वृषा॒ सो अꣳ॒॒शुः प॑वते ह॒विष्मा॒न्थ्-सोमः॑ । इन्द्र॑स्य भा॒ग ऋ॑त॒युः श॒तायुः॑ । स मा॒ वृषा॑णं ॅवृष॒भं कृ॑णोतु । प्रि॒यं ॅवि॒शाꣳ सर्व॑वीरꣳ सु॒वीर᳚म् ॥ कस्य॒ वृषा॑ सु॒ते सचा᳚ । नि॒युत्वा᳚न् वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये ॥ यस्ते॑ शृङ्ग वृषो नपात् । प्रण॑पात् कुण्ड॒पाय्यः॑ । न्य॑स्मिन्दद्ध्र॒ आ मनः॑ ।
कोर्वै (Index)
(मन॒ - इन्द्रो॒ - गावि॑ष्टिषु॒ - तन्तुं॒ - गर्भꣳ॒॒ - सुजा॑ताः॒ - सखा॑ स॒प्त च॑)