TB 2.5.8

12 पञ्चाशत्

2.5.8 अनुवाकं 8 - उपहोमाः

2.5.8.1
स ईं᳚ पाहि॒ य ऋ॑जी॒षी तरु॑त्रः । यः शिप्र॑वान् वृष॒भो यो म॑ती॒नाम् । यो गो᳚त्र॒भिद्-व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः । स इ॑न्द्र चि॒त्राꣳ अ॒भितृ॑न्धि॒ वाजान्॑ ॥ आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्ता᳚त् । आ वि॒श्वतो॑ अ॒भि समे᳚त्व॒र्वाङ् । इन्द्र॑ द्यु॒म्नꣳ सुव॑र्वद्धेह्य॒स्मे ॥ प्रोष्व॑स्मै पुरोर॒थम् । इन्द्रा॑य शू॒षम॑र्चत
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)
2.5.8.2
अ॒भीके॑ चिदु लोक॒कृत् । स॒ङ्गे स॒मथ्सु॑ वृत्र॒हा । अ॒स्माकं॑ बोधि चोदि॒ता । नभ॑न्ता-मन्य॒केषा᳚म् । ज्या॒का अधि॒ धन्व॑सु ॥ इन्द्रं॑ ॅव॒यꣳ शु॑ना॒सीर᳚म् । अ॒स्मिन्. य॒ज्ञे ह॑वामहे । आवाजै॒रुप॑ नो गमत् ॥ इन्द्रा॑य॒ शुना॒सीरा॑य । स्रु॒चा जु॑हुत नो ह॒विः
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)
2.5.8.3
जु॒षतां॒ प्रति॒ मेधि॑रः ॥ प्र ह॒व्यानि॑ घृ॒तव॑न्त्यस्मै । हर्य॑श्वाय भरता स॒जोषाः᳚ । इन्द्र॒र्तुभि॒र् ब्रह्म॑णा वावृधा॒नः । शु॒ना॒सी॒री ह॒विरि॒दं जु॑षस्व ॥ वयः॑ सुप॒र्णा उप॑सेदु॒रिन्द्र᳚म् । प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्द्धि चक्षुः॑ । मु॒मु॒ग्ध्य॑स्मान् नि॒धये॑व ब॒द्धान् ॥ बृ॒हदिन्द्रा॑य गायत
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)
2.5.8.4
मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒-रज॑नयन्नृता॒वृधः॑ । दे॒वं दे॒वाय॒ जागृ॑वि ॥ का मि॒हैकाः॒ क इ॒मे प॑त॒ङ्गाः । मा॒न्था॒लाः कुलि॒ परि॑ मा पतन्ति । अना॑वृतैना॒न्-प्रध॑मन्तु दे॒वाः । सौप॑र्णं॒ चक्षु॑स्त॒नुवा॑ विदेय ॥ ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्त᳚म् । न॒म॒स्या धीर॑म॒मृत॑स्य गो॒पाम् । स नः॒ शर्म॑ त्रि॒वरू॑थं॒ ॅवियꣳ॑सत्
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)
2.5.8.5
यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ नाके॑ सुप॒र्णमुप॒ यत्-पत॑न्तम् । हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒ ॅवरु॑णस्य दू॒तम् । य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ॥ शं नो॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये᳚ । शं ॅयोर॒भिस्र॑वन्तु नः ॥ ईशा॑ना॒ वार्या॑णाम् । क्षय॑न्ती-श्चर्.षणी॒नाम्
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)
2.5.8.6
अ॒पो या॑चामि भेष॒जम् ॥ अ॒फ्सु मे॒ सोमो॑ अब्रवीत् । अ॒न्तर् विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वश॑म्भुवम् । आप॑श्च वि॒श्वभे॑षजीः ॥ यद॒फ्सु ते॑ सरस्वति । गोष्वश्वे॑षु॒ यन्मधु॑ । तेन॑ मे वाजिनीवति । मुख॑मङ्ग्धि सरस्वति ॥ या सर॑स्वती वैशम्भ॒ल्या
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)
2.5.8.7
तस्यां᳚ मे रास्व । तस्या᳚स्ते भक्षीय । तस्या᳚स्ते भूयिष्ठ॒भाजो॑ भूयास्म ॥ अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममे॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदः ॥ इ॒हैव सन्तत्र॒ सन्तं॑ त्वा ऽग्ने । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत्
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)
