पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयाष्टके द्वितीयप्रपाठके सप्तमोऽनुवाकः)
पृषदाज्यं भवेत्षष्ठे मन्त्रश्च दधिघर्मगः ।
कल्पः ‘ब्रह्मन्स्तोष्यामः प्रशास्तरित्युच्यमाने देव सवितरेतत्ते प्राहेत्यनुद्रुत्य रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्युक्त्वों स्तुतेति प्रसौति’ इति । पाठस्तु---
देव सवितरिति । हे सवितर्देवायमुद्गाता स्तोष्याम इत्येतद्वाक्यं ते तुभ्यं प्राह तत्स्तोत्रं त्वं प्रसुव प्रकर्षेणानुज्ञां च दोहि । प्रयज च प्रकर्षेण च यागं निष्पादय । हे उद्वातारो बृहस्पतिरेवाहं ब्रह्मा न तु मनुष्यमात्रः । सोऽहं वो ब्रवीमीति शेषः । आयुष्मत्या ऋचो मा गात । आयु स्थानीयो निर्वाहोऽस्यामृच्यस्तीति आयुष्मती । तस्या ऋचः सकाशान्माऽपगच्छत ऋगक्षरोञ्चारणे सावधाना भवतेत्यर्थः । तथा तनूपात्साम्नो मा गच्छत । स्तोत्रस्य तनूः शरीरमेव ऋक्तां तनूं पतिति तनूपं साम । ऋगक्षराभिव्यक्तिर्हि साम्ना क्रियते । तत स्तस्मिन्यूयमप्रमत्ता भवतेति । गीयमाने स्तोत्रे वो युष्माकं संबन्धिन्यो यजमानविषया आशिषो याः सन्ति ताः सर्वाः सत्याः सन्तु । याश्च भवतामाकूतयः संकल्परूपास्ता अपि सत्याः सन्तु । यूयं मनसर्तं यथार्थं स्मरत । वाचा च सत्यं वदत । सवितुर्देवस्य प्रसवेऽनुज्ञायां सत्यां स्तुत स्तोत्रं पठत ।
कल्पः — “स्तुतस्य स्तुतमतीति स्तोत्रमनुमन्त्रयते शस्त्रस्य शस्त्रमसीति शस्त्रमिन्द्रियावन्तो वनामह इत्युभयत्रानुषजति” इति । पाठस्तु — स्तुतस्येति । सोऽयं मन्त्रो याजमानः । उद्गातृभिर्गीयमान हे स्तोत्र त्वं स्तुतस्य स्तुतमसि स्तोत्रस्यापि स्तोत्रमसि । स्तोत्रजातावुत्तममसीत्यर्थः । तादृशं स्तुतं स्तोत्ररूपं त्वां मह्यं मदर्थमूर्जं दुहां सारं दुहे । ततः स्तुतस्य स्तुतमुत्तमं स्तोत्रं मां प्रत्यागम्यादागच्छतु । एवं होतुभिः शस्यमान हे शस्त्र त्वं शस्त्रस्य शस्त्रमसि शस्त्रजातावुत्तममसि । शेषं पूर्ववत् । युवयोः स्तुतशस्त्रयोः प्रसादादिन्द्रिवावन्त इभ्द्रियैरविकलैर्युक्ताः सन्तो वनामहे स्वापेक्षितफलं भजामहे । प्रजां पुत्रादिरूपामिषमन्नं च धुक्षीमहि संपादयामः । किंच देवेषु विषयभूतेषु मे मदीया यजामीत्याशीर्याऽस्ति सा सत्या भूयात् । ब्रह्मवर्चसं यज्ञानुष्ठानरूपं मां प्रत्या गम्यादागच्छतु । उत्तरोत्तरमभिवर्धतामित्वर्थः । इदानीमनुष्ठीयमानो यज्ञः संपूर्णो भवति । स यज्ञ आबभूव पुगरप्यावृत्तो भवतु स यज्ञ प्रजज्ञेऽस्माननालस्येनानुष्ठातृन्प्रति प्रजातवान् । अत एवास्मद्गृहे स यज्ञो वावृधे पुनः पुनरनुष्ठानेन वर्धताम् । स यज्ञोऽस्माभिरिज्यमानानां देवानामधिकं पालयिता भवतु । स यज्ञोऽस्मानप्यधिपतीनधिकमनुष्ठानस्य पालकान्करोतु । वयमपि तस्य यज्ञपुरुषस्य प्रसादाद्रयीणां यज्ञसाधनानां धनानां पतयो भूयास्म ।
तदिदमनुमन्त्रणं स्तुतशस्त्रयोर्दोह इति वैदिकैः परिभाष्यते, तमिमं दोहं विधत्ते —
यज्ञो वा वा इति । अत्र दोहनं नाम रिक्तीकरणं गा दोग्धीत्यत्र तद्दर्शनात् । तथा सत्येतद्विचार्यते-किं यज्ञो यजमानं रिक्ती करोति किंवा यजमानो यज्ञमिति । तत्र यतो दोहनविद्वान्यः कोऽपि दोहनामकमभिमन्त्रणमज्ञात्वा यजेत तमेवं पुरुषं यज्ञो रिक्ती करोति । स चेष्ट्या दरिद्रो भवति । विद्वांस्तु यज्ञं दुग्ध्वा वसीयान्भवतीति । यद्यप्येतदभिमन्त्रणं सर्वत्र संचारि तथाऽपि वहिष्प वमानस्तोत्रस्याऽऽज्यशस्त्रस्य प्रथमभावित्त्वात्तदर्थस्तोत्रमन्त्र ऋतुग्रहानुवाकात्प्राक्पठयीयः । शस्त्रमन्त्रस्त्वैन्द्राग्नग्रहानुवाकादूर्ध्वं पठनीयः । अत्र विनियोगसंग्रहः —
