जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितृ॒णाम् । अक्ष॑मव्ययं॒ न किला॑ रिषाथ । यच्छक्व॑रीषु बृह॒ता रवे॑ण । इन्द्रे॒ शुष्म॒मद॑धाथा वसिष्ठाः ॥ पा॒व॒का नः॒ सर॑स्वती । वाजे॑भिर्-वा॒जिनी॑वती । य॒ज्ञ्ं ॅव॑ष्टु धि॒या व॑सुः ॥ सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यः॑ । मा प॑स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् । जु॒षस्व॑ नः स॒ख्या॑ वे॒श्या॑ च
कोर्वै (Index)
(चा॒ - श्व॒जिद्यो-ग॑च्छतं नो॒ - दाश॒न् - नामा॑ - भि॒श्रीर् - ग॑मेम - स॒प्रथा॑ - भजामहे - विशन्तु - या॒ह्य॑र्वाङ् - च्छ॑ - पिबाथः॒ षट्च॑)