TB 2.4.7

11 पञ्चाशत्

2.4.7 अनुवाकं 7 - उपहोमाः

2.4.7.1
वृषा᳚ ऽस्यꣳ॒॒शुर्-वृ॑ष॒भाय॑ गृह्यसे । वृषा॒ऽयमु॒ग्रो नृ॒चक्ष॑से । दि॒व्यः क॑र्म॒ण्यो॑ हि॒तो बृ॒हन्नाम॑ । वृ॒ष॒भस्य॒ या क॒कुत् ॥ वि॒षू॒वान्. वि॑ष्णो भवतु । अ॒यं ॅयो मा॑म॒को वृषा᳚ । अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑ । विब्र॑वीतु॒ जने᳚भ्यः ॥ आयु॑ष्मन्तं॒ ॅवर्च॑स्वन्तम् । अथो॒ अधि॑पतिं ॅवि॒शाम्
कोर्वै (Index)
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भिर् - मि॒ता - न॑ श्च॒त्वारि॑ च)
2.4.7.2
अ॒स्याः पृ॑थि॒व्या अद्ध्य॑क्षम् । इ॒ममि॑न्द्र वृष॒भं कृ॑णु ॥ यः सु॒शृङ्गः॑ सुवृष॒भः । क॒ल्याणो॒ द्रोण॒ आहि॑तः । कार्.षी॑वलप्रगाणेन । वृ॒ष॒भेण॑ यजामहे ॥ वृ॒ष॒भेण॒ यज॑मानाः । अक्रू॑रेणेव स॒र्पिषा᳚ । मृध॑श्च॒ सर्वा॒ इन्द्रे॑ण । पृत॑नाश्च जयामसि ।
कोर्वै (Index)
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भिर् - मि॒ता - न॑ श्च॒त्वारि॑ च)
2.4.7.3
यस्या॒यमृ॑ष॒भो ह॒विः । इन्द्रा॑य परिणी॒यते᳚ । जया॑ति॒ शत्रु॑मा॒यन्त᳚म् । अथो॑ हन्ति पृतन्य॒तः ॥ नृ॒णामह॑ प्र॒णीरस॑त् । अग्र॑ उद्भिन्द॒ताम॑सत् ॥ इन्द्र॒ शुष्मं॑ त॒नुवा॒ मेर॑यस्व । नी॒चा विश्वा॑ अ॒भिति॑ष्ठा॒भिमा॑तीः । नि शृ॑णीह्याबा॒धं ॅयो नो॒ अस्ति॑ । उ॒रुं नो॑ लो॒कं कृ॑णुहि जीरदानो ।
कोर्वै (Index)
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भिर् - मि॒ता - न॑ श्च॒त्वारि॑ च)
2.4.7.4
प्रेह्य॒भिप्रेहि॒ प्रभ॑रा॒ सह॑स्व । मा विवे॑नो॒ वि शृ॑णुष्वा॒ जने॑षु । उदी॑डि॒तो वृ॑षभ॒ तिष्ठ॒ शुष्मैः᳚ । इन्द्र॒ शत्रू᳚न् पु॒रो अ॒स्माक॑ युद्ध्य ॥ अग्ने॒ जेता॒ त्वं ज॑य । शत्रू᳚न्थ् सहस॒ ओज॑सा । वि शत्रू॒न्॒. विमृधो॑ नुद ॥ ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रः॑ । रथं॒ न धीरः॒ स्वपा॑ अतक्षम् । यदीद॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्याः᳚
कोर्वै (Index)
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भिर् - मि॒ता - न॑ श्च॒त्वारि॑ च)
2.4.7.5
सुव॑र्वतीर॒प ए॑ना जयेम ॥ यो घृ॒तेना॒भिमा॑नितः । इन्द्र॒ जैत्रा॑य जज्ञिषे । स नः॒ संका॑सु पारय । पृ॒त॒ना॒साह्ये॑षु च ॥ इन्द्रो॑ जिगाय पृथि॒वीम् । अ॒न्तरि॑क्षꣳ॒॒ सुव॑र्म॒हत् । वृ॒त्र॒हा पु॑रु॒चेत॑नः ॥ इन्द्रो॑ जिगाय॒ सह॑सा॒ सहाꣳ॑सि । इन्द्रो॑ जिगाय॒ पृत॑नानि॒ विश्वा᳚
कोर्वै (Index)
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भिर् - मि॒ता - न॑ श्च॒त्वारि॑ च)
2.4.7.6
इन्द्रो॑ जा॒तो वि पुरो॑ रुरोज । स नः॑ पर॒स्पा वरि॑वः कृणोतु ॥ अ॒यं कृ॒त्नुरगृ॑भीतः । वि॒श्व॒जि-दु॒द्भिदिथ्-सोमः॑ । ऋषि॒र् विप्रः॒ काव्ये॑न ॥ वा॒युर॑ग्रे॒गा य॑ज्ञ्॒प्रीः । सा॒कं ग॒न्मन॑सा य॒ज्ञ्म् । शि॒वो नि॒युद्भिः॑ शि॒वाभिः॑ ॥ वायो॑ शु॒क्रो अ॑यामि ते । मद्ध्वो॒ अग्रं॒ दिवि॑ष्टिषु
कोर्वै (Index)
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भिर् - मि॒ता - न॑ श्च॒त्वारि॑ च)
2.4.7.7
