उ॒त नः॑ प्रि॒या प्रि॒यासु॑ । स॒प्तस्वसा॒ सुजु॑ष्टा । सर॑स्वती॒ स्तोम्या॑ ऽभूत् ॥ इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भिः । प्रति॒ स्तोमꣳ॑ सरस्वति जुषस्व । तव॒ शर्म॑न् प्रि॒यत॑मे॒ दधा॑नाः । उप॑स्थेयाम शर॒णं न वृ॒क्षम् ॥ त्रीणि॑ प॒दा विच॑क्रमे । विष्णु॑र्गो॒पा अदा᳚भ्यः । ततो॒ धर्मा॑णि धा॒रयन्न्॑ ।
कोर्वै (Index)
(धा॒रय॑न् - पुरो॒डाशं॒ - बृह॒स्पतिं॑ - ज॒घन॑च्युति - मान॒न्दो - भग॑स्य तृप्या - ण्य॒ग्नेः - पृ॑थि॒वी - यज्व॑न - एतु - प्र॒दिश॒श्चत॑स्रो॒ - वाज॑सातौ च॒त्वारि॑ च)