TB 2.4.1

11 पञ्चाशत्

2.4.1 अनुवाकं 1 - उपहोमाः

2.4.1.1
जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒णे । इ॒मं नो॑ य॒ज्ञ्मुप॑ याहि वि॒द्वान् । विश्वा॑ अग्नेऽभि॒ युजो॑ वि॒हत्य॑ । श॒त्रू॒य॒तामाभ॑रा॒ भोज॑नानि ॥ अग्ने॒ शर्द्ध॑ मह॒ते सौभ॑गाय । तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सं जा᳚स्प॒त्यꣳ सु॒यम॒मा कृ॑णुष्व । श॒त्रू॒य॒ताम॒भिति॑ष्ठा॒ महाꣳ॑सि ॥ अग्ने॒ यो नो॒ऽभितो॒ जनः॑ । वृको॒ वारो॒ जिघाꣳ॑सति
कोर्वै (Index)
(जिघाꣳ॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अꣳह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एकं॑ च )
2.4.1.2
ताꣳस्त्वं ॅवृ॑त्रहञ्जहि । वस्व॒स्मभ्य॒-माभ॑र ॥ अग्ने॒ यो नो॑ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒द्ध्मस्ये॑व प्र॒क्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न ॥ त्वमि॑न्द्राभि॒भूर॑सि । दे॒वो विज्ञा॑तवीर्यः । वृ॒त्र॒हा पु॑रु॒चेत॑नः ॥ अप॒ प्राच॑ इन्द्र॒ विश्वाꣳ॑ अ॒मित्रान्॑
कोर्वै (Index)
(जिघाꣳ॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अꣳह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एकं॑ च )
2.4.1.3
अपापा॑चो अभिभूते नुदस्व । अपोदी॑चो॒ अप॑ शूरध॒राच॑ ऊ॒रौ । यथा॒ तव॒ शर्म॒न्मदे॑म ॥ तमिन्द्रं॑ ॅवाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् ॥ यु॒जे रथं॑ ग॒वेष॑णꣳ॒॒ हरि॑भ्याम् । उप॒ ब्रह्मा॑णि जुजुषा॒ण-म॑स्थुः । विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा । इन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ।
कोर्वै (Index)
(जिघाꣳ॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अꣳह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एकं॑ च )
2.4.1.4
ह॒व्य॒वाह॑-मभिमाति॒षाऽह᳚म् । र॒क्षो॒हणं॒ पृत॑नासु जि॒ष्णुम् । ज्योति॑ष्मन्तं॒ दीद्य॑तं॒ पुर॑न्धिम् । अ॒ग्निꣳ स्वि॑ष्ट॒कृत॒मा हु॑वेम ॥ स्वि॑ष्टमग्ने अ॒भि तत् पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भिष्य । उ॒रुं नः॒ पन्थां᳚ प्रदि॒शन्वि भा॑हि । ज्योति॑ष्मद्धेह्य॒जरं॑ न॒ आयुः॑ ॥ त्वाम॑ग्ने ह॒विष्म॑न्तः । दे॒वं मर्ता॑स ईडते
कोर्वै (Index)
(जिघाꣳ॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अꣳह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एकं॑ च )
2.4.1.5
मन्ये᳚ त्वा जा॒तवे॑दसम् । स ह॒व्या व॑क्ष्याऽनु॒षक् ॥ विश्वा॑नि नो दु॒र्गहा॑ जातवेदः । सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑पर्.षि । अग्ने॑ अत्रि॒वन् मन॑सा गृणा॒नः । अ॒स्माकं॑ बोद्ध्यवि॒ता त॒नूना᳚म् ॥ पू॒षा गा अन्वे॑तु नः । पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाजꣳ॑ सनोतु नः ॥ पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः᳚
कोर्वै (Index)
(जिघाꣳ॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अꣳह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एकं॑ च )
2.4.1.6