2.5.8.8
ज्योति॑षा त्वा वैश्वान॒रेणोप॑तिष्ठे ॥ अ॒यं ते॒ योनि॑र्.ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्द्धया र॒यिम् ॥ या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तये-ह्यारो॑हा॒त्माऽऽत्मान᳚म् । अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ । य॒ज्ञो भू॒त्वा य॒ज्ञ्मासी॑द॒ स्वां ॅयोनि᳚म् । जात॑वेदो॒ भुव॒ आजाय॑मानः॒ सक्ष॑य॒ एहि॑ ॥ उ॒पाव॑रोह जातवेदः॒ पुन॒स्त्वम्
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)
2.5.8.9
दे॒वेभ्यो॑ ह॒व्यं ॅव॑ह नः प्रजा॒नन्न् । आयुः॑ प्र॒जाꣳ र॒यिम॒स्मासु॑ धेहि । अज॑स्रो दीदिहि नो दुरो॒णे ॥ तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रम् । स॒त्रादधा॑न॒-मप्र॑तिष्कुतꣳ॒॒ शवाꣳ॑सि । मꣳहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ ऽव॒वर्त॑त् । रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥ त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत् । सोम॑मपिब॒द्-विष्णु॑ना सु॒तं ॅयथाव॑शत् । स ईं᳚ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुम्
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)
2.5.8.10
सैनꣳ॑ सश्चद्-दे॒वं दे॒वः स॒त्यमिन्दुꣳ॑ स॒त्य इन्द्रः॑ ॥ वि॒दद्यती॑ स॒रमा॑ रु॒ग्णमद्रेः᳚ । महि॒ पाथः॑ पू॒र्व्यꣳ स॒द्ध्रिय॑क्कः । अग्रं॑ नयथ् सु॒पद्यक्ष॑राणाम् । अच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा᳚त् ॥ वि॒दद्-गव्यꣳ॑ स॒रमा॑ दृ॒ढमू॒र्वम् । येना॒ नुकं॒ मानु॑षी॒ भोज॑ते॒ विट् । आ ये विश्वा᳚ स्वप॒त्यानि॑ च॒क्रुः । कृ॒ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ॥ त्वं नृभि॑र्नृपते दे॒वहू॑तौ
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)
2.5.8.11
भूरी॑णि वृ॒त्वा ह॑र्यश्व हꣳसि । त्वं निद॑स्युं॒ चुमु॑रिम् । धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ॥ ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा । श्रु॒धि ब्रह्म॑ वावृधस्वो॒त गी॒र्भिः । आ॒विः सूर्यं॑ कृणु॒हि पी॒पिही॒षः । ज॒हि शत्रूꣳ॑र॒भि गा इ॑न्द्र तृन्धि ॥ अग्ने॒ बाध॑स्व॒ विमृधो॑ नुदस्व । अपामी॑वा॒ अप॒ रक्षाꣳ॑सि सेध । अ॒स्माथ्-स॑मु॒द्राद्-बृ॑ह॒तो दि॒वो नः॑
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)
2.5.8.12
अ॒पां भू॒मान॒मुप॑ नः सृजे॒ह ॥ यज्ञ्॒ प्रति॑तिष्ठ सुम॒तौ सु॒शेवा॒ आ त्वा᳚ । वसू॑नि पुरु॒धा वि॑शन्तु । दी॒र्घमायु॒र् यज॑मानाय कृ॒ण्वन्न् । अथा॒मृते॑न जरि॒तार॑मङ्ग्धि ॥ इन्द्रः॑ शु॒नाव॒द्-वित॑नोति॒ सीर᳚म् । स॒म्ॅव॒थ्स॒रस्य॑ प्रति॒माण॑मे॒तत् । अ॒र्कस्य॒ ज्योति॒स्तदिदा॑स॒ ज्येष्ठ᳚म् । स॒म्ॅव॒थ्स॒रꣳ शु॒नव॒थ्सीर॑मे॒तत् ॥ इन्द्र॑स्य॒ राधः॒ प्रय॑तं पु॒रु त्मना᳚ ( ) । तद॑र्करू॒पं ॅवि॒मिमा॑नमेति । द्वाद॑शारे॒ प्रति॑तिष्ठ॒तीद्-वृषा᳚ ॥ अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तः । हवा॑महे॒ त्वोप॑गन्त॒ वा उ॑ । आ॒भूष॑न्तस्त्वा सुम॒तौ नवा॑याम् । व॒यमि॑न्द्र त्वा शु॒नꣳ हु॑वेम ।
कोर्वै (Index)
(अ॒र्च॒त॒ - ह॒विर् - गा॑यत - यꣳसच् - चर्.षणी॒नां - ॅवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑)