प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.6.1 TS 3.2.6.1
म॒ही॒नां पयो॑ऽसि॒ विश्वे॑षां दे॒वानां᳚ त॒नूर् ऋ॒द्ध्यास॑म॒द्य पृष॑तीनां॒ ग्रहं॒ पृष॑तीनां॒ ग्रहो॑ऽसि॒ विष्णो॒र्॒.हृद॑यम॒स्येक॑मिष॒ विष्णु॒स्त्वाऽनु॒ विच॑क्रमे भू॒तिर्द॒द्ध्ना घृ॒तेन॑ वर्द्धतां॒ तस्य॑ मे॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑ण॒मा ग॑म्या॒ज्ज्योति॑रसि वैश्वान॒रं पृश्ञि॑यै दु॒ग्धं ॅयाव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः । ताव॑न्तमिन्द्र ते॒ - [ ]
पदपाठः (Word-by-word)
म॒ही॒नाम् । पयः॑ । अ॒सि॒ । विश्वे॑षाम् । दे॒वाना᳚म् । त॒नूः । ऋ॒द्ध्यास᳚म् । अ॒द्य । पृष॑तीनाम् । ग्रह᳚म् । पृष॑तीनाम् । ग्रहः॑ । अ॒सि॒ । विष्णोः᳚ । हृद॑यम् । अ॒सि॒ । एक᳚म् । इ॒ष॒ । विष्णुः॑ । त्वा॒ । अनु॑ । वीति॑ । च॒क्र॒मे॒ । भू॒तिः । द॒द्ध्ना । घृ॒तेन॑ । व॒र्द्ध॒ता॒म् । तस्य॑ । मा॒ । इ॒ष्टस्य॑ । वी॒तस्य॑ । द्रवि॑णम् । एति॑ । ग॒म्या॒त् । ज्योतिः॑ । अ॒सि॒ । वै॒श्वा॒न॒रम् । पृश्नि॑यै । दु॒ग्धम् । याव॑ती॒ इति॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚-पृ॒थि॒वी । म॒हि॒त्वेति॑ महि - त्वा । याव॑त् । च॒ । स॒प्त । सिन्ध॑वः । वि॒त॒स्थुरिति॑ वि - त॒स्थुः ॥ ताव॑न्तम् । इ॒न्द्र॒ । ते॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयाष्टके द्वितीयप्रपाठके षष्ठोऽनुवाकः) ।

अनुवाके पञ्चमे तु भक्षमन्त्रा उदीरिताः ।

अथ षष्ठे पृषदाज्यमुच्यते ।

कल्पः — “आज्याग्रहणकाले चतुर्जुह्वां गृह्णाति चतुरुपभृति दधन्याज्यमानीय महीनां पयोऽसीति पृषदाज्यधान्यां पञ्चगृहीतं पृषदाज्यम्” इति । पाठस्तु---

महीनामिति । हे पृषदाज्य त्वं महीनां गवां पयोऽसि । विश्वेषां सर्वेषां देवानां तनूरसी । शरीरस्थितिहेतुत्वात् । पृषत्यो मरुतामश्वाः । अद्यास्मिन्दिने पृषतीनां ग्रहस्थानीयं त्वामृध्यासं वर्धयामि । त्वं पृषतीनां ग्रहेऽसि ग्रहस्थानीयमसि । विप्णोर्यज्ञस्य हृदयं प्रियमसि । हे इष सर्वैर्दवैरिष्यमाण विष्णुर्वज्ञस्त्वामेकं मुख्यं विचक्रमे विशेषेण स्वीकृतवान् । अत्रत्येन घृतेन दध्ना च तव भूतिर्माहात्म्यं वर्धताम् । तस्य तादृशस्येष्टस्य देवेभ्यो हुतस्य वीतस्य वेवैर्भक्षितस्य च् यद्द्रविणं फलमस्ति तन्मां प्रत्यागम्यादागच्छतु । त्वं वैश्वानरं ज्योतिरति विश्वेषा नराणां हितस्य भासकमसि पृश्नियै दुग्धमसि श्वेतवर्णाया गोःक्षीरमसि । अस्य च पृषदाज्यस्य पश्वनूयाजार्यत्वादग्नीषोमीयपशप्रपाठके पृथिव्यै त्वाऽन्तरिक्षाय त्वेत्येतस्मादनुवाकत्पूर्वमयं मन्त्रो द्रष्टव्यः ।

कल्पः — ‘आग्नीध्रे प्रतिप्रस्थाता दधिधर्मं गृह्णात्यौदुय्बर्या स्त्रुच्युपस्तीर्य यावती द्यावापृथिवी इति दधि गृहीत्वाऽभिघार्य’ इति । पाठस्तु-

