प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.10.1 TS 3.2.10.1
उ॒प॒या॒मगृ॑हीतोऽसि वाक्ष॒सद॑सि वा॒क्पाभ्यां᳚ त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञ्स्य॑ ध्रु॒वस्याऽद्ध्य॑-क्षाभ्यां गृह्णा-म्युपया॒मगृ॑हीतोऽस्यृत॒सद॑सि चक्षु॒ष्पाभ्यां᳚ त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञ्स्य॑ ध्रु॒वस्याऽद्ध्य॑क्षाभ्यां गृह्णाम्युपया॒मगृ॑हीतोऽसि श्रुत॒सद॑सि श्रोत्र॒पाभ्यां᳚ त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञ्स्य॑ ध्रु॒वस्याऽद्ध्य॑क्षाभ्यां गृह्णामि दे॒वेभ्य॑स्त्वा वि॒श्वदे॑वेभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्यो॒ विष्ण॑वुरुक्रमै॒ष ते॒ सोम॒स्तꣳ र॑क्षस्व॒ - [ ]
पदपाठः (Word-by-word)
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । वा॒क्ष॒सदिति॑ वाक्ष - सत् । अ॒सि॒ । वा॒क्पाभ्या॒मिति॑ वाक् - पाभ्या᳚म् । त्वा॒ । क्र॒तु॒पाभ्या॒मिति॑ क्रतु - पाभ्या᳚म् । अ॒स्य । य॒ज्ञ्स्य॑ । ध्रु॒वस्य॑ । अद्ध्य॑क्षाभ्या॒मित्यधि॑ - अ॒क्षा॒भ्या॒म् । गृ॒ह्णा॒मि॒ । उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । ऋ॒त॒सदित्यृ॑त - सत् । अ॒सि॒ । च॒क्षु॒ष्पाभ्या॒मिति॑ चक्षुः - पाभ्या᳚म् । त्वा॒ । क्र॒तु॒पाभ्या॒मिति॑ क्रतु - पाभ्या᳚म् । अ॒स्य । य॒ज्ञ्स्य॑ । ध्रु॒वस्य॑ । अद्ध्य॑क्षाभ्या॒मित्यधि॑ - अ॒क्षा॒भ्या॒म् । गृ॒ह्णा॒मि॒ । उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । श्रु॒त॒सदिति॑ श्रुत - सत् । अ॒सि॒ । श्रो॒त्र॒पाभ्या॒मिति॑ श्रोत्र - पाभ्या᳚म् । त्वा॒ । क्र॒तु॒पाभ्या॒मिति॑ क्रतु - पाभ्या᳚म् । अ॒स्य । य॒ज्ञ्स्य॑ । ध्रु॒वस्य॑ । अद्ध्य॑क्षाभ्या॒मित्यधि॑ - अ॒क्षा॒भ्या॒म् । गृ॒ह्णा॒मि॒ । दे॒वेभ्यः॑ । त्वा॒ । वि॒श्वदे॑वेभ्य॒ इति॑ वि॒श्व-दे॒वे॒भ्यः॒ । त्वा॒ । विश्वे᳚भ्यः । त्वा॒ । दे॒वेभ्यः॑ । विष्णो᳚ । उ॒रु॒क्र॒मेत्यु॑रु - क्र॒म॒ । ए॒षः । ते॒ । सोमः॑ । तम् । र॒क्ष॒स्व॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे द्वितीयप्रपाठके दशमोऽनुवाकः) ।

उक्तः प्रतिगरः साङ्ग समन्त्रो नवमे स्फुटम् ।

अथ दशमे प्रतिनिर्गाह्यमन्त्रा उच्यन्ते ।

कल्पः — ‘उपयामगृहीतोऽसि वाक्षसदसीति प्रतिनिर्ग्राह्यं गृहीत्वा न सादयति” इति । पाठस्तु — उपयामेति ।

हे प्रतिनिर्गाह्य त्वमुपयामेन पार्थिवपात्रेण गृहीतोऽसि । वाक्षो वागिन्द्रियं तत्रावस्थितोऽसि । वाग्वा एषा यदेन्द्रवायवः” इति श्रुतेः । तादृशं त्व वाचः पालकाभ्यां क्रतोर्यज्ञस्य पालकाभ्यां घ्रुवस्याविनाशिनोऽस्य यज्ञस्याध्यक्षाभ्यां स्वामिभ्यामिन्द्रवायुभ्यां गृह्णामि तदर्थं गृह्णामीत्यर्थः ।

