अनुवाकः 9 TS 6.4.9

(A9)

(म॒नु॒ष्य॒च॒रा - वु॑दपा॒त्र - मु॑प॒ह्वये॑त - द्विदेव॒त्याः᳚ - षट्च॑त्वारिꣳशच्च)

अनुवाकः 9 - Complete Audio

TS 6.4.9 - स्वरानुगामी

0:00 0:00
PS1.1 य॒ज्ञ्स्य॒ शिरो᳚ऽच्छिद्यत॒ ते दे॒वा
PS1.2 अ॒श्विना॑वब्रुवन् भि॒षजौ॒ वै स्थ॑
PS1.3 इ॒दं ॅय॒ज्ञ्स्य॒ शिरः॒ प्रति॑
PS1.4 धत्त॒मिति॒ ताव॑ब्रूतां॒ ॅवरं॑ ॅवृणावहै॒
PS1.5 ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॒
PS1.6 ताभ्या॑-मे॒तमा᳚श्वि॒न-म॑गृह्ण॒न् ततो॒ वै तौ
PS1.7 य॒ज्ञ्स्य॒ शिरः॒ प्रत्य॑धत्तां॒ ॅयदा᳚श्वि॒नो
PS1.8 गृ॒ह्यते॑ य॒ज्ञ्स्य॒ निष्कृ॑त्यै॒ तौ
PS1.9 दे॒वा अ॑ब्रुव॒न्नपू॑तौ॒ वा इ॒मौ
PS1.10 म॑नुष्यच॒रौ- [ ]
PS2.1 भि॒षजा॒विति॒ तस्मा᳚द् ब्राह्म॒णेन॑ भेष॒जं
PS2.2 न का॒र्य॑मपू॑तो॒ ह्ये᳚(1॒)षो॑ ऽमे॒द्ध्यो
PS2.3 यो भि॒षक्तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा
PS2.4 ताभ्या॑-मे॒तमा᳚श्वि॒न-म॑गृह्ण॒न् तस्मा᳚द् बहिष्पवमा॒ने स्तु॒त
PS2.5 आ᳚श्वि॒नो गृ॑ह्यते॒ तस्मा॑दे॒वं ॅवि॒दुषा॑
PS2.6 बहिष्पवमा॒न उ॑प॒सद्यः॑ प॒वित्रं॒ ॅवै
PS2.7 ब॑हिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते॒ तयो᳚ऽस्त्रे॒धा
PS2.8 भैष॑ज्यं॒ ॅवि न्य॑दधुर॒ग्नौ तृती॑यम॒फ्सु
PS2.9 तृती॑यं ब्राह्म॒णे तृती॑यं॒ तस्मा॑दुदपा॒त्र-
PS2.10 [ ]
PS3.1 -मु॑पनि॒धाय॑ ब्राह्म॒णं द॑क्षिण॒तो नि॒षाद्य॑
PS3.2 भेष॒जं कु॑र्या॒द् याव॑दे॒व भे॑ष॒जं
PS3.3 तेन॑ करोति स॒मर्द्धु॑कमस्य कृ॒तं
PS3.4 भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्
PS3.5 स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते᳚ द्वि॒पात्रा॑
PS3.6 हूयन्त॒ इति॒ यदेक॑पात्रा गृ॒ह्यन्ते॒
PS3.7 तस्मा॒देको᳚ऽन्तर॒तः प्रा॒णो द्वि॒पात्रा॑ हूयन्ते॒
PS3.8 तस्मा॒द् द्वौद्वौ॑ ब॒हिष्टा᳚त् प्रा॒णाः
PS3.9 प्रा॒णा वा ए॒ते यद्
PS3.10 द्वि॑देव॒त्याः᳚ प॒शव॒ इडा॒ यदिडां॒
PS3.11 पूर्वां᳚ द्विदेव॒त्ये᳚भ्य उप॒ह्वये॑त- [
PS3.12 ]
PS4.1 प॒शुभिः॑ प्रा॒णान॒न्तर्द॑धीत प्र॒मायु॑कः स्याद्
PS4.2 द्विदेव॒त्या᳚न् भक्षयि॒त्वेडा॒मुप॑ ह्वयते प्रा॒णाने॒वाऽऽ*त्मन्
PS4.3 धि॒त्वा प॒शूनुप॑ ह्वयते॒ वाग्वा