आया॑ हि॒ सोम॑पीतये । स्वा॒रु॒हो दे॑व नि॒युत्व॑ता ॥ इ॒ममि॑न्द्र वर्द्धय क्ष॒त्रिया॑णाम् । अ॒यं ॅवि॒शां ॅवि॒श्पति॑रस्तु॒ राजा᳚ । अ॒स्मा इ॑न्द्र॒ महि॒ वर्चाꣳ॑सि धेहि । अ॒व॒र्चसं॑ कृणुहि॒ शत्रु॑मस्य ॥ इ॒ममाभ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॑ । निर॒मुं भ॑ज॒ यो॑ऽमित्रो॑ अस्य । वर्.ष्म॑न् क्ष॒त्रस्य॑ क॒कुभि॑ श्रयस्व । ततो॑ न उ॒ग्रो विभ॑जा॒ वसू॑नि ॥ 69(10)ट्.भ्.2.4.7.8अ॒स्मे द्या॑वापृथिवी॒ भूरि॑ वा॒मम् । सं दु॑हाथां घर्म॒दुघे॑व धे॒नुः । अ॒यꣳ राजा᳚ प्रि॒य इन्द्र॑स्य भूयात् । प्रि॒यो गवा॒मोष॑धीना-मु॒तापाम् ॥ यु॒नज्मि॑ त उत्त॒राव॑न्त॒-मिन्द्र᳚म् । येन॒ जया॑सि॒ न परा॒जया॑सै । स त्वा॑ ऽकरेकवृष॒भꣳ स्वाना᳚म् । अथो॑ राजन्नुत्त॒मं मा॑न॒वाना᳚म् ॥ उत्त॑र॒स्त्वमध॑रे ते स॒पत्नाः᳚ । एक॑वृषा॒ इन्द्र॑सखा जिगी॒वान्
कोर्वै (Index)
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भिर् - मि॒ता - न॑ श्च॒त्वारि॑ च)
कोर्वै (Index)
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भिर् - मि॒ता - न॑ श्च॒त्वारि॑ च)
2.4.7.9
विश्वा॒ आशाः॒ पृत॑नाः स॒जंय॒ञ्जयन्न्॑ । अ॒भिति॑ष्ठ शत्रूय॒तः स॑हस्व ॥ तुभ्यं॑ भरन्ति क्षि॒तयो॑ यविष्ठ । ब॒लिम॑ग्ने॒ अन्ति॑ त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि । बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ॥ यो दे॒ह्यो अन॑मयद्वध॒स्नैः । यो अर्य॑पत्नी-रु॒षस॑श्च॒कार॑ । स नि॒रुद्ध्या॒ नहु॑षो य॒ह्वो अ॒ग्निः । विश॑श्चक्रे बलि॒हृतः॒ सहो॑भिः ।
कोर्वै (Index)
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भिर् - मि॒ता - न॑ श्च॒त्वारि॑ च)
2.4.7.10
प्र स॒द्यो अ॑ग्ने॒ अत्य᳚ष्य॒न्यान् । आ॒विर्यस्मै॒ चारु॑तरो ब॒भूथ॑ । ई॒डेन्यो॑ वपु॒ष्यो॑ वि॒भावा᳚ । प्रि॒यो वि॒शामति॑थि॒र्-मानु॑षीणाम् ॥ ब्रह्म॑ ज्येष्ठा वी॒र्या॑ संभृ॑तानि । ब्रह्माग्रे॒ ज्येष्ठं॒ दिव॒मात॑तान । ऋ॒तस्य॒ ब्रह्म॑ प्रथ॒मोत ज॑ज्ञे । तेना॑र्.हति॒ ब्रह्म॑णा॒ स्पर्द्धि॑तुं॒ कः ॥ ब्रह्म॒ स्रुचो॑ घृ॒तव॑तीः । ब्रह्म॑णा॒ स्वर॑वो मि॒ताः
कोर्वै (Index)
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भिर् - मि॒ता - न॑ श्च॒त्वारि॑ च)
2.4.7.11
ब्रह्म॑ य॒ज्ञ्स्य॒ तन्त॑वः । ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑ ॥ शृङ्गा॑णी॒वेच्छृ॒ङ्गिणाꣳ॒॒ संद॑दृश्रिरे । च॒षाल॑वन्तः॒ स्वर॑वः पृथि॒व्याम् । ते दे॒वासः॒ स्वर॑वस्तस्थि॒वाꣳसः॑ । नमः॒ सखि॑भ्यः स॒न्नान्मा ऽव॑गात ॥ अ॒भि॒भूर॒ग्निर॑तर॒द्-रजाꣳ॑सि । स्पृधो॑ वि॒हत्य॒ पृत॑ना अभि॒श्रीः । जु॒षा॒णो म॒ आहु॑तिं मा महिष्ट । ह॒त्वा स॒पत्ना॒न्॒. वरि॑वस्करन्नः ( ) ॥ ईशा॑नं त्वा॒ भुव॑नाना-मभि॒श्रिय᳚म् । स्तौम्य॑ग्न उरु॒कृतꣳ॑ सु॒वीर᳚म् । ह॒विर् जु॑षा॒णः स॒पत्नाꣳ॑ अभि॒भूर॑सि । ज॒हि शत्रूꣳ॒॒रप॒ मृधो॑ नुदस्व ।
कोर्वै (Index)
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भिर् - मि॒ता - न॑ श्च॒त्वारि॑ च)