देव ब्रह्मा सौति गातॄन्स्तुतस्य यजमानकः ।
स्तोत्रं समन्त्र्य शस्त्रस्य मन्त्रयेच्छस्त्रमेतयोः ॥
इन्द्रः शेषः स णामन्ते मन्त्रा अत्र त्रयो मताः ॥
अत्र प्रथममन्त्र ऋचो मा गात तनूपात्साम्न इत्यत्राक्षराभिव्यञ्जकतया सामानि ऋचः शरीरं रक्षन्तीत्युक्तम् । सोऽयमर्थो नवमाध्यायस्य द्वितीयपादे मीमांसितः —
“सामर्चं प्रति मुख्यं स्याद्गुणो वा बाह्यपाठतः ।
मुख्यमभ्यसितुं पाठो गुणो गीताक्षरः स्तुतेः” ॥
रथंतरं गायतीत्यादौ यद्गानं विहितं तदेतत्सामशब्दार्थ इति प्रतिपादितं स्मारितं च । तदेतद्रानमृचं प्रति प्रधानकर्म स्यात् । कुतः । यागप्रयोगाद्बहिरध्ययनकालेऽपि पठ्यमानत्वात् । गुणकर्म चेद्ब्रीहिप्रोक्षणादिवद्यागप्रयोऽमध्य एव गानमुष्ठीयेत । ततो यागाद्बाहिर्गानस्य विश्वजिदादिवत्फलं कल्पनीयम् । मध्यकालीनं गानं तु प्रयाजादिवदुपकारकम् । तस्मान्मुख्यमेतन्न गुणकर्मेति प्राप्ते ब्रूमः — न तावद्बहिः पाठः प्रधानकर्मत्वं कल्पयितुं शक्नोति । भूमिरथिकशुष्केष्टिन्यायेन प्रयोगपाटवाय गानाध्ययनोपपत्तेः । यथा भूमिरथिको भूमौ रथमालिख्याभ्यासं करोति यथा छात्रः शुष्केष्ट्या प्रयोगपाटवं संपादयति तद्वत् । नापि गुणकर्मत्वे प्रयोजनाभावात्प्रधानकर्मत्वमिति वाच्यम् । गानेन संस्कृतैर्ऋगक्षरैः स्तुतिसंभवात् । आज्यः स्तुवते पृष्ठैः स्तुवत इति स्तुतिविधानात् । तस्पादृगक्षराणां स्वरविशिष्ठत्वाक्षराभिव्यक्तिर्दृष्टं प्रयोजनमिति । अदृष्टस्याकल्पनीयत्वाद्रानं संस्कारकर्म ।
द्वितीयाध्यायस्य प्रथमपादे चिन्तितम्--
“प्रउगं शंसतीत्यादौ गुणतोत प्रधानता ।
दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ॥
स्मृत्यर्थत्वे स्तौतिशस्योर्धात्वोः श्रौतार्थबाधनम् ।
तेनादृष्टमपेत्यापि प्राधान्यं * स्तुतये मतम् ॥
ज्योतिष्ठोमे श्रूयते--- “प्रउगं शंसति निष्केवल्यं शंसति आज्यै स्तुवते पृष्ठैः स्तुवते” इति । प्रउगनिष्केवलयशब्दौ शस्त्रविशेषनामनी । आज्यपृष्ठशब्दौ तु स्तोत्रवाचित्वेन चित्राधिकरणे व्याख्यातौ । अप्रगीतमन्त्रसाध्या स्तुतिः शास्त्रं, प्रमीतमन्त्रसाध्या स्तुतिः स्तोत्रं, तयोः स्तुतशस्त्रयोर्गणकर्मत्वं युक्तम् । तुषविमोकवद्दृष्टार्थत्वलाभात् । पठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता संस्क्रियत इति प्राप्ते ब्रूमः — स्तोतव्याया देवतायाः स्तावकैर्गुंणैः संबन्धः स्तौतिशंसतिधात्वोर्वाच्योऽर्थः । यदि मन्त्रवाक्यानि (णि) गुणसंबन्धाभिधानपराणि तदा धात्वोर्मुख्यार्थलाभाच्छ्रतिरनुगृहीता भविष्यति । यदा तु गुणद्वारेणानुस्मरणीयदेवतास्वरूपप्रकाशनपराणि मन्त्रवाक्यानि (णि) स्युस्तदा धात्वोर्मुख्यार्थो न स्यात् । लोके हि देवदत्तश्चतुर्वेदाभिज्ञ इत्युक्तः स्तुतिः प्रतीयते । तस्य वाक्यस्य गुणसंबन्धपरत्वात् । (* यश्चतुर्वेदाभिज्ञो देवदत्तस्तमाकारयेत्युक्तौ स्तुतिर्न भवत्याकारणपरत्वेन वाक्यस्य गुणसंबन्धपरत्वाभावात् । तथाऽत्रापि पठ्यमानगुणविशिष्टो यः स देव इत्येव मन्त्रवाक्यानां (णां) देवताप्रकाशनपरत्वं तावच्चेत्स्यात्) ततश्चाऽऽज्यैर्देवं प्रकाशयेत्पृष्ठैर्देवं प्रकाशयेदित्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्यार्थो बाध्येत । ततो धातुस्तुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम् । तत्र दृष्टं प्रयोजनं नास्तीति चेत् । तर्ह्यपर्वमस्तु ॥
श्रीमत्सायणार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः ॥७ ॥