कल्पः — ‘ग्रहाणां प्रतिनिर्ग्राह्याणां ग्रहणादित्योपस्थानावनयनप्रदाना-न्यूत्तरोत्तरैर्मन्त्रैः” इति ।

अस्यायमर्थः — प्रतिनिर्ग्राह्यनामका ये ग्रहा ऐन्द्रवायवमैत्रावरुणाश्-विनसंबन्धिनस्तेषां ग्रहणादिक्रियाऽऽम्नानक्रमेणोत्तरैर्मन्त्रेद्रष्टव्येति ।

तत्रैन्द्रावायवप्रतिनिर्ग्राह्यस्य ग्रहणमन्त्र उक्तः । मैत्रावरुणप्रतिनिर्ग्राह्यस्य ग्रहणमन्त्रः —

उपयामेति । ऋतं सत्यं यज्ञो वा तत्र सीदतीत्यृतसत् ।

आश्विनप्रतिनिर्ग्राह्यमन्त्रः —

उपयामेति । श्रुतं श्रोत्रेन्द्रियं तत्र सीदतीति श्रुतसत् “चक्षुर्मैत्रावरुण-श्रोत्रमाश्विनम्” इति श्रुत्यन्तरात् ।

देवेभ्यस्त्वेति । कल्पः — “देवेभ्यस्त्वेत्यादित्यपात्रेण प्रतिप्रस्थाताऽऽदि-त्यस्थाल्यां संपातमवनीय” इति ।

हे ऐन्द्रवायमप्रतिनिर्गाह्य देवार्थं त्वामवनयामीति शेषः । एवं विश्वदेवे-भ्यस्त्वा देवेभ्य इति मन्त्राभ्यामुत्तरयोः संपातावनयनं कुर्यात् । गणप्राधान्येन विश्वदेवेभ्य इति समासनिर्देशः । प्रत्येकप्राधान्येन विश्वेभ्य इति व्यासनिर्देशः ।

विष्णाविति । कल्पः — “विष्णवृरुक्रमैष ते सोमस्त रक्षस्वेत्यादित्य-पात्रेण प्रतिप्रस्थाताऽऽदित्यस्थालीमपिदधाति” इति ।

तं ते दुश्चक्षा माऽव ख्यदित्येव आम्नातो मन्त्रशेषः ।

हे उरुक्रम विष्णो रक्षणार्थमेष सोमस्तवाधीनः । अतस्तं रक्षस्व । तं ते त्वदीयं सोमं दुश्चक्षाः पापदृष्टिः पुरुषो माऽवख्यान्मा द्राक्षीत् ।

कल्पः — “ग्रहमध्वर्युरादाय क्षिप्र होतारमतिद्रुत्य मयी वसुः पुरोवसुरिति ग्रह होत्रे प्रयच्छति” इति । पाठस्तु —

मयि वसुरिति । वसुर्धनरूपः सोमो मयि वर्तते । स कीदृशः । पुरोवसुः पुरस्कृतेतरसमस्तधनः । यद्वा पुरस्तात्प्राणादीनां वासयिता । यथाविधस्त्वं वाक्पा वाचः पालकः । अतो मम वाचं पाहि ।

यथाऽनेन मन्त्रेणैन्द्रवायवग्रहो होत्रे दत्त एवमुत्तराभ्यां मन्त्राभ्यां मैत्रावरुणाश्विनग्रहौ देयौ । तयोः पाठस्तु —

मयि वसुरिति । विदद्वसुर्लब्धसमस्तधनः । संयद्वसुः प्राप्तसमस्तधनः ।

भूरसि श्रेष्ठ इति । कल्पः — “हुते चाऽदित्यमुपतिष्ठते भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहीति” इति ।

हे हस्तस्थ सोम त्वं भूरसि सखानां भावयिताऽसि । अतो रश्गीनां सुखप्रकाशकानां वस्तूनां मध्ये त्वं श्रेष्ठोऽसि । त्वमेव प्राणस्य फलकस्तस्मान्मे प्राणं पाहि पालय ।