PS4.4 ऐ᳚न्द्रवाय॒वश्चक्षु॑-र्मैत्रावरु॒णः श्रोत्र॑माश्वि॒नः पु॒रस्ता॑दैन्द्रवाय॒वं भ॑क्षयति॒
PS4.5 तस्मा᳚त् पु॒रस्ता᳚द् वा॒चा व॑दति
PS4.6 पु॒रस्ता᳚न्मैत्रावरु॒णं तस्मा᳚त् पु॒रस्ता॒च्चक्षु॑षा पश्यति
PS4.7 स॒र्वतः॑ परि॒हार॑माश्वि॒नं तस्मा᳚थ् स॒र्वतः॒
PS4.8 श्रोत्रे॑ण शृणोति प्रा॒णा वा
PS4.9 ए॒ते यद् द्वि॑देव॒त्या॑- [
PS4.10 ]
PS5.1 अरि॑क्तानि॒ पात्रा॑णि सादयति॒ तस्मा॒दरि॑क्ता
PS5.2 अन्तर॒तः प्रा॒णा यतः॒ खलु॒
PS5.3 वै य॒ज्ञ्स्य॒ वित॑तस्य॒ न
PS5.4 क्रि॒यते॒ तदनु॑ य॒ज्ञ्ꣳ रक्षाꣳ॒॒स्यव॑
PS5.5 चरन्ति॒ यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति
PS5.6 क्रि॒यमा॑णमे॒व तद् य॒ज्ञ्स्य॑ शये॒
PS5.7 रक्ष॑सा॒ -मन॑न्ववचाराय॒ दक्षि॑णस्य हवि॒र्द्धान॒स्योत्त॑रस्यां
PS5.8 ॅवर्त॒न्याꣳ सा॑दयति वा॒च्ये॑व वाचं॑
PS5.9 दधा॒त्या तृ॑तीयसव॒नात् परि॑ शेरे
PS5.10 य॒ज्ञ्स्य॒ सन्त॑त्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.4.9.1 TS 6.4.9.1
य॒ज्ञ्स्य॒ शिरो᳚ऽच्छिद्यत॒ ते दे॒वा अ॒श्विना॑वब्रुवन् भि॒षजौ॒ वै स्थ॑ इ॒दं ॅय॒ज्ञ्स्य॒ शिरः॒ प्रति॑ धत्त॒मिति॒ ताव॑ब्रूतां॒ ॅवरं॑ ॅवृणावहै॒ ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॒ ताभ्या॑-मे॒तमा᳚श्वि॒न-म॑गृह्ण॒न् ततो॒ वै तौ य॒ज्ञ्स्य॒ शिरः॒ प्रत्य॑धत्तां॒ ॅयदा᳚श्वि॒नो गृ॒ह्यते॑ य॒ज्ञ्स्य॒ निष्कृ॑त्यै॒ तौ दे॒वा अ॑ब्रुव॒न्नपू॑तौ॒ वा इ॒मौ म॑नुष्यच॒रौ- [ ]
पदपाठः (Word-by-word)
य॒ज्ञ्स्य॑ । शिरः॑ । अ॒च्छि॒द्य॒त॒ । ते । दे॒वाः । अ॒श्विनौ᳚ । अ॒ब्रु॒व॒न्न् । भि॒षजौ᳚ । वै । स्थः॒ । इ॒दम् । य॒ज्ञ्स्य॑ । शिरः॑ । प्रतीति॑ । ध॒त्त॒म् । इति॑ । तौ । अ॒ब्रू॒ता॒म् । वर᳚म् । वृ॒णा॒व॒है॒ । ग्रहः॑ । ए॒व । नौ॒ । अत्र॑ । अपीति॑ । गृ॒ह्य॒ता॒म् । इति॑ । ताभ्या᳚म् । ए॒तम् । आ॒श्वि॒नम् । अ॒गृ॒ह्ण॒न्न् । ततः॑ । वै । तौ । य॒ज्ञ्स्य॑ । शिरः॑ । प्रतीति॑ । अ॒ध॒त्ता॒म् । यत् । आ॒श्वि॒नः । गृ॒ह्यते᳚ । य॒ज्ञ्स्य॑ । निष्कृ॑त्या॒ इति॒ निः - कृ॒त्यै॒ । तौ । दे॒वाः । अ॒ब्रु॒व॒न्न् । अपू॑तौ । वै । इ॒मौ । म॒नु॒ष्य॒च॒राविति॑ मनुष्य - च॒रौ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

