पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
मन्त्रानुपेक्ष्य ग्रहौ विधत्ते –
‘बृहस्पतिर्देवानां पुरोहित आसीच्छण्डामर्कावसुराणां ब्रह्मण्वन्तो देवा आसन्ब्रह्मण्वन्तोऽसुरास्तेऽन्योन्यं नाशक्नुवन्नभिभवितुं ते देवाः शण्डामर्कावुपामन्त्रयन्त तावब्रूतां वरं वृणावहै ग्रहावेव नावत्रपि गृह्येतामिति ताभ्यमेतौ शुक्रामन्थिनावगृह्णन्तो देवा अभवन्पराऽसुरा यस्यैवं विदुषः शुक्रामन्थिनौ गृह्येते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ४ अ. १०) इति। ब्रह्मण्वन्तः पुरोहितानुष्ठितमन्त्रसामर्थ्योपेताः। उपामन्त्रयन्त रहस्युपच्छन्दितवन्तः। यद्यप्यन्यत्र शण्डामर्कयोरवयोर्यज्ञभागो नास्ति तथाऽप्यत्राप्यग्निष्टोमे सोऽस्तु। तत्रापि ग्रहावेव व तु लेपादिः अत्र गृह्येतामित्येतावदेव शण्डामर्काभ्यां वृतं न तु हूयेतामिति। ततो देवा ग्रहणमात्रेण स्वकार्यं साधितवन्तः।
यथार्थवादेन ग्रहयोरधस्ताल्लग्नानां पांसूनामपध्वंसनं विधातुं विधिमुन्नयति —
‘तौ देवा अपनुद्याऽऽत्मान इन्द्रायाजुहवुरपनुत्तौ शण्डामर्कौ सहामुनेति ब्रूयाद्यं द्विष्याद्यमेव द्वेष्टि तेनैनौ सहाप नुदते’ (सं. का. ६ प्र. ४ अ. १०) इति।
देवा: स्वकार्यसिद्धेरूर्ध्वं तौ शण्डामर्कावपसार्य स्वकीयायेन्द्राय तौ शुक्रामन्थिग्रहावजुहवुः। तस्मद्ग्रहयोरधोलग्नां धूलिमपध्वंसयन्नन्यत्र समाम्नातमपनुत्ताविति मन्त्रं ब्रूयात्। अमुनेत्यत्र द्वेष्यस्य द्वेष्टुश्च नाम ध्यायेत्।
अन्यत्राऽऽम्नातेन मन्त्रेण ग्रहहोमस्य विधिमर्थवादेनोन्नयति —
‘स प्रथमः संकृतिर्विश्वकर्मेत्येवैनावात्मन इन्द्रायाजुहवुरिन्द्रो ह्येतानि रूपाणि करिक्रदचरत्’ (सं. का. ६ प्र. ४ अ. १०) इति।
मन्त्रपाठस्तुः –
‘स प्रथमः संकृतिर्विश्वकर्मा। स प्रथमो मित्रो वरुणो अग्निः। स प्रथमो बृहस्पतिश्चिकित्वान्। तस्मा इन्द्राय सुतमा जुहोमि’ इति।
स इन्द्र प्रथमो देवानां मुख्यः सर्वाधिपतित्वात्। समीचीना कृतिर्निर्माणं यस्यासौ संकृतिः। तादृशो विश्वकर्मनामको देवोऽपि स इन्द्र एव। मित्रो वरुणोऽग्निः स एव। चिकित्वानभिज्ञो बृहस्पतिरपि स एव। तादृशायेन्द्रायाभिषुतं सोमं सर्वतो जुहोमि। यस्मादिन्द्र एतानि विश्वकर्मत्वादीनि रूपाणि करिक्रदत्यर्थं कुर्वञ्जगदचरत्तस्मात्तत्प्रतिपादकेनानेनैव मन्त्रेण होमो युज्यते।
होमात्पुरा ग्रहावादायाऽऽच्छाद्याध्वर्युप्रतिप्रस्थातारौ प्राङ्मुखौ निर्गच्छेतामिति विधत्ते —
‘असौ वा आदित्यः शुक्रश्चन्द्रमा मन्थ्यपिगृह्य प्राञ्चौ निष्क्रामतस्तस्मात्प्राञ्चौ यन्तौ न पश्यन्ति’ (सं. का. ६ प्र. ४ अ. १०) इति।
पश्चिमदिश्यस्तं गत्वा पुनरुदयाय प्रङ्मुखतया गच्छन्तौ सूर्याचन्द्रमसौ द्रष्टुं केऽपि न शक्नुवन्ति। तस्माद्ग्रहयोराच्छादनं युक्तम्।
होमाय प्रत्यङ्मुखत्वं विधत्ते–
‘प्रत्यञ्चावावृत्य जुहुतस्तस्मात्प्रत्यञ्चौ यन्तौ पश्यन्ति’ (सं. का. ६ प्र. ४ अ. १०) इति।
