TB 2.5.6

5 पञ्चाशत्

2.5.6 अनुवाकं 6 - उपहोमाः

2.5.6.1
वार्त्र॑हत्याय॒ शव॑से । पृ॒त॒ना॒-साह्या॑य च । इन्द्र॒त्वा-ऽऽव॑र्तयामसि ॥ सु॒ब्रह्मा॑णं ॅवी॒रव॑न्तं बृ॒हन्त᳚म् । उ॒रुं ग॑भी॒रं पृ॒थुबु॑द्ध्नमिन्द्र । श्रु॒तर्.षि॑-मु॒ग्रम॑भि-माति॒षाह᳚म् । अ॒स्मभ्यं॑ चि॒त्रं ॅवृष॑णꣳ र॒यिं दाः᳚ ॥ क्षे॒त्रि॒यै त्वा॒ निर्.ऋ॑त्यै त्वा । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त् । अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि
कोर्वै (Index)
(क॒रो॒ - म्यव॑र्त्यै - चि - च्छुभ्रे - ऽश्नवामहै च॒त्वारि॑ च)
2.5.6.2
शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ॥ शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु । शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः । शम॒न्तरि॑क्षꣳ स॒ह वाते॑न ते । शं ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु ॥ या दैवी॒श्चत॑स्रः प्र॒दिशः॑ । वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे । तासां᳚ त्वा ज॒रस॒ आद॑धामि । प्र यक्ष्म॑ एतु॒ निर्.ऋ॑तिं परा॒चैः ॥ अमो॑चि॒ यक्ष्मा᳚द्-दुरि॒ता-दव॑र्त्यै
कोर्वै (Index)
(क॒रो॒ - म्यव॑र्त्यै - चि - च्छुभ्रे - ऽश्नवामहै च॒त्वारि॑ च)
2.5.6.3
द्रु॒हः पाशा॒न्निर्.ऋ॑त्यै॒ चोद॑मोचि । अहा॒ अव॑र्ति॒मवि॑दथ् स्यो॒नम् । अप्य॑भूद्-भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ॥ सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ यत् । दे॒वा अमु॑ञ्च॒-न्नसृ॑ज॒न्व्ये॑नसः । ए॒वम॒हमि॒मं क्षे᳚त्रि॒याज्जा॑मिशꣳ॒॒सात् । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त् ॥ बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वः॑ । दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तꣳ र॒यिꣳ स्तु॑व॒ते की॒रये॑ चित्
कोर्वै (Index)
(क॒रो॒ - म्यव॑र्त्यै - चि - च्छुभ्रे - ऽश्नवामहै च॒त्वारि॑ च)
2.5.6.4
यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ दे॒वा॒युध॒मिन्द्र॒माजोहु॑वानाः । वि॒श्वा॒वृध॑म॒भि ये रक्ष॑माणाः । येन॑ ह॒ता दी॒र्घमद्ध्वा॑न॒मायन्न्॑ । अ॒न॒न्तमर्थ॒मनि॑वर्थ्-स्यमानाः ॥ यत्ते॑ सुजाते हि॒मव॑थ्सु भेष॒जम् । म॒यो॒भूः शंत॑मा॒ यद्धृ॒दोऽसि॑ । ततो॑ नो देहि सीबले ॥ अ॒दो गि॒रिभ्यो॒ अधि॒ यत्प्र॒धाव॑सि । सꣳ॒॒शोभ॑माना क॒न्ये॑व शुभ्रे
कोर्वै (Index)
(क॒रो॒ - म्यव॑र्त्यै - चि - च्छुभ्रे - ऽश्नवामहै च॒त्वारि॑ च)
2.5.6.5
तां त्वा॒ मुद्ग॑ला ह॒विषा॑ वर्द्धयन्ति । सा नः॑ सीबले र॒यिमाभा॑जये॒ह ॥ पूर्वं॑ देवा॒ अप॑रेणा-नु॒पश्य॒ञ्जन्म॑भिः । जन्मा॒न्यव॑रैः॒ परा॑णि । वेदा॑नि देवा अ॒यम॒स्मीति॒ माम् । अ॒हꣳ हि॒त्वा शरी॑रं ज॒रसः॑ प॒रस्ता᳚त् ॥ प्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्र᳚म् । वाचं॒ मन॑सि॒ संभृ॑ताम् । हि॒त्वा शरी॑रं ज॒रसः॑ प॒रस्ता᳚त् । आ भूतिं॒ भूतिं॑ ॅव॒यम॑श्नवामहै ( ) ॥ इ॒मा ए॒व ता उ॒षसो॒ याः प्र॑थ॒मा व्यौच्छन्न्॑ । ता दे॒व्यः॑ कुर्वते॒ पञ्च॑ रू॒पा । शश्व॑ती॒र्नाव॑पृज्यन्ति । न ग॑म॒न्त्यन्त᳚म् ।
कोर्वै (Index)
(क॒रो॒ - म्यव॑र्त्यै - चि - च्छुभ्रे - ऽश्नवामहै च॒त्वारि॑ च)