यथाऽनेन मन्त्रेणैन्द्रवायवग्रहहोमादूर्ध्वमादित्योपस्थानं तथैवोत्तरेण मन्त्रेणमैत्रावरुणग्रहहोमादूर्ध्वमादित्यमुपतिष्ठते । पाठस्तु —

धूरसि श्रेष्ठ इति । हे मैत्रावरुण ग्रह त्वं धूरसि दुःखानां हिंसिताऽसि । शेषं पूर्ववत् ।आश्विनग्रहहोमादूर्ध्वभावी तूपस्थानमन्त्रः शाखान्तरे द्रष्टव्यः ।

कल्पः — “यदि मन्येत यजमानः पूर्वो माऽतिक्रान्तो भ्रातृव्य इति प्राग्वोनादङ्गुष्ठेनाङ्गुलिमवगृह्णीयाद्यो न इन्द्रवायू अभिदासतीति” इति । पाठस्तु —

भो न इन्द्रेति । हे इन्द्रवायू यो भ्रातृव्यो नोऽस्मानभिदासति हिनस्ति, उत्पिपीतोऽस्मानुल्लङ्घ्य सोमं पिबति हे शुभस्पती शुभस्य कर्मणः पालयिदारौ तं भ्रातृव्यमहमध पादयाम्यपकृत्य पातयामि । इदमितिशब्देन तर्जन्याऽङ्गुल्याऽङ्गुष्ठेनावग्रहणमभिनीय प्रदर्श्यते । हे इन्द्र यथाऽहं भ्रातृव्यादुत्तमः संश्चेतयानीहलोकज्ञानवान्भूयासं तथा त्वमनुगृहाणेति शेषः । मित्रावरुणाविति द्वितीयमन्त्रेऽश्विनाविति तृतीयमन्त्रे च शेषं सर्वमनुषज्य व्याख्येयम् ।

अत्र विनियोगसंग्रहः —

उपेति प्रतिनिर्ग्राह्या ग्रहीतव्यास्त्रिभिः क्रमात् ।

देवेभ्यो निनयच्छेषांस्त्रिभिरादित्यपात्रके ॥

विष्णो तत्पात्रमाच्छाद्य द्विदेवत्यग्रहानपि ।

होत्रे दद्यात्त्त्रिभिः सूर्यमुपतिष्ठेत भूर्द्वयात् ॥

यो नस्त्रिभिस्तर्जनीं तामङ्गुष्ठेनोपपीडयेत् ।

इन्द्रमित्राश्विभिर्भिन्ना मन्त्राः पञ्चदशात्र ते ॥

त एते मन्त्रा ऋतुग्रहानुवाकात्पूर्वं द्रष्टव्याः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

