अनुवाकः 8 TS 4.5.8

(A8)

(शि॒वत॑राय च - त्रिꣳ॒॒शच्च॑)

अनुवाकः 8 - Complete Audio

TS 4.5.8 - स्वरानुगामी

0:00 0:00
PS1.1 नमः॒ सोमा॑य च रु॒द्राय॑
PS1.2 च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒
PS1.3 नमः॑ श॒ङ्गाय॑ च पशु॒पत॑ये
PS1.4 च॒ नम॑ उ॒ग्राय॑ च
PS1.5 भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑
PS1.6 च दूरेव॒धाय॑ च॒ नमो॑
PS1.7 ह॒न्त्रे च॒ हनी॑यसे च॒
PS1.8 नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॒
PS1.9 नमः॑ श॒भंवे॑ च मयो॒भवे॑
PS1.10 च॒ नमः॑ शङ्क॒राय॑ च
PS1.11 मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑
PS1.12 च शि॒वत॑राय च॒ -
PS1.13 [ ]
PS2.1 नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒
PS2.2 नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒
PS2.3 नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒
PS2.4 नम॑ आता॒र्या॑य चाला॒द्या॑य च॒
PS2.5 नमः॒ शष्प्या॑य च॒ फेन्या॑य
PS2.6 च॒ नमः॑ सिक॒त्या॑य च
PS2.7 प्रवा॒ह्या॑य च

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.5.8.1 TS 4.5.8.1
नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒ नमः॑ श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॒ नमः॑ श॒भंवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ - [ ]
पदपाठः (Word-by-word)
नमः॑ । सोमा॑य । च॒ । रु॒द्राय॑ । च॒ । नमः॑ । ता॒म्राय॑ । च॒ । अ॒रु॒णाय॑ । च॒ । नमः॑ । श॒ङ्गाय॑ । च॒ । प॒शु॒पत॑य॒ इति॑ पशु-पत॑ये । च॒ । नमः॑ । उ॒ग्राय॑ । च॒ । भी॒माय॑ । च॒ । नमः॑ । अ॒ग्रे॒व॒धायेत्य॑ग्रे - व॒धाय॑ । च॒ । दू॒रे॒व॒धायेति॑ दूरे - व॒धाय॑ । च॒ । नमः॑ । ह॒न्त्रे । च॒ । हनी॑यसे । च॒ । नमः॑ । वृ॒क्षेभ्यः॑ । हरि॑केशेभ्य॒ इति॒ हरि॑ - के॒शे॒भ्यः॒ । नमः॑ । ता॒राय॑ । नमः॑ । श॒भंव॒ इति॑ शं - भवे᳚ । च॒ । म॒यो॒भव॒ इति॑ मयः - भवे᳚ । च॒ । नमः॑ । श॒ङ्क॒रायेति॑ शं - क॒राय॑ । च॒ । म॒य॒स्क॒रायेति॑ मयः - क॒राय॑ । च॒ । नमः॑ । शि॒वाय॑ । च॒ । शि॒वत॑रा॒येति॑ शि॒व - त॒रा॒य॒ । च॒ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.5.8.2 TS 4.5.8.2
नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॑ आता॒र्या॑य चाला॒द्या॑य च॒ नमः॒ शष्प्या॑य च॒ फेन्या॑य च॒ नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥
पदपाठः (Word-by-word)
नमः॑ । तीर्थ्या॑य । च॒ । कूल्या॑य । च॒ । नमः॑ । पा॒र्या॑य । च॒ । अ॒वा॒र्या॑य । च॒ । नमः॑ । प्र॒तर॑णा॒येति॑ प्र - तर॑णाय । च॒ । उ॒त्तर॑णा॒येत्यु॑त् - तर॑णाय । च॒ । नमः॑ । आ॒ता॒र्या॑येत्या᳚-ता॒र्या॑य । च॒ । आ॒ला॒द्या॑येत्या᳚ - ला॒द्या॑य। च॒ । नमः॑ । शष्प्या॑य । च॒ । फेन्या॑य । च॒ । नमः॑ । सि॒क॒त्या॑य । च॒ । प्र॒वा॒ह्या॑येति॑ प्र - वा॒ह्या॑य । च॒ ।
पदसंख्या: 30