पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
द्विदेवत्यग्रहेष्वस्य प्राथम्यं विधत्ते –
“वाग्वा एषा यदैन्द्रवायवो यदैन्द्रवायवाग्रा ग्रहा गृह्यन्ते वाचमेवानु प्रयन्ति” (सं. का. ६ प्र. ४ अ. ७) इति।
ऐन्द्रवायवमैत्रावरुणाश्विनग्रहाणामभिमानिदेवता वाक्चक्षुःश्रोत्राभिधाः। तस्मादैन्द्रवायवो वागित्युच्यते। तस्य प्राथम्ये सति वाचं पुरतः प्रयतीं चक्षुरादयोऽनुप्रयन्ति।
तत्प्राथम्यं प्रकारान्तरेण प्रशंसति–
“वायुं देवा अब्रुवन्त्सोम राजान हनामेति सोऽब्रवीद्वरं वृणै मदग्रा एव वो ग्रहा गृह्यान्ता इति तस्मादैन्द्रवायवाग्रा ग्रहा गृह्यन्ते तमघ्नन्” (सं. का. ६ प्र. ४ अ. ७) इति।
तदेव प्राथम्यं द्रढयितुं पुनरपि वायुं प्रशंसति, अथवा वायुस्तुत्या वायवे गृह्णीयादिति विधिरुन्नेयः —
“सोऽपूयत्तं देवा नोपाधृष्णुवन्ते वायुमब्रुवन्निमं नः स्वदयेति सोऽब्रवीद्वरं वृणै मद्देवत्यान्येव वः पात्राण्युच्यान्ता इति तस्मान्नानादेवत्यानि सन्ति वायव्यान्युच्यन्ते तमेभ्यो वायुरेवास्वदयत्तस्माद्यत्पूयति तत्प्रवाते वि षजन्ति वायुर्हि तस्य पवयिता स्वदयिता” (सं. का. ६ प्र. ४ अ. ७) इति।
अयं सोमो हतः सन्नपूयद्दुर्गन्धोऽभवत्। नोपाधृष्णुवन्स्वादुं कर्तुं नाशक्नुवन् मैत्रावरुणाश्विनादीन्यपि ग्रहपात्राणि वायव्यानीत्युच्यन्ते।
सर्वग्रहसाधारणमुपयामगृहीतोऽसीत्यमुं मन्त्रं व्याचष्टे –
“तस्य विग्रहणं नाविन्दन्त्साऽदितिरब्रवीद्वरं वृणा अथ मया वि गृह्णीध्वं मद्देवत्या एव वः सोमाः सन्ना असन्नित्युपयामगृहीतोऽसीत्याहादितिदेवत्यास्तेन यानि हि दारुमयाणि पात्राण्यस्यैतानि योनेः संभूतानि यानि मृन्मयानि साक्षात्तान्यस्यै तस्मादेवमाह” (सं. का. ६ प्र. ४ अ. ७) इति।
विविधदेवतार्थत्वेन गृह्यते येन मन्त्रेण तादृशं मन्त्रं नालभन्त। अदितिः पृथिवी। मया भूमिप्रतिपादकमन्त्रेण। ये युष्माकं सोमास्ते सर्वेऽपि होमकाले युष्मद्देवत्यत्वेऽप्यासादनकाले मद्देवत्याः सन्त्विति भूमेर्वचः। उपयामगृहीतोऽसी–त्येतादृशं मन्त्रं भूमिराह। उपयामेन भूमिसंबन्धिपात्रेण गृहीत इति मन्त्रार्थः। तेनैतन्मन्त्रप्रयोगेण पूर्वोक्तवरेण च सोमा अदितिदेवत्याः द्विविधानि सोमपात्राणि दारुमयाणि ग्रहरूपाणि मृन्मयानि चाऽऽग्रयणस्थाल्यादीनि। तत्रास्या भूमेः संबन्धिनी या वृक्षरूपा योनिस्तस्याः संभूतानि ग्रहादीनि, स्थाल्यादीनि तु साक्षादेव भूमेः कार्याणि। तस्मादुपयामगृहीत इत्येवं मन्त्रो ब्रूते।
ऐ(इ)न्द्रवाय्वोरेकस्मिन्पात्रे सह ग्रहणं विधत्ते –
“वाग्वै पराच्यव्याकृताऽवदत्ते देवा इन्द्रमब्रुवन्निमां नो वाचं व्याकुर्विति सोऽब्रवीद्वरं वृणै मह्यं चैवैष वायवे च सह गृह्याता इति तस्मादैन्द्रवायवः सह गृह्यते तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता वागुद्यते” (सं. का. ६ प्र. ४ अ. ७) इति।
येयं वैदिकमन्त्ररूपा वाक्सा पूर्वं पराची समुद्रघोषवदैक्यरूपेण दण्डायमाना तस्यां वाच्येतावदेकं वाक्यं तस्मिन्वाक्येऽप्येतावदेकं पदं तस्मिन्पदेऽपीयं प्रकृतिरयं प्रत्यय इत्वेवं विभज्य सर्वतः करणं व्याकरणं तद्रहितत्वादव्याकृतैवावदत्प्रवृत्ता। तामिन्द्रो मध्यतोऽवक्रम्य वाक्यपदादिरूपेण तत्र तत्र विच्छिद्य विभिन्नां कृतवान्।
ऐन्द्रवायवग्रहणमुपसंहरति –
“तस्मात्सकृदिन्द्राय मध्यतो गृह्यते द्विर्वायवे द्वौ हि स वराववृणीत” (सं. का. ६ प्र. ४ अ. ७) इति।
यस्मादिन्द्र एकमेव सहग्रहणरूपं वरमवृणोत्तस्मात्सकृदेवेन्द्रस्य सोमग्रहणम्। यस्माच्च वाचं मध्यतो विभक्तवांस्तस्मादुभयोर्वाय्वर्थग्रहणयोर्मध्य इन्द्रर्थं ग्रहणम्। आ वायो भूषेति केवलस्य वायोरादौ ग्रहणम्, इन्द्रवायू इमे सुता इत्यत्र वायुः पश्चात्पठ्यते। तस्मादिन्द्रस्य मध्ये स्थानम्। तस्माद्वायोर्ग्रहाग्रत्वमेको वरः। सर्वपात्राणां वायव्यत्वं द्वितीयो वरः। तस्मात्तस्य द्विः सोमग्रहणम्। इत आरभ्य विनियोगसंग्रहः षट्त्रिंशानुवाकस्यान्त उदाहरिष्यते।