एतान्मन्त्रानपेक्ष्याऽऽश्विनग्रहणं विधत्ते –

‘यज्ञस्य शिरोऽच्छिद्यत ते देवा अश्विनावब्रुवन्भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रति धत्तमिति तावब्रूतां वरं वृणावहै ग्रह एव नावत्रापि गृह्यतामिति ताभ्यामेतमाश्विनमगृह्णन्ततो वै तौ यज्ञस्य शिरः प्रत्यधत्तां यदाश्विनो गृह्यते यज्ञस्य निष्कृत्यै’ (सं. का. ६ प्र. ४ अ. ९) इति।

यज्ञपुरुषः पुरा कदाचिद्देवानां वस्तु गृहीत्वा देवैः सह योद्धुं सज्यं धनुर्वाम हस्ते धृत्वा धनुष एकां कोटिं भूमौ द्वितीयां कोटिं गले प्रतिष्कभ्यातिष्ठत्। तदानीमुपदीकानामभिर्जन्तुभिर्भूमिष्ठे ज्याभागे भक्षिते सति त्रुटितज्याकस्य धनुष ऊर्ध्वकोटिः स्वयमुद्गच्छन्ती यज्ञस्य शिरोऽपि च्छित्त्वा स्वात्मना सहोर्ध्वमुदगमयत्।

आश्विनग्रहणस्य स्तोत्रादूर्ध्वकालं विधत्ते —

‘तौ देवा अब्रुवन्नपूतौ वा इमौ मनुष्यचरौ भिषजाविति तस्माद्ब्राह्मणेन भेषजं न कार्यमपूतो ह्येषोऽमेध्यो यो भिषक्तौ बहिष्पवमानेन पवयित्वा ताभ्यामेतमाश्विनमगृह्णन्तस्माद्बहिष्पवमाने स्तुत आश्विनो गृह्यते’ (सं. का. ६ प्र. ४ अ. ९) इति।

छन्दोगानामुत्तरग्रन्थोपक्रमे सूक्तत्रयमुपास्मै गायता नर इत्यादिकमाम्नातं तच्च गायत्रसाम्ना गातव्यम्। तदिदं बहिष्पवमानस्तोत्रम्। यावश्विनौ चिकित्सारूपेण मनुष्यचारित्वेन युक्तत्वादपूतौ तयोः स्तोत्रेण शुद्धत्वात्तत्स्तोत्रादूर्ध्वं तदीयग्रहस्य कालः।

विधत्ते —

“तस्मादेवं विदुषा बहिष्पवमान उपसद्यः पवित्रं वै बहिष्पवमानं आत्मानमेव पवयते” (सं. का. ६ प्र. ४ अ. ९) इति।

एवं विदुषा स्तोत्रस्य शुद्धिहेतुत्वं जानतोपसद्योऽनुष्ठेयः।

अत्र द्विदेवत्यानामैन्द्रवायवमैत्रावरुणाश्विनग्रहाणां तत्तत्प्रतिनिग्राह्यपात्रैः सह होमविधिमर्थवादेनोन्नेतुकामः प्रश्नमुत्थापयति–

‘ब्रह्मवादिनो वदन्ति कस्मात्सत्यादेकपात्रा द्विदेवत्या गृह्यन्ते द्विपात्रा हूयन्त इति’ (सं. का. ६ प्र. ४ अ. ९) इति।

