । इदमितिशब्देन तर्जन्याऽङ्गुल्याऽङ्गुष्ठेनावग्रहणमभिनीय प्रदर्श्यते । हे इन्द्र यथाऽहं भ्रातृव्यादुत्तमः संश्चेतयानीहलोकज्ञानवान्भूयासं तथा त्वमनुगृहाणेति शेषः । मित्रावरुणाविति द्वितीयमन्त्रेऽश्विनाविति तृतीयमन्त्रे च शेषं सर्वमनुषज्य व्याख्येयम् ।
अत्र विनियोगसंग्रहः —
उपेति प्रतिनिर्ग्राह्या ग्रहीतव्यास्त्रिभिः क्रमात् ।
देवेभ्यो निनयच्छेषांस्त्रिभिरादित्यपात्रके ॥
विष्णो तत्पात्रमाच्छाद्य द्विदेवत्यग्रहानपि ।
होत्रे दद्यात्त्त्रिभिः सूर्यमुपतिष्ठेत भूर्द्वयात् ॥
यो नस्त्रिभिस्तर्जनीं तामङ्गुष्ठेनोपपीडयेत् ।
इन्द्रमित्राश्विभिर्भिन्ना मन्त्राः पञ्चदशात्र ते ॥
त एते मन्त्रा ऋतुग्रहानुवाकात्पूर्वं द्रष्टव्याः ॥
द्वितीयप्रपाठके दशमोऽनुवाकः ॥ १० ॥