उदयादूर्ध्वं प्रत्यङ्मुखतया गच्छन्तौ सूर्याचन्द्रमसौ सर्वे पश्यन्ति। अतो ग्रह-योराच्छादनमपनीय प्रत्यङ्मुखत्वेनाऽऽवृत्तिर्होमार्था युक्ता।
उत्तरवेदेरभितः परिक्रमणं विधत्ते —
‘चक्षुषी वा एते यज्ञस्य यच्छुक्रामन्थिनौ नासिकोत्तरवेदिरभितः परिक्रम्य जुहुतस्तस्मादभितो नासिकां चक्षुषी तस्मान्नासिकया चक्षुषी विधृते सर्वतः परि क्रामतो रक्षसामपहत्यै’ (सं. का. ६ प्र. ४ अ. १०) इति।
अत्र चसहोमे प्राङ्मुखत्वं ग्रहहोमे प्रत्यङमुखत्वं च विधत्ते —
‘देवा वै याः प्राचीराहुतीरजुहवुर्ये पुरस्तादसुरा आसन्तस्ताभिः प्राणुदन्त याः प्रतीचीर्ये पश्चादसुरा आसन्तास्ताभिरपानुदन्त प्राचीरन्या आहुतयो हूयन्ते प्रत्यञ्चौ शुक्रामन्थिनौ पश्चाच्चैव पुरस्ताच्च यजमानो भ्रतृव्यान्प्र णुदते तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते’ (सं. का. ६ प्र. ४ अ. १०) इति।
सूत्रकारेणोदाहृतौ परिक्रमणमन्त्रौ प्रदेशान्तर आम्नाताविह व्याचष्टे —
‘शुक्रामन्थिनौ वा अनु प्रजाः प्र जायन्तेऽत्रीश्चाऽऽद्याश्च सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषा सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशौचिषेत्याहैता वै सुवीरा या अत्रीरेताः सुप्रजा या आद्याः’ (सं. का. ६ प्र. ४ अ. १०) इति।
अत्रीर्भोक्त्र्य उत्तमजातयो ब्राह्मणादय आद्या भोग्या नीचजातयो भृत्यकर्मकरादयः। मन्त्रार्थस्तु — शोभना वीरा उत्तमा यासां ताः सुवीराः। शोभनाः सेवाकुशलाः प्रजाः पुत्रादयो यासां ताः सुप्रजाः। हे शुक्रग्रह त्वं यजमानस्य शोभनभोक्तृयुक्ताः प्रजा उत्पादयन्नुत्तरवेदेर्दक्षिणतः परीहि। शुक्रग्रहस्त्वं शुक्रदेवतासंबन्धिना तेजसा रक्षसामपघातं कुर्विति शेषः। हे मन्थिग्रह त्वं यजमानस्य शोभनसेवकरूपाः प्रजा उत्पादयन्नुत्तरवेदेरुत्तरतः परीहि। मन्थिग्रहस्त्वं मन्थिदेवतासंबन्धिना तेजसा रक्षांस्यपजहि। एता वै सुवीरा इत्यादिकं मन्त्रव्याख्यानम्।
वेदनं प्रशंसति —
“य एवं वेदात्र्यस्य प्रजा जायते नाऽऽद्या” (सं. का. ६ प्र. ४ अ. १०) इति।
मन्थिपात्रस्य विकङ्कतवृक्षत्वं सक्तुमेलनं च विधत्ते —
“प्रजापतेरक्ष्यश्वयत्तत्पराऽपतत्तद्विकङ्कतं प्राविशत्तद्विङ्कते नारमत तद्यवं प्राविशत्तद्यवेऽरमत तद्यवस्य यवत्वं यद्वैकङ्कतं मन्थिपात्रं भवति सक्तुभिः श्रीणाति प्रजापतेरेव तच्चक्षुः सं भरति” (सं. का. ६ प्र. ४ अ. १०) इति। सक्तवो यवपिष्टानि।
आहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्तीति वचनादितरपात्रवन्मन्थिपात्रस्यापि सदःप्रवेशः प्राप्नोति तन्निषेधं
प्रश्नोत्तराभ्यामुन्नयति —
“ब्रह्मवादिनो वदन्ति कस्मात्सत्यान्मन्थिपात्र सदो नाश्नुत इत्यार्तपात्र हीति ब्रूयाद्यदश्नुवीतान्धोऽध्वर्युः स्यादार्तिमार्च्छेत्तस्मान्नश्नुते” (सं. का. ६ प्र. ४ अ. १०) इति। आर्तपात्रं रोगयुक्तचक्षुःस्वरूपमिदं पात्रम्।