अनुवाकः 11 TS 4.5.11

(A11)

(ती॒र्थानि॒ - यश्च॒ - षट् च॑ )

अनुवाकः 11 - Complete Audio

TS 4.5.11 - स्वरानुगामी

0:00 0:00
PS1.1 स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा
PS1.2 अधि॒ भूम्यां᳚
PS1.3 तेषाꣳ॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि
PS1.4 अ॒स्मिन्-म॑ह॒त्य॑र्ण॒वे᳚-ऽन्तरि॑क्षे भ॒वा अधि॑
PS1.5 नील॑ग्रीवाः शिति॒कण्ठाः᳚ श॒र्वा अ॒धः क्ष॑माच॒राः
PS1.6 नील॑ग्रीवाः शिति॒कण्ठा॒ दिवꣳ॑ रु॒द्रा उप॑श्रिताः
PS1.7 ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः
PS1.8 ये भू॒ताना॒-मधि॑पतयो विशि॒खासः॑ कप॒र्दि॑नः
PS1.9 ये अन्ने॑षु वि॒विद्ध्य॑न्ति॒ पात्रे॑षु॒
PS1.10 पिब॑तो॒ जनान्॑
PS1.11 ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑
PS1.12 ये ती॒र्थानि॑ - [ ]
PS2.1 प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑
PS2.2 य ए॒ताव॑न्तश्च॒ भूयाꣳ॑सश्च॒ दिशो॑
PS2.3 रु॒द्रा वि॑तस्थि॒रे
PS2.4 तेषाꣳ॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि
PS2.5 नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां
PS2.6 ॅये᳚ऽन्तरि॑क्षे॒ ये दि॒वि येषा॒मन्नं॒
PS2.7 ॅवातो॑ व॒र्॒.षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒
PS2.8 र्दश॑दक्षि॒णा दश॑प्र॒तीची॒ र्दशोदी॑ची॒ र्दशो॒र्द्ध्वा-स्तेभ्यो॒
PS2.9 नम॒स्ते नो॑ मृडयन्तु॒ ते
PS2.10 यं द्वि॒ष्मो यश्च॑ (
PS2.11 ) नो॒ द्वेष्टि॒ तं
PS2.12 ॅवो॒ जंभे॑ दधामि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.5.11.1 TS 4.5.11.1
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्यां᳚ । तेषाꣳ॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ॥ अ॒स्मिन्-म॑ह॒त्य॑र्ण॒वे᳚-ऽन्तरि॑क्षे भ॒वा अधि॑ ॥ नील॑ग्रीवाः शिति॒कण्ठाः᳚ श॒र्वा अ॒धः क्ष॑माच॒राः ॥ नील॑ग्रीवाः शिति॒कण्ठा॒ दिवꣳ॑ रु॒द्रा उप॑श्रिताः ॥ ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ॥ ये भू॒ताना॒-मधि॑पतयो विशि॒खासः॑ कप॒र्दि॑नः ॥ ये अन्ने॑षु वि॒विद्ध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ ॥ ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ ॥ ये ती॒र्थानि॑ - [ ]
पदपाठः (Word-by-word)
स॒हस्रा॑णि । स॒ह॒स्र॒श इति॑ सहस्र - शः । ये । रु॒द्राः । अधीति॑ । भूम्या᳚म् ॥ तेषा᳚म् । स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्र - यो॒ज॒ने । अवेति॑ । धन्वा॑नि । त॒न्म॒सि॒ ॥ अ॒स्मिन्न् । म॒ह॒ति । अ॒र्ण॒वे । अ॒न्तरि॑क्षे । भ॒वाः । अधि॑ ॥ नील॑ग्रीवा॒ इति॒ नील॑ - ग्री॒वाः॒ । शि॒ति॒कण्ठा॒ इति॑ शिति - कण्ठाः᳚ । श॒र्वाः । अ॒धः । क्ष॒मा॒च॒राः ॥ नील॑ग्रीवा॒ इति॒ नील॑-ग्री॒वाः॒ । शि॒ति॒कण्ठा॒ इति॑ शिति - कण्ठाः᳚ । दिव᳚म् । रु॒द्राः । उप॑श्रिता॒ इत्युप॑ - श्रि॒ताः॒ ॥ ये । वृ॒क्षेषु॑ । स॒स्पिञ्ज॑राः । नील॑ग्रीवा॒ इति॒ नील॑ - ग्री॒वाः॒ । विलो॑हिता॒ इति॒ वि - लो॒हि॒ताः॒ ॥ ये । भू॒ताना᳚म् । अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ । वि॒शि॒खास॒ इति॑ वि -शि॒खासः॑ । क॒प॒र्दिनः॑ ॥ ये । अन्ने॑षु । वि॒विद्ध्य॒न्तीति॑ वि-विद्ध्य॑न्ति । पात्रे॑षु । पिब॑तः । जनान्॑ ॥ ये । प॒थाम् । प॒थि॒रक्ष॑य॒ इति॑ पथि - रक्ष॑यः । ऐ॒ल॒बृ॒दाः । य॒व्युधः॑ ॥ ये । ती॒र्थानि॑ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.5.11.2 TS 4.5.11.2
प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ ॥ य ए॒ताव॑न्तश्च॒ भूयाꣳ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ॥ तेषाꣳ॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ॥ नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां ॅये᳚ऽन्तरि॑क्षे॒ ये दि॒वि येषा॒मन्नं॒ ॅवातो॑ व॒र्॒.षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒ र्दश॑दक्षि॒णा दश॑प्र॒तीची॒ र्दशोदी॑ची॒ र्दशो॒र्द्ध्वा-स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ ( ) नो॒ द्वेष्टि॒ तं ॅवो॒ जंभे॑ दधामि ॥
पदपाठः (Word-by-word)
प्र॒चर॒न्तीति॑ प्र - चर॑न्ति । सृ॒काव॑न्त॒ इति॑ सृ॒का - व॒न्तः॒ । नि॒ष॒ङ्गिण॒ इति॑ नि - स॒ङ्गिनः॑ ॥ ये । ए॒ताव॑न्तः । च॒ । भूयाꣳ॑सः । च॒ । दिशः॑ । रु॒द्राः । वि॒त॒स्थि॒र इति॑ वि - त॒स्थि॒रे ॥ तेषा᳚म् । स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्र - यो॒ज॒ने । अवेति॑ । धन्वा॑नि । त॒न्म॒सि॒ ॥ नमः॑ । रु॒द्रेभ्यः॑ । ये । पृ॒थि॒व्याम् । ये । अ॒न्तरि॑क्षे । ये । दि॒वि । येषा᳚म् । अन्न᳚म् । वातः॑ । व॒र्॒.षम् । इष॑वः । तेभ्यः॑ । दश॑ । प्राचीः᳚ । दश॑ । द॒क्षि॒णा । दश॑ । प्र॒तीचीः᳚ । दश॑ । उदी॑चीः । दश॑ । ऊ॒द्‌र्ध्वाः । तेभ्यः॑ । नमः॑ । ते । नः॒ । मृ॒ड॒य॒न्तु॒ । ते॒ । यम् । द्वि॒ष्मः । यः । च॒ ( ) । नः॒ । द्वेष्टि॑ । तम् । वः॒ । जंभे᳚ । द॒धा॒मि॒ ॥
पदसंख्या: 56