पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
उपयजो विधत्ते —
‘यज्ञेन वै प्रजापतिः प्रजा असृजत ता उपयड्भिरेवासृजत यदुपयज उपयजति प्रजा एव तद्यजमानः सृजते’ (सं. का. ६ प्र. ४ अ. १) इति।
ज्योतिष्टोमयज्ञस्य सृष्टिसाधनत्वेऽपि साक्षात्साधनत्वमुपयजामेव। अनूयाजसमीप इज्यन्त इत्युपयजः।
पशोः पाश्चात्यभागं द्रव्यत्वेन विधत्ते —
‘जघनार्धादव द्यति जननार्धाद्धि प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. ४) इति।
त्रेधा विभक्ते गुदकाण्डे स्थूलभागं विधत्ते–
‘स्थाविमतोऽव द्यति स्थविमतो हि प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
निर्गन्तुं सुकरात्स्थूलाच्छिद्रात्प्रजा उत्पद्यन्ते।
क्रमेण च्छिन्नानां भागानां सांकर्यं वारयति–
“असंभिन्दन्नव द्यति प्राणानामसंभेदाय” (सं. का. ६ प्र. ४ अ. १) इति।
अग्रभागं प्रथमतोऽवदाय पश्चान्मूलभागमित्येतादृशं विपर्यासं निषेधति –
‘न पर्यावर्तयति यत्पर्यावर्तयेदुदावर्तः प्रजा ग्राहुकः स्यात्’ (सं. का. ६ प्र. ४ अ. १) इति।
उदावर्तो रोगविशेषः।
समुद्रादिमन्त्राणां सर्वेषां प्रजोत्पत्तावुपयोगं विवक्षुः समुद्रजलस्य रेतःसाम्यमभिप्रेत्याऽऽह –
‘समुद्रं गच्छ स्वाहेत्याह रेत एव तद्दधाति’ (सं. का. ६ प्र. ४ अ. १) इति।
अन्तरिक्षशब्दस्यावकाशप्रदानेनोपयोगं दर्शयति–
‘अन्तरिक्षं गच्छ स्वाहेत्याहान्तरिक्षेणैवास्मै प्रजाः प्र जनयत्यन्तरिक्ष ह्यनु प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रेरकत्वेन सवितुरुपयोग इत्याह –
देवसवितारं गच्छ स्वाहेत्याह सवितृप्रसूत एवास्मै प्रजाः प्र जनयति’ (सं. का. ६ प्र. ४ अ. १) इति।
उत्पत्तिकालत्वेनाहोरात्रोपयोगमाह –
‘अहोरात्रे गच्छ स्वाहेत्याहोरात्राभ्यामेवास्मै प्रजाः प्र जनयत्यहोरात्रे ह्यनु प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
प्राणापानप्रदत्वेन मित्रावरुणयोगमाह –
‘मित्रावरुणौ गच्छ स्वाहेत्याह प्रजास्वेव प्राजातासु प्राणापानौ दधाति’ (सं. का. ६ प्र. ४ अ. १) इति।
देवतात्वेन सोमोपयोगमाह –
‘सोमं गच्छ स्वाहेत्याह सौम्या हि देवतया प्रजाः’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रजाप्रदत्वेन यज्ञस्योपयोगमाह –
‘यज्ञं गच्छ स्वाहेत्याह प्रजा एव यज्ञियाः करोति’ (सं. का. ६ प्र. ४ अ. १) इति।
पशुप्रदत्वेन च्छन्दसामुपयोगमाह –
‘छन्दांसि गच्छ स्वाहेत्याह पशवो वै छन्दांसि पशूनेवाव रुन्धे’ (सं. का. ६ प्र. ४ अ. १) इति।
धारणाय द्यावापृथिव्योरुपयोगमाह–
‘द्यावापृथिवी गच्छ स्वाहेत्याह प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयत परि गृह्णाति’ (सं. का. ६ प्र. ४ अ. १) इति।
वृष्टिप्रदानेन नभस उपयोगमाह –
‘नभो दिव्यं गच्छ स्वाहेत्याह प्रजाभ्य एव प्रजाताभ्यो वृष्टिं नि यच्छति’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रतिष्ठाप्रदानेन वैश्वानरस्योपयोगमाह –
‘अग्निं वैश्वानरं गच्छ स्वाहेत्याह प्रजा एव प्रजाता अस्यां प्रति ष्ठापयति’ (सं. का. ६ प्र. ४ अ. ३) इति।
अद्भ्यस्त्वौषधीभ्य इति मन्त्र उपेक्षितः।
मनो मे हार्दि यच्छेति प्रार्थनायाः प्रसङ्गमाह –
‘प्राणानां वा एषोऽव द्यति योऽवद्यति गुदस्य मनो मे हार्दि यच्छेत्याह प्राणानेव यथास्थानमुप ह्वयते’ (सं. का. ६ प्र. ४ अ. ३) इति।
गुदस्य प्राणाधारत्वेन तदवदाने सति स्थानभ्रष्टाः प्राणाः पुनर्मन्त्रेण यथास्थानं स्थापिता भवन्ति।
शूलोद्वासनं विधत्ते –
‘पशोर्वा आलब्धस्य हृदयं शुगृच्छति सा हृदयशूलमभि समेति यत्पृथिव्या हृदयशूलमुद्वासयेत्पृथिवी शूचाऽर्पयेद्यदप्स्वपः शुचाऽर्यच्छुष्कस्य चाऽऽर्द्रस्य च संधावुद्वासयत्यिभयस्य शान्त्यै’ (सं. का. ६ प्र. ४ अ. १) इति।
उद्वासनकाले ध्यानं विधत्ते –
‘यं द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयति’ (सं. का. ६ प्र. ४ अ. १) इति।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
षष्ठं काण्डम्
चतुर्थः प्रपाठकः