यावतीति । सप्त सिन्धवः समुद्राः ते च भागवतस्य पञ्चमस्कन्धे स्मर्यन्ते क्षारोदेक्षुरसोदसुरोदघृतोददधिमण्डोदक्षीरोदशुद्धोदाः सप्त जलधयः । हे इन्द्र द्यावापृथिवी द्यावापृथिव्यौ महित्वा स्वकीयेन महिम्ना यावती यावत्यौ यत्परिमाणे वर्तेते । किंच सप्त सिन्धवो वा यावद्वितस्तुर्यावन्तं कालं स्थितास्तावन्तं ग्रहं गृह्णामि सर्वस्मिन्देशे सर्वस्मिन्काले त्वदीयं ग्रहमूर्जा सारेण सहास्तृतमविनाशितं यथा भवति तथा गृह्णामि । सोऽयं मन्त्रो ग्रहप्रपाठक इन्द्र मरुत्व इत्यस्मादनुवाकादूर्ध्वं द्रष्टव्यः ।

यदुक्तं सूत्रकारेण-पृषदाज्यं स्कन्नमभिमन्त्र्यापोऽभ्यवहृत्य निर्णिज्य स्रुच शतमानं हिरण्यं स्रुच्यवधायेदं विष्णुर्विचक्रम इत्यन्यत्पृषदाज्यं गृहीत्वाऽश्वेनावघ्राप्याऽऽयतने सदयेत्’ इति । तत पुनर्ग्रहणं विधत्ते —

यत्कृष्णशकुन इति । पृषद्भिर्दधिबिन्दुभिर्मिश्रमाज्यं पृषदाज्यम् । तस्य पक्षिस्पर्शे श्वस्पर्शे भूमिपतनेन विनाशे च पुनर्ग्रहणं प्रायश्चित्तं तेन पशुविनाशो न भवति ।

तदेतत्पुनर्ग्रहणं पशुविनाशदोषपरिहारेण प्रशस्य प्राणविनाशदोषपरिहारेणापि प्रसंसति —

प्राणो वा इति । ग्रहणपात्रे हिरण्यस्य प्रक्षेपं तत्परिमाणं च क्रमेण’ विधत्ते —

हिरण्यमवधायेति । गृहीतस्य पृषदाज्यस्याश्वमुखस्पर्शनं विधत्ते —

अश्वभवेति । अश्वस्य प्रजापत्यक्षिजन्यत्वात्प्राणस्य च स प्राणमसृजतेत्यादिश्रुतौ प्रजापतिसृष्टत्वाभिधानाच्च तयोरेककार्यत्वे सति प्राणस्य स्वकीययोनिरूपादश्वान्निर्माणं सिध्यति ।

पृषदाज्यस्य पुनर्ग्रहणे विष्णो त्वं नो अन्तम इति मन्त्रं विधत्ते —

वि वा इति । विष्णो त्वं न इति मन्त्रो जुष्टो वाच हत्यनुवाके व्याख्यातः । आपस्तम्बस्य मते त्विदं विष्णुरिति वैष्णवी । सा च युञ्जते मन इत्यत्र व्याख्याता ।

अत्र विनियोगसंग्रहः —

महीति पृषदाज्ये स्याद्यावतीति दघिग्रहे ।

इदं विष्णुर्वैष्णवी स्यादिह मन्त्रास्त्रयो मताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

