TB 2.5.3

4 पञ्चाशत्

2.5.3 अनुवाकं 3 - उपहोमाः

2.5.3.1
पुन॑र्न॒ इन्द्रो॑ म॒घवा॑ ददातु । धना॑नि श॒क्रो घन्यः॑ सु॒राधाः᳚ । अ॒र्वा॒चीनं॑ कृणुतां ॅयाचि॒तो मनः॑ । श्रु॒ष्टी नो॑ अ॒स्य ह॒विषो॑ जुषा॒णः ॥ यानि॑ नो जि॒नन् धना॑नि । ज॒हर्थ॑ शूर म॒न्युना᳚ । इन्द्रानु॑विन्द न॒स्तानि॑ । अ॒नेन॑ ह॒विषा॒ पुनः॑ ॥ इन्द्र॒ आशा᳚भ्यः॒ परि॑ । सर्वा॒भ्योऽभ॑यं करत्
कोर्वै (Index)
(क॒र॒न् - निवि॑ष्ट - मस्यतां॒ - +नव॑ च)
2.5.3.2
जेता॒ शत्रू॒न्॒. विच॑र्.षणिः ॥ आकू᳚त्यै त्वा॒ कामा॑य त्वा स॒मृधे᳚ त्वा । पु॒रो द॑धे अमृत॒त्वाय॑ जी॒वसे᳚ ॥ आकू॑तिम॒स्याव॑से । काम॑मस्य॒ समृ॑द्ध्यै । इन्द्र॑स्य युञ्जते॒ धियः॑ ॥ आकू॑तिं दे॒वीं मन॑सः पु॒रो द॑धे । य॒ज्ञ्स्य॑ मा॒ता सु॒हवा॑ मे अस्तु । यदि॒च्छामि॒ मन॑सा॒ सका॑मः । वि॒देय॑मेन॒द्धृद॑ये॒ निवि॑ष्टम् ।
कोर्वै (Index)
(क॒र॒न् - निवि॑ष्ट - मस्यतां॒ - +नव॑ च)
2.5.3.3
सेद॒ग्निर॒ग्नीꣳ रत्ये᳚त्य॒न्यान् । यत्र॑ वा॒जी तन॑यो वी॒डुपा॑णिः । स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥ आशा॑नां त्वा ऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृते᳚भ्यः । इ॒दं भू॒तस्याद्ध्य॑क्षेभ्यः । वि॒धेम॑ ह॒विषा॑ व॒यम् ॥ विश्वा॒ आशा॒ मधु॑ना॒ सꣳसृ॑जामि । अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु । अ॒यं ॅयज॑मानो॒ मृधो॒ व्य॑स्यताम् ( )
कोर्वै (Index)
(क॒र॒न् - निवि॑ष्ट - मस्यतां॒ - +नव॑ च)
2.5.3.4
अगृ॑भीताः प॒शवः॑ सन्तु॒ सर्वे᳚ ॥ अ॒ग्निः सोमो॒ वरु॑णो मि॒त्र इन्द्रः॑ । बृह॒स्पतिः॑ सवि॒ता यः स॑ह॒स्री । पू॒षा नो॒ गोभि॒रव॑सा॒ सर॑स्वती । त्वष्टा॑ रू॒पाणि॒ सम॑नक्तु य॒ज्ञिः ॥ त्वष्टा॑ रू॒पाणि॒ दध॑ती॒ सर॑स्वती । पू॒षा भगꣳ॑ सवि॒ता नो॑ ददातु । बृह॒स्पति॒र्-दद॒दिन्द्रः॑ स॒हस्र᳚म् । मि॒त्रो दा॒ता वरु॑णः॒ सोमो॑ अ॒ग्निः ।
कोर्वै (Index)
(क॒र॒न् - निवि॑ष्ट - मस्यतां॒ - +नव॑ च)