अनुवाकः 3 TS 6.4.3

(A3)

(वा॒चो-हव॑-म॒भिघृ॑तानां गृह्णात्यु॒ - त - पञ्च॑विꣳशतिश्च)

अनुवाकः 3 - Complete Audio

TS 6.4.3 - स्वरानुगामी

0:00 0:00
PS1.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वा
PS1.2 अ॑द्ध्व॒र्युः स्या॒द्यः सोम॑मुपाव॒हर॒न्थ् सर्वा᳚भ्यो
PS1.3 दे॒वता᳚भ्य उपाव॒हरे॒दिति॑ हृ॒दे त्वेत्या॑ह
PS1.4 मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति॒ मन॑से॒
PS1.5 त्वेत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोति
PS1.6 दि॒वे त्वा॒ सूर्या॑य॒ त्वेत्या॑ह
PS1.7 दे॒वेभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑
PS1.8 ए॒वैनꣳ॒॒ सर्वा᳚भ्य उ॒पाव॑हरति पु॒रा
PS1.9 वा॒चः- [ ]
PS2.1 प्रव॑दितोः प्रातरनुवा॒कमु॒पाक॑रोति॒ याव॑त्ये॒व वाक्
PS2.2 तामव॑ रुन्धे॒ ऽपोऽग्रे॑ऽभि॒व्याह॑रति य॒ज्ञो
PS2.3 वा आपो॑ य॒ज्ञ्मे॒वाभि वाचं॒
PS2.4 ॅविसृ॑जति॒ सर्वा॑णि॒ छन्दाꣳ॒॒स्यन्वा॑ह प॒शवो॒
PS2.5 वै छन्दाꣳ॑सि प॒शूने॒वाव॑ रुन्धे
PS2.6 गायत्रि॒या तेज॑स्कामस्य॒ परि॑ दद्ध्यात्
PS2.7 त्रि॒ष्टुभे᳚न्द्रि॒य का॑मस्य॒ जग॑त्या प॒शुका॑मस्यानु॒ष्टुभा᳚
PS2.8 प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञ्का॑मस्य वि॒राजाऽन्न॑कामस्य
PS2.9 शृ॒णोत्व॒ग्निः स॒मिधा॒ हवं॑- [
PS2.10 ]
PS3.1 म॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒व
PS3.2 दे॒वता᳚भ्यो नि॒वेद्या॒पोऽच्छै᳚त्य॒प इ॑ष्य होत॒रित्या॑हेषि॒तꣳ
PS3.3 हि कर्म॑ क्रि॒यते॒ मैत्रा॑वरुणस्य
PS3.4 चमसाद्ध्वर्य॒वा द्र॒वेत्या॑ह मि॒त्रावरु॑णौ॒ वा
PS3.5 अ॒पां ने॒तारौ॒ ताभ्या॑मे॒वैना॒ अच्छै॑ति॒
PS3.6 देवी॑रापो अपां नपा॒दित्या॒हाऽऽ*हु॑त्यै॒वैना॑ नि॒ष्क्रीय॑
PS3.7 गृह्णा॒त्यथो॑ ह॒विष्कृ॑ताना-मे॒वाभिघृ॑तानां गृह्णाति॒- [
PS3.8 ]
PS4.1 कार्.षि॑र॒सीत्या॑ह॒ शम॑लमे॒वाऽऽ*सा॒मप॑ प्लावयति समु॒द्रस्य॒
PS4.2 वोऽक्षि॑त्या॒ उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाः
PS4.3 पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते॒
PS4.4 योनि॒र्वै य॒ज्ञ्स्य॒ चात्वा॑लं ॅय॒ज्ञो
PS4.5 व॑सती॒वरीर्॑.होतृचम॒सं च॑ मैत्रावरुणचम॒सं च॑
PS4.6 सꣳ॒॒स्पर्श्य॑ वसती॒वरी॒र्व्यान॑यति य॒ज्ञ्स्य॑ सयोनि॒त्वायाथो॒
PS4.7 स्वादे॒वैना॒ योनेः॒ प्र ज॑नय॒त्यद्ध्व॒र्योऽवे॑र॒पा(3)
PS4.8 इत्या॑हो॒ते ( ) -म॑नन्नमुरु॒तेमाः
PS4.9 प॒श्येति॒ वावैतदा॑ह॒ यद्य॑ग्निष्टो॒मो जु॒होति॒
PS4.10 यद् यु॒क्थ्यः॑ परि॒धौ नि
