TB 2.5.1

3 पञ्चाशत्

2.5.1 अनुवाकं 1 - उपहोमाः

2.5.1.1
प्रा॒णो र॑क्षति॒ विश्व॒मेज॑त् । इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ । स इथ्सर्वं॒ ॅव्या॑नशे ॥ यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः । आवृ॑दू॒दात् क्षेत्रिय॑द्ध्व॒गद्वृषा᳚ । तमित् प्रा॒णं मन॒सो प॑शिक्षत । अग्रं॑ दे॒वाना॑-मि॒दम॑त्तु नो ह॒विः ॥ मन॑स॒श्चित्ते॒दम् । भू॒तं भव्यं॑ च गुप्यते । तद्धि दे॒वेष्व॑ग्रि॒यम् ।
कोर्वै (Index)
(अ॒ग्रि॒ - यमन॑पस्फुरन्ती - स॒त्यꣳ स॒प्त च॑)
2.5.1.2
आ न॑ एतु पुरश्च॒रम् । स॒ह दे॒वैरि॒मꣳ हव᳚म् । मनः॒ श्रेय॑सि श्रेयसि । कर्म॑न्. य॒ज्ञ्प॑तिं॒ दध॑त् ॥ जु॒षतां᳚ मे॒ वागि॒दꣳ ह॒विः । वि॒राड्दे॒वी पु॒रोहि॑ता । ह॒व्य॒वाडन॑ पायिनी ॥ यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति । पेशाꣳ॑सि दे॒वाः प॑र॒मे ज॒नित्रे᳚ । सानो॑ वि॒राडन॑पस्फुरन्ती
कोर्वै (Index)
(अ॒ग्रि॒ - यमन॑पस्फुरन्ती - स॒त्यꣳ स॒प्त च॑)
2.5.1.3
वाग्दे॒वी जु॑षतामि॒दꣳ ह॒विः ॥ चक्षु॑र् दे॒वानां॒ ज्योति॑र॒मृते॒ न्य॑क्तम् । अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते । तस्य॑ सु॒म्न-म॑शीमहि । मा नो॑ हासीद्-विचक्ष॒णम् ॥ आयु॒रिन्नः॒ प्रती᳚र्यताम् । अन॑न्धा॒-श्चक्षु॑षा व॒यम् । जी॒वा ज्योति॑रशीमहि । सुव॒र्ज्योति॑-रु॒तामृत᳚म् ॥ श्रोत्रे॑ण भ॒द्र मु॒त शृ॑ण्वन्ति स॒त्यम् ( ) । श्रोत्रे॑ण॒ वाचं॑ बहु॒धोद्य मा॑नाम् । श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते । श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आशृ॑णोमि ॥ येन॒ प्राच्या॑ उ॒त द॑क्षि॒णा । प्र॒तीच्यै॑ दि॒शः शृ॒ण्वन्त्यु॑त्त॒रात् । तदिच्छ्रोत्रं॑ बहु॒धोद्यमा॑नम् । अ॒रान्न ने॒मिः परि॒ सर्वं॑ बभूव ।
कोर्वै (Index)
(अ॒ग्रि॒ - यमन॑पस्फुरन्ती - स॒त्यꣳ स॒प्त च॑)