ग्रहणकाले सोमानामेकैकपात्रत्वमुक्तरीत्या द्रष्टव्यम्

प्रश्नस्योत्तरं दर्शयति–

‘यदेकपात्रा गृह्यन्ते तस्मादेकोऽन्तरतः प्राणो द्विपात्रा हूयन्ते तस्माद्द्वौद्वौ बहिष्ठात्प्राणाः’ (सं. का. ६ प्र. ४ अ. ९) इति।

चक्षुरादिप्राणानामन्तरेकात्मकत्वाद्बहिर्द्वारभेदेन द्वित्वात्तत्साम्यायैकपात्रत्वं द्विपात्रत्वं च कुर्यादित्यर्थः। अत्र सवनीयपुरोडाशानां स्विष्टकृति हुते सति द्विदेवत्यग्रहप्रचारो विहितः।

पुरोडाशसंबन्धिन इडोपाह्वानस्यापि स्विष्टकृदनन्तरभावी चोदकप्राप्तः कालस्तं बाधित्वा द्विदेवत्यशेषभक्षणादूर्ध्वमुपाह्वानस्योत्कर्षं विधत्ते–

‘प्राणा वा एते यद्द्विदेवत्याः पशव इडा यदिडां पूर्वां द्विदेवत्येभ्य उपह्वयेत पशुभिः प्राणानन्तर्दधीत प्रमायुकः स्याद्द्विदेवत्यान्भक्षयित्वेडामुप ह्वयते प्राणानेवाऽऽत्मन्धित्वा पशूनुप ह्वयते’ (सं. का. ६ प्र. ४ अ. ९) इति।

द्विदेवत्यशेषभक्षणेभ्यः प्रागिडायाः पशुरूपाया उपाह्वाने प्राणानां व्यवहितत्वाद्यजमानो म्रियेत, पश्चादाह्वाने तु नायं दोषोऽस्ति।

भक्षणे विशेषं विधत्ते –

‘वाग्वा ऐन्द्रवायवश्चक्षुर्मैत्रवरुणः श्रोत्रमाश्विनः पुरस्तादैन्द्रवायवं भक्षयति तस्मात्पुरस्ताद्वाचा वदति पुरस्तान्मैत्रावरुणं तस्मात्पुरस्ताच्चक्षुषा पश्यति सर्वतः परिहारमाश्विनं तस्मात्सर्वतः श्रोत्रेण शृत्रेण शृणोति’ (सं. का. ६ प्र. ४ अ. ९) इति।

पुरस्तादग्रतो यथागृहीतमेवेत्यर्थः। सर्वतः परिहारं शिरः प्रदक्षिणीकृत्येत्यर्थः।

पात्राणां सादने पुरोडाशशकलादिसहितत्वं विधत्ते–

‘प्राणा वा एते यद्द्विदेवत्या अरिक्तानि पात्राणि सादयति तस्मादरिक्ता अन्तरतः प्राणा यतः खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञ रक्षास्यव चरन्ति यदरिक्तानि पात्राणि सादयति क्रियमाणमेव तद्यज्ञस्य शये रक्षसामनन्वयचाराय’ (सं. का. ६ प्र. ४ अ. ९) इति।

सादनस्थानं विधत्ते–

‘दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्या सादयति वाच्येव वाचं दधाति’ (सं. का. ६ प्र. ४ अ. ९) इति।

