अनुवाकः 2 TS 4.5.2

(A2)

(वना॑नां॒ पत॑ये॒ नमो॒ नम॒ - एका॒न्नत्रिꣳ॒॒शच्च॑ )

अनुवाकः 2 - Complete Audio

TS 4.5.2 - स्वरानुगामी

0:00 0:00
PS1.1 नमो॒ हिर॑ण्य बाहवे सेना॒न्ये॑
PS1.2 दि॒शांच॒ पत॑ये॒ नमो॒ नमो॑
PS1.3 वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒
PS1.4 नमो॒ नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते
PS1.5 पथी॒नां पत॑ये॒ नमो॒ नमो॑
PS1.6 बभ्लु॒शाय॑ विव्या॒धिने-ऽन्ना॑नां॒ पत॑ये॒ नमो॒
PS1.7 नमो॒ हरि॑केशायो-पवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒
PS1.8 नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै
PS1.9 जग॑तां॒ पत॑ये॒ नमो॒ नमो॑
PS1.10 रु॒द्राया॑-तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒
PS1.11 नमः॑ सू॒ताया-ह॑न्त्याय॒ वना॑नां॒ पत॑ये॒
PS1.12 नमो॒ नमो॒ - [
PS1.13 ]
PS2.1 रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒
PS2.2 नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒
PS2.3 कक्षा॑णां॒ पत॑ये॒ नमो॒ नमो॑
PS2.4 भुव॒न्तये॑ वारिवस्कृ॒ता-यौष॑धीनां॒ पत॑ये॒ नमो॒
PS2.5 नम॑ उ॒च्चै-र्घो॑षाया क्र॒न्दय॑ते पत्ती॒नां
PS2.6 पत॑ये॒ नमो॒ नमः॑ कृथ्स्नवी॒ताय॒
PS2.7 धाव॑ते॒ सत्त्व॑नां॒ पत॑ये॒ नमः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.5.2.1 TS 4.5.2.1
नमो॒ हिर॑ण्य बाहवे सेना॒न्ये॑ दि॒शांच॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॑ बभ्लु॒शाय॑ विव्या॒धिने-ऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॒ हरि॑केशायो-पवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑-तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒ताया-ह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒ नमो॒ - [ ]
पदपाठः (Word-by-word)
नमः॑ । हिर॑ण्यबाहव॒ इति॒ हिर॑ण्य - बा॒ह॒वे॒ । से॒ना॒न्य॑ इति॑ सेना - न्ये᳚ । दि॒शाम् । च॒ । पत॑ये । नमः॑ । नमः॑ । वृ॒क्षेभ्यः॑ । हरि॑केशेभ्य॒ इति॒ हरि॑ - के॒शे॒भ्यः॒ । प॒शू॒नाम् । पत॑ये । नमः॑ । नमः॑ । स॒स्पिञ्ज॑राय । त्विषी॑मत॒ इति॒ त्विषि॑ - म॒ते॒ । प॒थी॒नाम् । पत॑ये । नमः॑ । नमः॑ । ब॒भ्लु॒शाय॑ । वि॒व्या॒धिन॒ इति॑ वि - व्या॒धिने᳚ । अन्ना॑नाम् । पत॑ये । नमः॑ । नमः॑ । हरि॑केशा॒येति॒ हरि॑ - के॒शा॒य॒ । उ॒प॒वी॒तिन॒ इत्यु॑प - वी॒तिने᳚ । पु॒ष्टाना᳚म् । पत॑ये । नमः॑ । नमः॑ । भ॒वस्य॑ । हे॒त्यै । जग॑ताम् । पत॑ये । नमः॑ । नमः॑ । रु॒द्राय॑ । आ॒त॒ता॒विन॒ इत्या᳚ - त॒ता॒विने᳚ । क्षेत्रा॑णाम् । पत॑ये । नमः॑ । नमः॑ । सू॒ताय॑ । अह॑न्त्याय । वना॑नाम् । पत॑ये । नमः॑ । नमः॑ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.5.2.2 TS 4.5.2.2
रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒ता-यौष॑धीनां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चै-र्घो॑षाया क्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒ नमः॑ कृथ्स्नवी॒ताय॒ धाव॑ते॒ सत्त्व॑नां॒ पत॑ये॒ नमः॑ ॥
पदपाठः (Word-by-word)
रोहि॑ताय । स्थ॒पत॑ये । वृ॒क्षाणा᳚म् । पत॑ये । नमः॑ । नमः॑ । म॒न्त्रिणे᳚ । वा॒णि॒जाय॑ । कक्षा॑णाम् । पत॑ये । नमः॑ । नमः॑ । भु॒व॒न्तये᳚ । वा॒रि॒व॒स्कृ॒तायेति॑ वारिवः - कृ॒ताय॑ । ओष॑धीनाम् । पत॑ये । नमः॑ । नमः॑ । उ॒च्चैर्घो॑षा॒येत्यु॒च्चैः - घो॒षा॒य॒ । आ॒क्र॒न्दय॑त॒ इत्या᳚-क्र॒न्दय॑ते । प॒त्ती॒नाम् । पत॑ये । नमः॑ । नमः॑ । कृ॒थ्स्न॒वी॒तायेति॑ कृथ्स्न-वी॒ताय॑ । धाव॑ते । सत्त्व॑नाम् । पत॑ये । नमः॑ ॥
पदसंख्या: 29