आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्त᳚म् । नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के । उ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे । तमापृ॑णा वसुपते॒ वसू॑नाम् ॥ इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वैः᳚ । च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । सु॒व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ ॅविप्राः᳚ । इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन्न् ॥ इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् । यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री
कोर्वै (Index)
(व॒ज् - य्रही॑ना - मृजी॒षं - ॅव्यृ॑ण्वति - रक्षतु नो र॒यिꣳ - सौभ॑गा॒न्येकं॑ च)