उत्तरस्य चक्रस्य मार्गे सादयेत्। वर्त्मरूपायां वाच्येव ग्रहरूपां वाचं स्थापयति।

सादितानां ग्रहाणामवस्थानावधिं विधत्ते–

‘आ तृतीयसवनात्परि शेरे यज्ञस्य संतत्यै’ (सं. का. ६ प्र. ४ अ. ९) इति। शेरे वसन्तीत्यर्थः।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यज्ञस्येत्यादि ॥ गतम् । छेदहेतुर्मृग्यः, पुराणप्रसिद्धो वा । अत्राग्निष्टोमेऽपि नावावयोः । गृह्यतामिति । ग्रह एव गृह्यतां वा । ततस्ताभ्यामाश्विनमगृह्णन् । तौ यज्ञस्य शिरः प्रत्यधत्ताम् । तस्मादाश्विनग्रहणं यज्ञस्य निष्कृत्यै रूपसंपत्त्यै भवति ॥
2 तौ देवा इत्यादि ॥ अपूतौ अशुद्धो मनुष्यचरौ मनुष्येषु चरन्तौ मनुष्यकर्माणौ भिषजौ वैद्याविति सगर्हमिव तौ देवा अब्रुवन् । तस्माद्ब्राह्मणेन मेधार्हेण भेषजं न कर्तव्यम् । भिषग्वृत्तिर्हि ब्राह्मणोऽपूतो भवति तत एवामेध्यश्च भवति । तस्मादमेध्यो मा भूवमिति ब्राह्मणो भेषजकारी न स्यात् । तावित्यादि । बहिष्पवमानस्तोत्रमश्विनोः पूतत्वाय भवति । तस्मादद्यत्वेऽपि बहिष्पवमानस्तुत्युत्तरकालमाश्विनो गृह्यते । तस्मादेवं बहिष्पवमानस्य महिमानं विदुषा जानता बहिष्पवमान उपसद्यः उपसदनीयः उपास्यः, तेनात्मानं पूतं करोति ॥
3 तयोरित्यादि ॥ अग्न्यादिनिमित्तकं भैषज्यं त्रिधा त्रिप्रकारं तयोः विन्यदधुः विविधं निहितवन्तः अग्न्यादित्रयनिमित्तास्त्रयो भागाः भैषज्यस्य । 'पूरणाद्भागेतीयादन्' इति अन्प्रत्ययस्स्वार्थिकः । तस्मादित्यादि । गतम् । अग्निं चोपसमिन्धेदिति केचित् । ब्राह्मणेनोभयसंग्रहणेन पृथगग्निग्रहणे नार्थ इत्यन्ये । यावत् यत्प्रकारं अश्विनोर्देवैः कृतं त्रिप्रकारं तेन सर्वेणापि भेषजेन भैषज्यमस्य कृतं भवति । ततश्च कृतं भैषज्यं समर्धुकं समृद्धिशीलं भवति । छान्दस उकञ् ॥
4 ब्रह्मवादिन इत्यादि ॥ द्विदेवत्या ऐन्द्रवायवाद्याः, द्विपात्राः प्रतिनिग्राह्यसहिताः । द्वौद्वाविति । चक्षुरादयः प्राणापानाः बहिर्द्वौ द्वौ । बहिष्टश्छान्दसोस्तातिः, अकारलोपश्च । प्राणा वा इत्यादि । गतम् । द्विदेवत्येभ्य इति । द्विदेवत्यहविर्भक्षणात्पूर्वं पुराडोशस्विष्टकृदनन्तरमेव यद्युपह्वयेत तदा पशुवधोपघाते प्राणरूपाणां द्विदेवत्यानामसन्निहितत्वात् पशुभिरन्तर्हितान् विच्छिन्नात् प्राणान्कुर्यात् । ततश्च पशूनां प्राणानां च असंबन्धात् प्रमायुकस्स्याद्यजमानः । तस्माद्द्विदेवत्यभक्षणेन आत्मनि प्राणान् स्थापयित्वा इडोपह्वाने पशवः प्राणसंबद्धा भवन्ति ॥