सो अ॒स्माꣳ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णिः॒ सर्व॑वीरः । अप्र॑युच्छन् पु॒र ए॑तु॒ प्रजा॒नन्न् ॥ त्वम॑ग्ने स॒प्रथा॑ असि । जुष्टो॒ होता॒ वरे᳚ण्यः । त्वया॑ य॒ज्ञ्ं ॅवित॑न्वते ॥ अ॒ग्नी रक्षाꣳ॑सि सेधति । शु॒क्रशो॑चि॒रम॑र्त्यः । शुचिः॑ पाव॒क ईड्यः॑ ॥ अग्ने॒ रक्षा॑णो॒ अꣳह॑सः
कोर्वै (Index)
(जिघाꣳ॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अꣳह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एकं॑ च )
2.4.1.7
प्रति॑ष्म देव॒ रीष॑तः । तपि॑ष्ठैर॒जरो॑ दह ॥ अग्ने॒ हꣳसि॒ न्य॑त्रिण᳚म् । दीद्य॒न् मर्त्ये॒ष्वा । स्वे क्षये॑ शुचिव्रत ॥ आ वा॑त वाहि भेष॒जम् । वि वा॑त वाहि॒ यद्रपः॑ । त्वꣳहि वि॒श्व भे॑षजः । दे॒वानां᳚ दू॒त ईय॑से ॥ द्वावि॒मौ वाता॑ वातः
कोर्वै (Index)
(जिघाꣳ॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अꣳह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एकं॑ च )
2.4.1.8
आ सिन्धो॒रा प॑रा॒वतः॑ । दक्षं॑ मे अ॒न्य आ॒वातु॑ । परा॒ऽन्यो वा॑तु॒ यद्रपः॑ ॥ यद॒दो वा॑त ते गृ॒हे । अ॒मृत॑स्य नि॒धिर्.हि॒तः । ततो॑ नो देहि जी॒वसे᳚ । ततो॑ नो धेहि भेष॒जम् । ततो॑ नो॒ मह॒ आव॑ह ॥ वात॒ आवा॑तु भेष॒जम् । श॒म्भूर् म॑यो॒ भूर्नो॑ हृ॒दे
कोर्वै (Index)
(जिघाꣳ॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अꣳह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एकं॑ च )
2.4.1.9
प्रण॒ आयूꣳ॑षि तारिषत् ॥ त्वम॑ग्ने अ॒याऽसि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सन्.ह॒व्यमू॑हिषे । अ॒या नो॑ धेहि भेष॒जम् ॥ इ॒ष्टो अ॒ग्निराहु॑तः । स्वाहा॑कृतः पिपर्तु नः । स्व॒गा दे॒वेभ्य॑ इ॒दं नमः॑ ॥ कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ विरा॑जति
कोर्वै (Index)
(जिघाꣳ॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अꣳह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एकं॑ च )
2.4.1.10
स इ॒दं प्रति॑ पप्रथे । ऋ॒तूनुथ् सृ॑जते व॒शी ॥ काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं ॅयदासी᳚त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥ त्वया॑ मन्यो स॒रथ॑-मारु॒जन्तः॑ । हर्.ष॑माणासो धृष॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा सꣳ॒॒शिशा॑नाः । उप॒प्रय॑न्ति॒ नरो॑ अ॒ग्निरू॑पाः ।
कोर्वै (Index)
(जिघाꣳ॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अꣳह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एकं॑ च )
2.4.1.11
म॒न्युर्भगो॑ म॒न्युरे॒वास॑ दे॒वः । म॒न्युर्. होता॒ वरु॑णो वि॒श्ववे॑दाः । म॒न्युं ॅविश॑ ईडते देव॒यन्तीः᳚ । पा॒हि नो॑ मन्यो॒ तप॑सा॒ श्रमे॑ण ॥ त्वम॑ग्ने व्रत॒भृच्छुचिः॑ । दे॒वाꣳ आसा॑दया इ॒ह । अग्ने॑ ह॒व्याय॒ वोढ॑वे ॥ व्र॒ता नु बिभ्र॑द्व्रत॒पा अदा᳚भ्यः । यजा॑ नो दे॒वाꣳ अ॒जरः॑ सु॒वीरः॑ । दध॒द्-रत्ना॑नि सुविदा॒नो अ॑ग्ने ( ) । गो॒पा॒य नो॑ जी॒वसे॑ जातवेदः ।
कोर्वै (Index)
(जिघाꣳ॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अꣳह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एकं॑ च )