द्वितीयप्रपाठके दशमोऽनुवाकः ॥ १० ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 द्विदेवत्यानां प्रतिनिर्ग्रह्यग्रहणमन्त्राः क्रमेण । ऐन्द्रवायवस्य - उपयामगृहीत इति ॥ 'इयं वा उपयामः' इत्युक्तं, तयैव गृहीतोसि । वाक्षसदसि वाक् क्षियति निवस्यत्यनयोरिति वाक्षौ इन्द्रवायू, तयोर्ग्रहो वाक्षः । यथोक्तां - 'वाग्वा ऐन्द्रवायवः' इति । छान्दसो डः । तद्ग्रहं सीदतीति वाक्षसत् । यद्वा - 'वचिपचिभ्यो डश्च' इति वचेरसुन्, णाविति तत्रानुवर्तते वाक्षो वागिन्द्रियं तत्र सीदतीति वाक्षसत्, बर्हिषदादिवत्सलोपः । ईदृशस्त्वमसि, तं त्वां वाक्पाभ्यां वाचः पालयितृर्भ्यां क्रतुपाभ्यां क्रतोर्यज्ञस्य पालयितृभ्यां अस्य यज्ञस्य ध्रुवस्य अविनाशिफलस्य अध्यक्षाभ्यां स्वामिभ्यां इन्द्रवायुभ्यां गृह्णामि ॥
2 मैत्रावरुणस्य - ऋतं सत्यं, 'चक्षुर्वै सत्यम्' 'चक्षुर्मैत्रावरुणः' इति चोक्तम् । मित्रावरुणाभ्यां गृह्णामि । गतमन्यत् ॥
3 आश्विनस्य - श्रुतं श्रवणम् । 'श्रोत्रमाश्विनः' इत्युक्तम् । ताभ्यामश्विभ्यां गृह्णामीति ॥
4 -6अथ द्विदेवत्यशेषाणामादित्यस्थाल्यामवनयनमन्त्राः क्रमेण - देवेभ्य इत्यादयः ॥ देवाः एकत्र इतरत्र विश्वेदेवाख्यो गणः, अपरत्र सर्वे देवाः ॥
7 आदित्यस्थाल्यामपिधानमन्त्रः - विष्णविति ॥ हे विष्णो उरुक्रम महाविक्रम एष ते तव सोमः । त्वमस्य गोपयिता, तस्मात्तं रक्षस्व तं ते त्वदीयं सोमं दुश्चक्षाः पापदृष्टिः माऽवख्यत् मा द्राक्षीत् । 'अस्यतिवक्तिख्यातिभ्योङ्' । दुंष्टं चष्ट इति 'गतिकारकयोरपि' इत्यसुन्, पूर्वपदप्रकृतिस्वरस्य पाक्षिकत्वात्कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
8 त्रयाणां भक्षणमन्त्राः - मयीत्यादि ॥ मयि वर्तते वसुः धनं सोमाख्यं पुरोवसुः पुरस्कृतेतरसमस्तधनः । यद्वा - पुरस्ताद्वासयिता प्राणादीनां पुरस्सरः । स त्वं वाक्पाः वाचः पालयिता मे मम वाचं पाहि रक्षय । एवमुत्तरयोरपि ॥
9 विदद्वसुः भजमानवसुः । विन्दतेः छान्दसो नुमभावः । कर्मणि वा लिटि यगात्मनेपदाभावश्छान्दसः ॥
10 संयद्वसुः संगच्छद्वसुः ॥
11 -12उपांश्वन्तर्यामयोरनुमन्त्रणमन्त्रः - भूरिति ग्रहात्मा सोम उच्यते । भावयिता सुखानामसि । धूः हिंसिता दुःखानामसि ॥
13 -15द्विदेवत्यानां होममन्त्राः क्रमेण - यो न इति तिस्रो जगत्यः । त्रिष्टुब्वा तृतीया । तत्र त्रयाणां देवतापदानां भेदेन शेष इतरः । तेन 'यो न इन्द्रवायू अभिदासति' इति प्रथमा । 'यो नो मित्रावरुणावभिदासति' इति द्वितीया । 'यो न अश्विनावभिदासति' इति तृतीया । तत्र प्रथमा ॥ हे इन्द्रवायू यो नः अभिदासति हिनस्ति । दासृ दाने, अभिपूर्वो साकर्मा । यद्वा - दसु अपक्षये, व्यत्ययेन शप्, स्वरविकारश्छान्दसः । भ्रातृव्यश्शत्रुः । 'व्यन्सपत्ने' । उत्पिपीते उत्क्रम्यामार्गेण सोमं पिबति । पीङ् पाने दैवादिकः, 'बहुलं छन्दसि' इति शपश्श्लुः । पिबतेरेव वा पूर्ववत् श्लुः, व्यत्ययेनात्मनेपदम्, 'ईहल्यघोः' इतीत्वम्, 'बहुलं छन्दसि' इत्यभ्यासस्येत्वम्, 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वं अनजादावपि व्यत्ययेन । शुभस्पती शुभस्य कर्मणः पालयिता । क्विबन्तात् षष्ठी, 'षष्ठ्याः पतिपुत्र' इति सत्वम्, छान्दसष्षष्ठ्या अलुक् । इदमिति क्रियाविशेषणम् । तं भ्रातृव्यं अधरं पादयामि अपकृष्टतां नयामि यथाकृते अहमुत्तम उद्गततमश्चेतयानि जानाम्यात्मानं हे इन्द्र । यद्वा - यथा अधरं पादयामि तथा हे इन्द्र त्वमपि कुरु, अहमुत्तमश्चेतयानि चेतयिता भूयासमिति प्रार्थयते । एवमुत्तरयोरपि द्रष्टव्यम् । उत्तमशब्द उत्सादित्वादन्तोदात्तः ॥
इति तृतीये द्वितीये दशमोनुवाकः ॥