पञ्चशत् 1 #
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वा अ॑द्ध्व॒र्युः स्या॒द्यः सोम॑मुपाव॒हर॒न्थ् सर्वा᳚भ्यो दे॒वता᳚भ्य उपाव॒हरे॒दिति॑ हृ॒दे त्वेत्या॑ह मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति॒ मन॑से॒ त्वेत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोति दि॒वे त्वा॒ सूर्या॑य॒ त्वेत्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनꣳ॒॒ सर्वा᳚भ्य उ॒पाव॑हरति पु॒रा वा॒चः- [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । सः । तु । वै । अ॒द्ध्व॒र्युः । स्या॒त् । यः । सोम᳚म् । उ॒पा॒व॒हर॒न्नित्यु॑प - अ॒व॒हरन्न्॑ । सर्वा᳚भ्यः । दे॒वता᳚भ्यः । उ॒पा॒व॒हरे॒दित्यु॑प - अ॒व॒हरे᳚त् । इति॑ । हृ॒दे । त्वा॒ । इति॑ । आ॒ह॒ । म॒नु॒ष्ये᳚भ्यः । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । मन॑से । त्वा॒ । इति॑ । आ॒ह॒ । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । दि॒वे । त्वा॒ । सूर्या॑य । त्वा॒ । इति॑ । आ॒ह॒ । दे॒वेभ्यः॑ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । ए॒ताव॑तीः । वै । दे॒वताः᳚ । ताभ्यः॑ । ए॒व । ए॒न॒म् । सर्वा᳚भ्यः । उ॒पाव॑हर॒तीत्यु॑प - अव॑हरति । पु॒रा । वा॒चः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 ब्रह्मवादिन इत्यादि ॥ स एवाध्वर्युर्भवितुमर्हति । तोरन्त्यलोपश्छान्दसः । यः सोमं हविर्धानादुपावहरन् अवतारयन् सर्वाम्यो देवताभ्यः सर्वदेवतार्थं उपावहरेत् उपावहरणं जानातीति । मनुष्येभ्य इत्यादि । हृदयमात्रवन्तो मनुष्या विशिष्टं मननं मनः तद्वन्तः पितरः द्युलोकवासिनो देवाः सूर्यमण्डलवर्तिनश्च । एतावत्य एव देवता भवन्ति, तस्मादनेन मन्त्रेणोपावहरणं सर्वदेवतार्थमिति ॥
2 पुरा वाच इत्यादि ॥ पक्ष्यादीनां वाग्वदनारम्भात्प्राक् प्रातरनुवाकमुपाकरोति 'प्रातर्यावभ्यः' इत्यादिकं संप्रैषमाह । यावती काचित्सर्वस्य वाक्, तां अप्रोदितां प्रथममन्यैरनुक्तामेव स्वयमवरुन्धे ॥
3 अपोग्रे इति ॥ आरम्भे अपोभिव्याहरति आपो देवीरिति । तेन यज्ञान्विता अपोभिलक्ष्य वाचं विसृजति वाग्विसृष्टा भवति ॥
4 सर्वाणीत्यादि ॥ प्रातरनुवाके प्रेषणानन्तरं ब्रूयात् । परिदध्यात् समापयेत् । गतमन्यत् ॥
5 यत्राभिजानात्यभूदुषारुशत्पशुरिति तत्प्रचरण्या जुहोति - शृणोत्वग्निरिति ॥ सवितृप्रसूत इति । सवित्राऽनुज्ञात एव देवताभ्यो निवेद्य विज्ञाप्य अपोच्छैति अपोभिप्राप्तुं गच्छति । एकधनादिलक्षणाः अप इष्य होतरित्यादिस्संप्रैषः । इषितमित्यादि । हे होतः अपः कर्म अपामानयनलक्षणं इष्य इच्छेति यस्मादाह तस्मादिषितं हि कर्म क्रियते । मैत्रावरुणस्येत्यादि । मित्रावरुणयोः अपां वृष्टेः नेतृत्वात् एवमुच्यते । ताभ्यां सह अपोच्छैति ॥
6 देवीराप इत्यप्सु तृणमन्तर्धाय जुहोति आहुतिप्रदानेन एना अपो निष्क्रीय आत्मसात्कृत्य गृह्णाति । अथो हविष्कृतानां हविष्ट्वमापादितानां अभिघारणस्थानीयोयं होम इत्यर्थः । हविष्ट्वापादनेन संस्कृता हविष्कृता । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
7 कार्षिरसीति दर्भैराहुतिमपप्लावयति ॥ शमलं मलांशमपप्लावयति अपनयति । 'समुद्रस्य वोक्षित्या उन्नये' इति अभिहुतानां मैत्रावरुणचमसेन गृह्नाति । तस्मादद्यमाना इत्यादि । क्षुन्निवृत्त्यर्थमद्यमानाः पिपासानिवृत्त्यर्थं पीयमानाः ॥
8 योनिर्वा इत्यादि ॥ ततः पुरषिमादाय धिष्ण्योपवपनात् योनित्यम् । प्रसाधनसाधनत्वाद्यज्ञोहि स्वयं वसतीवर्यः । उपरि चात्वाले चमसौ परस्परं संस्पर्शयित्वा तत्र वसतविरीर्व्यानयति परस्परमानयति यज्ञस्य सयोनित्वाय स्वयोनावेव यज्ञस्स्थापितो यथा स्यात् । अपि च स्वादेव योनेः एता यज्ञात्मिकाः प्रजनयति उत्पादयति ॥
9 अध्वर्योवेरपा इति हातोऽध्वर्युं पृच्छति ॥ हे अध्वर्यो किमपः अवेः लब्धवानसि । विदॢ लाभे, लुङि सिज्लुकि 'दश्च' इति रुत्वम् । प्रश्ने वाक्यस्य टेः प्लुतः । अत यत्प्रतिवचनं 'उतेमनन्नमुः' इति तस्याभिप्रायमाह - उतेमा इत्यादि । अत्र लाभप्रश्ने लब्धवानस्म्यहमिति प्रतिवक्तव्ये उतेमनन्नमुरिति यदुक्तं तस्यायमभिप्रायः - तथा हि न केवलमिमा लब्धवानस्म्यहं उत अपि तु अनन्नमुः इमाः अत्यर्थं मामुपसं प्राप्ताः दर्शयितुमपि शक्यन्ते । द्रष्टुमशक्यमपि हि आत्मसात्कृतलब्धमुच्यते । इमास्त्वापो न तथा, उपनता एवेमाः; तत्किमुच्यते लब्धवानस्मीति; अपित्विमाः पश्येति एतदर्थरूपमाहायं मन्त्र इति ॥
10 प्रचरणीयशेषात्क्रतुकरणं जुहोति - 'यमग्रे पृत्सु मर्त्यम्' इति ॥ यद्ययमग्निष्टोमः, अथवा यद्युक्थ्यः परिधौ निर्माष्ट्यनेन मन्त्रेण । अथ यद्यतिरात्रः एतं मन्त्रं वदन् प्रपद्यते हविर्धानम् । यज्ञक्रतवः यूपवन्तो यागाः । तेषां व्यावृत्त्यै विभागार्थमेवं कुर्यादिति ॥
इति षष्ठे चतुर्थे तृतीयोनुवाकः ॥