5 वाग्वा इत्यादि ॥ पुरस्तादग्रतः यथागृहीतमेव ऐन्द्रवायवं भक्षयति न परिहृत्य । तस्मात्पुरस्तादेव वाचा वदति अग्रत एवोच्चरितवाग्भवति । मैत्रावरुणं च पुरस्तात् यथागृहीतमेव भक्षयति तस्मात्पुरस्तादग्रत एव चक्षुषा पश्यति । आश्विनं तु सर्वतः परिहारं शिरः परितो भ्रमयित्वा भक्षयति । तस्मात्सर्वतः सर्वासु दिक्षु स्थितं श्रोत्रेण शृणोति नाग्रतस्स्थितमेव । प्राणा वा इत्यादि । अरिक्तानि असोमशून्यानि द्विदेवत्यानि सादयति पुरोडाशमग्निं वा । अरिक्ताः प्राणाः अन्तरत आर्द्रा भवन्ति ॥
6 यतः खल्वित्यादि ॥ रिक्तत्वे यज्ञस्य विच्छेदात् रक्षांस्यवचरेयुः अनुप्रविश्य बाध्येरन् । अरिक्तत्वे तु क्रियमाणमेव यज्ञस्य शये शेते अवतिष्ठते । 'लोपस्त आत्मनेपदेषु' इति तलोपः । ततश्छिद्राभावात् रक्षसामननुप्रवेशः ॥
7 दक्षिणस्येत्यादि ॥ वर्तनी मार्गः । तत्र सादयति । द्विदेवत्यत्वाद्वाच्येव वाङ्निहिता भवति । ऐन्द्रवायवस्य वाक्त्वादेवमुक्तम्, उपलक्षणत्वाच्चक्षुरादिनिधानस्य । आतृतीयसवनाद्यावत्तृतीयसवनसमाप्ति परिशेरे तत्रैव शेरते । पूर्ववत्तलोपः । यज्ञस्याविच्छेदाय भवति ॥
इति षष्ठे चतुर्थे नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.4.9.2 TS 6.4.9.2
भि॒षजा॒विति॒ तस्मा᳚द् ब्राह्म॒णेन॑ भेष॒जं न का॒र्य॑मपू॑तो॒ ह्ये᳚(1॒)षो॑ ऽमे॒द्ध्यो यो भि॒षक्तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा ताभ्या॑-मे॒तमा᳚श्वि॒न-म॑गृह्ण॒न् तस्मा᳚द् बहिष्पवमा॒ने स्तु॒त आ᳚श्वि॒नो गृ॑ह्यते॒ तस्मा॑दे॒वं ॅवि॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ प॒वित्रं॒ ॅवै ब॑हिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते॒ तयो᳚ऽस्त्रे॒धा भैष॑ज्यं॒ ॅवि न्य॑दधुर॒ग्नौ तृती॑यम॒फ्सु तृती॑यं ब्राह्म॒णे तृती॑यं॒ तस्मा॑दुदपा॒त्र- [ ]
पदपाठः (Word-by-word)
भि॒षजौ᳚ । इति॑ । तस्मा᳚त् । ब्रा॒ह्म॒णेन॑ । भे॒ष॒जम् । न । का॒र्य᳚म् । अपू॑तः । हि । ए॒षः । अ॒मे॒द्ध्यः । यः । भि॒षक् । तौ । ब॒हि॒ष्प॒व॒मा॒नेनेति॑ बहिः - प॒व॒मा॒नेन॑ । प॒व॒यि॒त्वा । ताभ्या᳚म् । ए॒तम् । आ॒श्वि॒नम् । अ॒गृ॒ह्ण॒न्न् । तस्मा᳚त् । ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः-प॒व॒मा॒ने । स्तु॒ते । आ॒श्वि॒नः । गृ॒ह्य॒ते॒ । तस्मा᳚त् । ए॒वम् । वि॒दुषा᳚ । ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः - प॒व॒मा॒नः । उ॒प॒सद्य॒ इत्यु॑प - सद्यः॑ । प॒वित्र᳚म् । वै । ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः - प॒व॒मा॒नः । आ॒त्मान᳚म् । ए॒व । प॒व॒य॒ते॒ । तयोः᳚ । त्रे॒धा । भैष॑ज्यम् । वि । नीति॑ । अ॒द॒धुः॒ । अ॒ग्नौ । तृती॑यम् । अ॒फ्स्वित्य॑प्-सु । तृती॑यम् । ब्रा॒ह्म॒णे । तृती॑यम् । तस्मा᳚त् । उ॒द॒पा॒त्रमित्यु॑द - पा॒त्रम् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.4.9.3 TS 6.4.9.3