PS4.11 मा᳚र्ष्टि॒ यद् य॑तिरा॒त्रो यजु॒र्वद॒न्
PS4.12 प्र प॑द्यते यज्ञ्क्रतू॒नां ॅव्यावृ॑त्त्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.4.3.1 TS 6.4.3.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वा अ॑द्ध्व॒र्युः स्या॒द्यः सोम॑मुपाव॒हर॒न्थ् सर्वा᳚भ्यो दे॒वता᳚भ्य उपाव॒हरे॒दिति॑ हृ॒दे त्वेत्या॑ह मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति॒ मन॑से॒ त्वेत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोति दि॒वे त्वा॒ सूर्या॑य॒ त्वेत्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनꣳ॒॒ सर्वा᳚भ्य उ॒पाव॑हरति पु॒रा वा॒चः- [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । सः । तु । वै । अ॒द्ध्व॒र्युः । स्या॒त् । यः । सोम᳚म् । उ॒पा॒व॒हर॒न्नित्यु॑प - अ॒व॒हरन्न्॑ । सर्वा᳚भ्यः । दे॒वता᳚भ्यः । उ॒पा॒व॒हरे॒दित्यु॑प - अ॒व॒हरे᳚त् । इति॑ । हृ॒दे । त्वा॒ । इति॑ । आ॒ह॒ । म॒नु॒ष्ये᳚भ्यः । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । मन॑से । त्वा॒ । इति॑ । आ॒ह॒ । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । दि॒वे । त्वा॒ । सूर्या॑य । त्वा॒ । इति॑ । आ॒ह॒ । दे॒वेभ्यः॑ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । ए॒ताव॑तीः । वै । दे॒वताः᳚ । ताभ्यः॑ । ए॒व । ए॒न॒म् । सर्वा᳚भ्यः । उ॒पाव॑हर॒तीत्यु॑प - अव॑हरति । पु॒रा । वा॒चः ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 ब्रह्मवादिन इत्यादि ॥ स एवाध्वर्युर्भवितुमर्हति । तोरन्त्यलोपश्छान्दसः । यः सोमं हविर्धानादुपावहरन् अवतारयन् सर्वाम्यो देवताभ्यः सर्वदेवतार्थं उपावहरेत् उपावहरणं जानातीति । मनुष्येभ्य इत्यादि । हृदयमात्रवन्तो मनुष्या विशिष्टं मननं मनः तद्वन्तः पितरः द्युलोकवासिनो देवाः सूर्यमण्डलवर्तिनश्च । एतावत्य एव देवता भवन्ति, तस्मादनेन मन्त्रेणोपावहरणं सर्वदेवतार्थमिति ॥
2 पुरा वाच इत्यादि ॥ पक्ष्यादीनां वाग्वदनारम्भात्प्राक् प्रातरनुवाकमुपाकरोति 'प्रातर्यावभ्यः' इत्यादिकं संप्रैषमाह । यावती काचित्सर्वस्य वाक्, तां अप्रोदितां प्रथममन्यैरनुक्तामेव स्वयमवरुन्धे ॥
3 अपोग्रे इति ॥ आरम्भे अपोभिव्याहरति आपो देवीरिति । तेन यज्ञान्विता अपोभिलक्ष्य वाचं विसृजति वाग्विसृष्टा भवति ॥
4 सर्वाणीत्यादि ॥ प्रातरनुवाके प्रेषणानन्तरं ब्रूयात् । परिदध्यात् समापयेत् । गतमन्यत् ॥
