TB 2.5.7

4 पञ्चाशत्

2.5.7 अनुवाकं 7 - उपहोमाः

2.5.7.1
वसू॑नां॒ त्वाऽऽधी॑तेन । रु॒द्राणा॑मू॒र्म्या । आ॒दि॒त्यानां॒ तेज॑सा । विश्वे॑षां दे॒वानां॒ क्रतु॑ना । म॒रुता॒मेम्ना॑ जुहोमि॒ स्वाहा᳚ ॥ अ॒भिभू॑ति-र॒हमाग॑मम् । इन्द्र॑सखा स्वा॒युधः॑ । आस्वाशा॑सु दु॒ष्षहः॑ ॥ इ॒दं ॅवर्चो॑ अ॒ग्निना॑ द॒त्तमागा᳚त् । यशो॒ भर्गः॒ सह॒ ओजो॒ बलं॑ च
कोर्वै (Index)
(च - स्वाहा॒ - साम्रा᳚ज्यम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॒ - विश॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ च॒त्वारि॑ च)
2.5.7.2
दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । प्रति॑गृभ्णामि मह॒ते वी॒र्या॑य ॥ आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । सर्वं॑ म॒ आयु॑र्भूयात् । सर्व॒मायु॑र्गेषम् ॥ भूर्भुवः॒ सुवः॑ ॥ अ॒ग्निर्-धर्मे॑णान्ना॒दः । मृ॒त्युर्-धर्मे॒णान्न॑पतिः । ब्रह्म॑ क्ष॒त्रꣳ स्वाहा᳚ ।
कोर्वै (Index)
(च - स्वाहा॒ - साम्रा᳚ज्यम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॒ - विश॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ च॒त्वारि॑ च)
2.5.7.3
प्र॒जाप॑तिः प्रणे॒ता । बृह॒स्पतिः॑ पुर ए॒ता । य॒मः पन्थाः᳚ । च॒न्द्रमाः᳚ पुनर॒सुः स्वाहा᳚ ॥ अ॒ग्निर॑न्ना॒दोऽन्न॑पतिः । अ॒न्नाद्य॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ सोमो॒ राजा॒ राज॑पतिः । रा॒ज्यम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ वरु॑णः स॒म्राट् थ्स॒म्राट्प॑तिः । साम्रा᳚ज्यम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ।
कोर्वै (Index)
(च - स्वाहा॒ - साम्रा᳚ज्यम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॒ - विश॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ च॒त्वारि॑ च)
2.5.7.4
मि॒त्रः क्ष॒त्रं क्ष॒त्रप॑तिः । क्ष॒त्रम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ इन्द्रो॒ बलं॒ बल॑पतिः । बल॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ बृह॒स्पति॒र् ब्रह्म॒ ब्रह्म॑पतिः । ब्रह्मा॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ स॒वि॒ता रा॒ष्ट्रꣳ रा॒ष्ट्रप॑तिः । रा॒ष्ट्रम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ पू॒षा वि॒शां ॅविट्प॑तिः । विश॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ( ) ॥ सर॑स्वती॒ पुष्टिः॒ पुष्टि॑पत्नी । पुष्टि॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ त्वष्टा॑ पशू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्-रू॒पप॑तिः । रू॒पेणा॒स्मिन्. य॒ज्ञे यज॑मानाय प॒शून् द॑दातु॒ स्वाहा᳚ ।
कोर्वै (Index)
(च - स्वाहा॒ - साम्रा᳚ज्यम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॒ - विश॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ च॒त्वारि॑ च)