-मु॑पनि॒धाय॑ ब्राह्म॒णं द॑क्षिण॒तो नि॒षाद्य॑ भेष॒जं कु॑र्या॒द् याव॑दे॒व भे॑ष॒जं तेन॑ करोति स॒मर्द्धु॑कमस्य कृ॒तं भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते᳚ द्वि॒पात्रा॑ हूयन्त॒ इति॒ यदेक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒देको᳚ऽन्तर॒तः प्रा॒णो द्वि॒पात्रा॑ हूयन्ते॒ तस्मा॒द् द्वौद्वौ॑ ब॒हिष्टा᳚त् प्रा॒णाः प्रा॒णा वा ए॒ते यद् द्वि॑देव॒त्याः᳚ प॒शव॒ इडा॒ यदिडां॒ पूर्वां᳚ द्विदेव॒त्ये᳚भ्य उप॒ह्वये॑त- [ ]
पदपाठः (Word-by-word)
उ॒प॒नि॒धायेत्यु॑प - नि॒धाय॑ । ब्रा॒ह्म॒णम् । द॒क्षि॒ण॒तः । नि॒षाद्येति॑ नि - साद्य॑ । भे॒ष॒जम् । कु॒र्या॒त् । याव॑त् । ए॒व । भे॒ष॒जम् । तेन॑ । क॒रो॒ति॒ । स॒मद्‌र्धु॑क॒मिति॑ सं - अद्‌र्धु॑कम् । अ॒स्य॒ । कृ॒तम् । भ॒व॒ति॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । कस्मा᳚त् । स॒त्यात् । एक॑पात्रा॒ इत्येक॑ - पा॒त्राः॒ । द्वि॒दे॒व॒त्या॑ इति॑ द्वि-दे॒व॒त्याः᳚ । गृ॒ह्यन्ते᳚ । द्वि॒पात्रा॒ इति॑ द्वि - पात्राः᳚ । हू॒य॒न्ते॒ । इति॑ । यत् । एक॑पात्रा॒ इत्येक॑ - पा॒त्राः॒ । गृ॒ह्यन्ते᳚ । तस्मा᳚त् । एकः॑ । अ॒न्त॒र॒तः । प्रा॒ण इति॑ प्र - अ॒नः । द्वि॒पात्रा॒ इति॑ द्वि - पात्राः᳚ । हू॒य॒न्ते॒ । तस्मा᳚त् । द्वौद्वा॒विति॒ द्वौ - द्वौ॒ । ब॒हिष्टा᳚त् । प्रा॒णा इति॑ प्र - अ॒नाः । प्रा॒णा इति॑ प्र - अ॒नाः । वै । ए॒ते । यत् । द्वि॒दे॒व॒त्या॑ इति॑ द्वि - दे॒व॒त्याः᳚ । प॒शवः॑ । इडा᳚ । यत् । इडा᳚म् । पूर्वा᳚म् । द्वि॒दे॒व॒त्ये᳚भ्य॒ इति॑ द्वि - दे॒व॒त्ये᳚भ्यः । उ॒प॒ह्वये॒तेत्यु॑प - ह्वये॑त ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.4.9.4 TS 6.4.9.4
प॒शुभिः॑ प्रा॒णान॒न्तर्द॑धीत प्र॒मायु॑कः स्याद् द्विदेव॒त्या᳚न् भक्षयि॒त्वेडा॒मुप॑ ह्वयते प्रा॒णाने॒वाऽऽ*त्मन् धि॒त्वा प॒शूनुप॑ ह्वयते॒ वाग्वा ऐ᳚न्द्रवाय॒वश्चक्षु॑-र्मैत्रावरु॒णः श्रोत्र॑माश्वि॒नः पु॒रस्ता॑दैन्द्रवाय॒वं भ॑क्षयति॒ तस्मा᳚त् पु॒रस्ता᳚द् वा॒चा व॑दति पु॒रस्ता᳚न्मैत्रावरु॒णं तस्मा᳚त् पु॒रस्ता॒च्चक्षु॑षा पश्यति स॒र्वतः॑ परि॒हार॑माश्वि॒नं तस्मा᳚थ् स॒र्वतः॒ श्रोत्रे॑ण शृणोति प्रा॒णा वा ए॒ते यद् द्वि॑देव॒त्या॑- [ ]
पदपाठः (Word-by-word)