5 यत्राभिजानात्यभूदुषारुशत्पशुरिति तत्प्रचरण्या जुहोति - शृणोत्वग्निरिति ॥ सवितृप्रसूत इति । सवित्राऽनुज्ञात एव देवताभ्यो निवेद्य विज्ञाप्य अपोच्छैति अपोभिप्राप्तुं गच्छति । एकधनादिलक्षणाः अप इष्य होतरित्यादिस्संप्रैषः । इषितमित्यादि । हे होतः अपः कर्म अपामानयनलक्षणं इष्य इच्छेति यस्मादाह तस्मादिषितं हि कर्म क्रियते । मैत्रावरुणस्येत्यादि । मित्रावरुणयोः अपां वृष्टेः नेतृत्वात् एवमुच्यते । ताभ्यां सह अपोच्छैति ॥
6 देवीराप इत्यप्सु तृणमन्तर्धाय जुहोति आहुतिप्रदानेन एना अपो निष्क्रीय आत्मसात्कृत्य गृह्णाति । अथो हविष्कृतानां हविष्ट्वमापादितानां अभिघारणस्थानीयोयं होम इत्यर्थः । हविष्ट्वापादनेन संस्कृता हविष्कृता । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
7 कार्षिरसीति दर्भैराहुतिमपप्लावयति ॥ शमलं मलांशमपप्लावयति अपनयति । 'समुद्रस्य वोक्षित्या उन्नये' इति अभिहुतानां मैत्रावरुणचमसेन गृह्नाति । तस्मादद्यमाना इत्यादि । क्षुन्निवृत्त्यर्थमद्यमानाः पिपासानिवृत्त्यर्थं पीयमानाः ॥
8 योनिर्वा इत्यादि ॥ ततः पुरषिमादाय धिष्ण्योपवपनात् योनित्यम् । प्रसाधनसाधनत्वाद्यज्ञोहि स्वयं वसतीवर्यः । उपरि चात्वाले चमसौ परस्परं संस्पर्शयित्वा तत्र वसतविरीर्व्यानयति परस्परमानयति यज्ञस्य सयोनित्वाय स्वयोनावेव यज्ञस्स्थापितो यथा स्यात् । अपि च स्वादेव योनेः एता यज्ञात्मिकाः प्रजनयति उत्पादयति ॥
9 अध्वर्योवेरपा इति हातोऽध्वर्युं पृच्छति ॥ हे अध्वर्यो किमपः अवेः लब्धवानसि । विदॢ लाभे, लुङि सिज्लुकि 'दश्च' इति रुत्वम् । प्रश्ने वाक्यस्य टेः प्लुतः । अत यत्प्रतिवचनं 'उतेमनन्नमुः' इति तस्याभिप्रायमाह - उतेमा इत्यादि । अत्र लाभप्रश्ने लब्धवानस्म्यहमिति प्रतिवक्तव्ये उतेमनन्नमुरिति यदुक्तं तस्यायमभिप्रायः - तथा हि न केवलमिमा लब्धवानस्म्यहं उत अपि तु अनन्नमुः इमाः अत्यर्थं मामुपसं प्राप्ताः दर्शयितुमपि शक्यन्ते । द्रष्टुमशक्यमपि हि आत्मसात्कृतलब्धमुच्यते । इमास्त्वापो न तथा, उपनता एवेमाः; तत्किमुच्यते लब्धवानस्मीति; अपित्विमाः पश्येति एतदर्थरूपमाहायं मन्त्र इति ॥
10 प्रचरणीयशेषात्क्रतुकरणं जुहोति - 'यमग्रे पृत्सु मर्त्यम्' इति ॥ यद्ययमग्निष्टोमः, अथवा यद्युक्थ्यः परिधौ निर्माष्ट्यनेन मन्त्रेण । अथ यद्यतिरात्रः एतं मन्त्रं वदन् प्रपद्यते हविर्धानम् । यज्ञक्रतवः यूपवन्तो यागाः । तेषां व्यावृत्त्यै विभागार्थमेवं कुर्यादिति ॥
इति षष्ठे चतुर्थे तृतीयोनुवाकः ॥
पञ्चशत् 2 #
TS 6.4.3.2 TS 6.4.3.2
प्रव॑दितोः प्रातरनुवा॒कमु॒पाक॑रोति॒ याव॑त्ये॒व वाक् तामव॑ रुन्धे॒ ऽपोऽग्रे॑ऽभि॒व्याह॑रति य॒ज्ञो वा आपो॑ य॒ज्ञ्मे॒वाभि वाचं॒ ॅविसृ॑जति॒ सर्वा॑णि॒ छन्दाꣳ॒॒स्यन्वा॑ह प॒शवो॒ वै छन्दाꣳ॑सि प॒शूने॒वाव॑ रुन्धे गायत्रि॒या तेज॑स्कामस्य॒ परि॑ दद्ध्यात् त्रि॒ष्टुभे᳚न्द्रि॒य का॑मस्य॒ जग॑त्या प॒शुका॑मस्यानु॒ष्टुभा᳚ प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञ्का॑मस्य वि॒राजाऽन्न॑कामस्य शृ॒णोत्व॒ग्निः स॒मिधा॒ हवं॑- [ ]
पदपाठः (Word-by-word)
प्रव॑दितो॒रिति॒ प्र - व॒दि॒तोः॒ । प्रा॒त॒र॒नु॒वा॒कमिति॑ प्रातः - अ॒नु॒वा॒कम् । उ॒पाक॑रो॒तीत्यु॑प-आक॑रोति । याव॑ती । ए॒व । वाक् । ताम् । अवेति॑ । रु॒न्धे॒ । अ॒पः । अग्रे᳚ । अ॒भि॒व्याह॑र॒तीत्य॑भि - व्याह॑रति । य॒ज्ञ्ः । वै । आपः॑ । य॒ज्ञ्म् । ए॒व । अ॒भीति॑ । वाच᳚म् । वीति॑ । सृ॒ज॒ति॒ । सर्वा॑णि । छन्दाꣳ॑सि । अन्विति॑ । आ॒ह॒ । प॒शवः॑ । वै । छन्दाꣳ॑सि । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । गा॒य॒त्रि॒या । तेज॑स्काम॒स्येति॒ तेजः॑ - का॒म॒स्य॒ । परीति॑ । द॒द्ध्या॒त् । त्रि॒ष्टुभा᳚ । इ॒न्द्रि॒यका॑म॒स्येती᳚न्द्रि॒य - का॒म॒स्य॒ । जग॑त्या । प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ । अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ । प॒ङ्क्त्या । य॒ज्ञ्का॑म॒स्येति॑ य॒ज्ञ् - का॒म॒स्य॒ । वि॒राजेति॑ वि - राजा᳚ । अन्न॑काम॒स्येत्यन्न॑ - का॒म॒स्य॒ । शृ॒णोतु॑ । अ॒ग्निः । स॒मिधेति॑ सं - इधा᳚ । हव᳚म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.4.3.3 TS 6.4.3.3
म॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒व दे॒वता᳚भ्यो नि॒वेद्या॒पोऽच्छै᳚त्य॒प इ॑ष्य होत॒रित्या॑हेषि॒तꣳ हि कर्म॑ क्रि॒यते॒ मैत्रा॑वरुणस्य चमसाद्ध्वर्य॒वा द्र॒वेत्या॑ह मि॒त्रावरु॑णौ॒ वा अ॒पां ने॒तारौ॒ ताभ्या॑मे॒वैना॒ अच्छै॑ति॒ देवी॑रापो अपां नपा॒दित्या॒हाऽऽ*हु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णा॒त्यथो॑ ह॒विष्कृ॑ताना-मे॒वाभिघृ॑तानां गृह्णाति॒- [ ]
पदपाठः (Word-by-word)
मे॒ । इति॑ । आ॒ह॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । ए॒व । दे॒वता᳚भ्यः । नि॒वेद्येति॑ नि - वेद्य॑ । अ॒पः । अच्छ॑ । ए॒ति॒ । अ॒पः । इ॒ष्य॒ । हो॒तः॒ । इति॑ । आ॒ह॒ । इ॒षि॒तम् । हि । कर्म॑ । क्रि॒यते᳚ । मैत्रा॑वरुण॒स्येति॒ मैत्रा᳚-व॒रु॒ण॒स्य॒ । च॒म॒सा॒द्ध्व॒र्य॒विति॑ चमस-अ॒द्ध्व॒र्यो॒ । एति॑ । द्र॒व॒ । इति॑ । आ॒ह॒ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । वै । अ॒पाम् । ने॒तारौ᳚ । ताभ्या᳚म् । ए॒व । ए॒नाः॒ । अच्छ॑ । ए॒ति॒ । देवीः᳚ । आ॒पः॒ । अ॒पा॒म् । न॒पा॒त् । इति॑ । आ॒ह॒ । आह॒त्येत्या - हु॒त्या॒ । ए॒व । ए॒नाः॒ । नि॒ष्क्रीयेति॑ निः - क्रीय॑ । गृ॒ह्णा॒ति॒ । अथो॒ इति॑ । ह॒विष्कृ॑ताना॒मिति॑ ह॒विः - कृ॒ता॒ना॒म् । ए॒व । अ॒भिघृ॑ताना॒मित्य॒भि - घृ॒ता॒ना॒म् । गृ॒ह्णा॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.4.3.4 TS 6.4.3.4
कार्.षि॑र॒सीत्या॑ह॒ शम॑लमे॒वाऽऽ*सा॒मप॑ प्लावयति समु॒द्रस्य॒ वोऽक्षि॑त्या॒ उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाः पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते॒ योनि॒र्वै य॒ज्ञ्स्य॒ चात्वा॑लं ॅय॒ज्ञो व॑सती॒वरीर्॑.होतृचम॒सं च॑ मैत्रावरुणचम॒सं च॑ सꣳ॒॒स्पर्श्य॑ वसती॒वरी॒र्व्यान॑यति य॒ज्ञ्स्य॑ सयोनि॒त्वायाथो॒ स्वादे॒वैना॒ योनेः॒ प्र ज॑नय॒त्यद्ध्व॒र्योऽवे॑र॒पा(3) इत्या॑हो॒ते ( ) -म॑नन्नमुरु॒तेमाः प॒श्येति॒ वावैतदा॑ह॒ यद्य॑ग्निष्टो॒मो जु॒होति॒ यद् यु॒क्थ्यः॑ परि॒धौ नि मा᳚र्ष्टि॒ यद् य॑तिरा॒त्रो यजु॒र्वद॒न् प्र प॑द्यते यज्ञ्क्रतू॒नां ॅव्यावृ॑त्त्यै ॥
पदपाठः (Word-by-word)
कार्.षिः॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । शम॑लम् । ए॒व । आ॒सा॒म् । अपेति॑ । प्ला॒व॒य॒ति॒ । स॒मु॒द्रस्य॑ । वः॒ । अक्षि॑त्यै । उदिति॑ । न॒ये॒ । इति॑ । आ॒ह॒ । तस्मा᳚त् । अ॒द्यमा॑नाः । पी॒यमा॑नाः । आपः॑ । न । क्षी॒य॒न्ते॒ । योनिः॑ । वै । य॒ज्ञ्स्य॑ । चात्वा॑लम् । य॒ज्ञ्ः । व॒स॒ती॒वरीः᳚ । हो॒तृ॒च॒म॒समिति॑ होतृ - च॒म॒सम् । च॒ । मै॒त्रा॒व॒रु॒ण॒च॒म॒समिति॑ मैत्रावरुण - च॒म॒सम् । च॒ । सꣳ॒॒स्पर्श्येति॑ सं - स्पर्श्य॑ । व॒स॒ती॒वरीः᳚ । व्यान॑य॒तीति॑ वि - आन॑यति । य॒ज्ञ्स्य॑ । स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । अथो॒ इति॑ । स्वात् । ए॒व । ए॒नाः॒ । योनेः᳚ । प्रेति॑ । ज॒न॒य॒ति॒ । अद्ध्व॑र्यो॒ इति॑ । अवेः᳚ । अ॒पा(3)ः । इति॑ । आ॒ह॒ । उ॒त ( ) । ई॒म् । अ॒न॒न्न॒मुः॒ । उ॒त । इ॒माः । प॒श्य॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ । यदि॑ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । जु॒होति॑ । यदि॑ । उ॒क्थ्यः॑ । प॒रि॒धाविति॑ परि - धौ । नीति॑ । मा॒र्ष्टि॒ । यदि॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । यजुः॑ । वदन्न्॑ । प्रेति॑ । प॒द्य॒ते॒ । य॒ज्ञ्॒क्र॒तू॒नामिति॑ यज्ञ् - क्र॒तू॒नाम् । व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै ॥
पदसंख्या: 75