द्वितीयप्रपाठके षष्टोऽनुवाकः ॥६ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पृषदाज्यं गृह्णाति - महीनामिति ॥ महीनां महनीयानां गवां पयोसि विश्वेषां देवानां तनूः शरीरं; तत्स्थितिहेतुत्वात् । अद्येदानीं ऋध्यासं वर्धयामि त्वाम् । ऋध्रोतेः ण्यन्तादाशिषि लिङ् । 'बहुलमन्यत्रापि' इति णिलुक् । पृषतीनां ग्रहं मरुतामश्वाः पृषत्यः । श्तृवद्भावात् ङीप् । तासां गृहस्थानीयं त्वाम् । पृषतीनां ग्रहोसि; ग्राहकोसि प्रियतरत्वात् । यद्वा - पृषतीशब्देन मरुतस्स्वोपात् [रुतां स्वा ये] तद्वन्तो मरुत उच्यन्ते । मरुतां स्वभतो ग्रहस्त्वमसीति ॥
2 विष्णोरिति विराड्गायत्री जागतगायत्री वा 'इष' इति प्रथमपादान्तः ॥ विष्णोः यज्ञात्मनः हृदयमिम प्रियोसि । कुत इत्याह - हे इष अन्नवन् । इच्छब्दात् अर्शआदिलक्षणोच्प्रत्ययः । एकं प्रधानं त्वामनु त्वया हेतुना विष्णुर्भगवान् त्रैलोक्यं विचक्रमे । 'अनुर्लक्षणे' इति कर्मप्रवचनीयत्वम् ॥
3 तस्य स्कन्नस्य स्वधासंभरणमन्त्रः - भूतिरिति । इयमपि विराड्गायत्री द्विपदान्ता ॥ भूतिः तवैश्वर्यं दध्ना घृतेन वर्धताम् । तस्य तादृशस्य उद्भूतैश्वर्यस्य इष्टस्य देवानां प्रियस्य देवेभ्यो हुतस्य वीतस्य भक्षितस्य च यद्द्रविणं फलं तन्मां आगम्यात् आगच्छतु वृधा स्कन्नं मा भूदिति ॥
4 दधिधर्ममवेक्षते - ज्योतिरिति ॥ अग्निस्त्वमसि; प्रवर्ग्यभक्तित्वात् वैश्वानरं विश्वेषां नराणां हितत्वेन स्वामित्वेन वा सम्बन्धी वैश्वानरः; आदित्यः तस्य स्वभूतमसि । अभेदेनोच्यते । पृश्नियै पृश्न्याः गोर्दुग्धं पयः । षष्ठ्यर्थे चतुर्थी ॥
5 अथ तस्य ग्रहणमन्त्रः - यावती इति चातुष्पदा बृहती ॥ यावती यावत्यौ यत्प्रमाणे यत्प्रमाणकाले वा द्यावापृथिवी द्यावापृथिव्यौ । उभयत्रापि 'वा छन्दसि' इति पूर्वसवर्णदीधत्वम्, 'देवताद्वद्वे च' इति द्यावापृथिवीशब्द आद्युदात्तः । महित्वा महत्त्वेन । तृतीयाया आजादेशः । यावच्च यावत्कालं सप्त सिन्धवः समुद्राः वितस्थुः विभक्ताः स्थास्यन्ति । छान्दसो वा लिट्, आत्मनेपदाभावश्च । तावन्तं तावत्प्रमाणं तावत्कालस्थायिनं तावत्कालस्थितिहेतुं वा लोकानाम्, हे इन्द्र तव ग्रहं एतं अस्तृतं अहिंसितं ऊर्जा अन्नेन सह गृह्णामि । स्तृ इति ह्रस्वान्तं धात्वन्तरं, स्तृणातेर्वा ह्रस्वत्वम् ॥
6 अथ विकृतपृषदाज्यब्राह्मणं - यत्कृष्णशकुन इत्यादि ॥ कृष्णवर्णशकुनः पक्षी कृष्णशकुनः । पृषद्वर्णमाज्यं पृषदाज्यं पृषद्बिन्दुवन्नानावर्णम् । अवमर्शनं पद्भ्यां स्पर्शनम् । अस्य यजमानस्य शूद्राः

प्रमाणशीलाः मरणशीलाः म्रियतेश्छान्दस उकञ् । पशवो वै पृषदाज्यमिति । तद्धेतुत्वात्ताच्छब्द्यम् । यथोक्तेन पुनर्ग्रहणेन स्कन्नस्योपलक्षणत्वात्सर्वामेध्यत्वान्निवृत्तिः। प्राणो वै पृषदाज्यमिति । पूर्ववत्ताच्छब्द्यम् ।

7 हिरण्यमिति ॥ एतां स्रुचमप्सु प्रवेश्य अन्यस्यां स्रुचि हिरण्यमवधाय तत्पृषदाजं गृह्णाति । नित्यग्रहणमिति केचित् । शतमानमिति शतं मानमस्येति । शतायुः शतसंवत्सरायुः । शतेन्द्रियः शतवीर्यः । शतत्वसंख्यायोगादायुरिन्द्रियलाभः ॥
8 अश्वमिति ॥ अपोद्धृत्य हिरण्यमश्वमवघ्रापयति । अश्वप्राणयोः प्राजापत्यत्वादन्यतरस्यान्वये इदमभिसन्धापयतीति प्राणसिद्धिः ॥
9 वैष्णव्यर्चेति ॥ 'विष्णो त्वं नो अन्तमः' इत्येतामृचमनुवर्तयन् गृह्णाति पृषदाज्यम् विच्छिन्नं यज्ञं यज्ञात्मना विष्णुना सन्तनोति संहितं करोति । बैष्णव्येत्युदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वं, 'उदात्तयणः' इति तृतीयाया उदात्तत्वम्, 'स्वरितो वाऽनुदात्ते पदादौ' इति संहितायामेकादेशस्स्वर्यते । 'सावेकाचः' इति ऋचस्तृतीयाया उदात्तत्वम् ॥
इति तृतीये द्वितीये षष्ठोनुवाकः ॥