प॒शुभि॒रिति॑ प॒शु - भिः॒ । प्रा॒णानिति॑ प्र-अ॒नान् । अ॒न्तः । द॒धी॒त॒ । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । स्या॒त् । द्वि॒दे॒व॒त्या॑निति॑ द्वि-दे॒व॒त्यान्॑ । भ॒क्ष॒यि॒त्वा । इडा᳚म् । उपेति॑ । ह्व॒य॒ते॒ । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । आ॒त्मन्न् । धि॒त्वा । प॒शून् । उपेति॑ । ह्व॒य॒ते॒ । वाक् । वै । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र-वा॒य॒वः । चक्षुः॑ । मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा-व॒रु॒णः । श्रोत्र᳚म् । आ॒श्वि॒नः । पु॒रस्ता᳚त् । ऐ॒न्द्र॒वा॒य॒वमित्यै᳚न्द्र - वा॒य॒वम् । भ॒क्ष॒य॒ति॒ । तस्मा᳚त् । पु॒रस्ता᳚त् । वा॒चा । व॒द॒ति॒ । पु॒रस्ता᳚त् । मै॒त्रा॒व॒रु॒णमिति॑ मैत्रा - व॒रु॒णम् । तस्मा᳚त् । पु॒रस्ता᳚त् । चक्षु॑षा । प॒श्य॒ति॒ । स॒र्वतः॑ । प॒रि॒हार॒मिति॑ परि-हार᳚म् । आ॒श्वि॒नम् । तस्मा᳚त् । स॒र्वतः॑ । श्रोत्रे॑ण । शृ॒णो॒ति॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । ए॒ते । यत् । द्वि॒दे॒व॒त्या॑ इति॑ द्वि - दे॒व॒त्याः᳚ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.4.9.5 TS 6.4.9.5
अरि॑क्तानि॒ पात्रा॑णि सादयति॒ तस्मा॒दरि॑क्ता अन्तर॒तः प्रा॒णा यतः॒ खलु॒ वै य॒ज्ञ्स्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञ्ꣳ रक्षाꣳ॒॒स्यव॑ चरन्ति॒ यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णमे॒व तद् य॒ज्ञ्स्य॑ शये॒ रक्ष॑सा॒ -मन॑न्ववचाराय॒ दक्षि॑णस्य हवि॒र्द्धान॒स्योत्त॑रस्यां ॅवर्त॒न्याꣳ सा॑दयति वा॒च्ये॑व वाचं॑ दधा॒त्या तृ॑तीयसव॒नात् परि॑ शेरे य॒ज्ञ्स्य॒ सन्त॑त्यै ॥
पदपाठः (Word-by-word)
अरि॑क्तानि । पात्रा॑णि । सा॒द॒य॒ति॒ । तस्मा᳚त् । अरि॑क्ताः । अ॒न्त॒र॒तः । प्रा॒णा इति॑ प्र - अ॒नाः । यतः॑ । खलु॑ । वै । य॒ज्ञ्स्य॑ । वित॑त॒स्येति॒ वि - त॒त॒स्य॒ । न । क्रि॒यते᳚ । तत् । अन्विति॑ । य॒ज्ञ्म् । रक्षाꣳ॑सि । अवेति॑ । च॒र॒न्ति॒ । यत् । अरि॑क्तानि । पात्रा॑णि । सा॒दय॑ति । क्रि॒यमा॑णम् । ए॒व । तत् । य॒ज्ञ्स्य॑ । श॒ये॒ । रक्ष॑साम् । अन॑न्ववचारा॒येत्यन॑नु - अ॒व॒चा॒रा॒य॒ । दक्षि॑णस्य । ह॒वि॒द्‌र्धान॒स्येति॑ हविः - धान॑स्य । उत्त॑रस्या॒मित्युत् - त॒र॒स्या॒म् । व॒र्त॒न्याम् । सा॒द॒य॒ति॒ । वा॒चि । ए॒व । वाच᳚म् । द॒धा॒ति॒ । एति॑ । तृ॒ती॒य॒स॒व॒नादिति॑ तृतीय - स॒व॒नात् । परीति॑ । शे॒रे॒ । य॒ज्ञ्स्य॑ । सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ॥
पदसंख्या: 46