अनुवाकः 10 TS 4.5.10

(A10)

(अ॒स्मिꣳ-स्त॒नुवः॑-स्तु॒हि-पिना॑क॒-मेका॒न्नत्रिꣳ॒॒शच्च॑)

अनुवाकः 10 - Complete Audio

TS 4.5.10 - स्वरानुगामी

0:00 0:00
PS1.1 द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित
PS1.2 ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा
PS1.3 भे र्माऽरो॒ मो ए॑षां॒
PS1.4 किञ्च॒नाम॑मत्
PS1.5 या ते॑ रुद्र शि॒वा
PS1.6 त॒नूः शि॒वा वि॒श्वाह॑भेषजी
PS1.7 शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑
PS1.8 नो मृड जी॒वसे᳚
PS1.9 इ॒माꣳ रु॒द्राय॑ त॒वसे॑ कप॒र्दिने᳚
PS1.10 क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिं
PS1.11 यथा॑ नः॒ शमस॑द् द्वि॒पदे॒
PS1.12 चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑
PS1.13 अ॒स्मि - [ ]
PS2.1 न्नना॑तुरं
PS2.2 मृ॒डा नो॑ रुद्रो॒ तनो॒
PS2.3 मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम
PS2.4 ते
PS2.5 यच्छं च॒ योश्च॒ मनु॑राय॒जे
PS2.6 पि॒ता तद॑श्याम॒ तव॑ रुद्र॒
PS2.7 प्रणी॑तौ
PS2.8 मा नो॑ म॒हान्त॑मु॒त मा
PS2.9 नो॑ अर्भ॒कं मा न॒
PS2.10 उक्ष॑न्तमु॒त मा न॑ उक्षि॒तं
PS2.11 मा नो॑ वधीः पि॒तरं॒
PS2.12 मोत मा॒तरं॑ प्रि॒या मा
PS2.13 न॑स्त॒नुवो॑ - [ ]
PS3.1 रुद्र रीरिषः
PS3.2 मा न॑स्तो॒के तन॑ये॒ मा
PS3.3 न॒ आयु॑षि॒ मा नो॒
PS3.4 गोषु॒ मा नो॒ अश्वे॑षु
PS3.5 रीरिषः
PS3.6 वी॒रान् मानो॑ रुद्र भामि॒तो
PS3.7 व॑धीर्. ह॒विष्म॑न्तो॒ नम॑सा विधेम
PS3.8 ते
PS3.9 आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने
PS3.10 क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु
PS3.11 रक्षा॑ च नो॒ अधि॑
PS3.12 च देव ब्रू॒ह्यधा॑ च
PS3.13 नः॒ शर्म॑ यच्छ द्वि॒बर्.हाः᳚
PS3.14 स्तु॒हि - [ ]
PS4.1 श्रु॒तं ग॑र्त्त॒सदं॒ ॅयुवा॑नं मृ॒गं
PS4.2 न भी॒म-मु॑पह॒त्नु-मु॒ग्रं
PS4.3 मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो
PS4.4 अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेनाः᳚
PS4.5 परि॑णो रु॒द्रस्य॑ हे॒ति र्वृ॑णक्तु॒
PS4.6 परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः
PS4.7 अव॑ स्थि॒रा म॒घव॑द्भ्य-स्तनुष्व॒ मीढ्व॑स्तो॒काय॒
PS4.8 तन॑याय मृडय
PS4.9 मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑
PS4.10 सु॒मना॑ भव
PS4.11 प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒
PS4.12 कृत्तिं॒ ॅवसा॑न॒ आच॑र॒ पिना॑कं॒
PS4.13 - [ ]
PS5.1 बिभ्र॒दाग॑हि
PS5.2 विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः
PS5.3 यास्ते॑ स॒हस्रꣳ॑ हे॒तयो॒ऽन्य-म॒स्मन्नि व॑पन्तु॒ ताः
PS5.4 स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑
PS5.5 तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.5.10.1 TS 4.5.10.1
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित । ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भे र्माऽरो॒ मो ए॑षां॒ किञ्च॒नाम॑मत् ॥ या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑भेषजी । शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे᳚ ॥ इ॒माꣳ रु॒द्राय॑ त॒वसे॑ कप॒र्दिने᳚ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिं । यथा॑ नः॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मि - [ ]
पदपाठः (Word-by-word)
द्रापे᳚ । अन्ध॑सः । प॒ते॒ । दरि॑द्रत् । नील॑लोहि॒तेति॒ नील॑ - लो॒हि॒त॒ ॥ ए॒षाम् । पुरु॑षाणाम् । ए॒षाम् । प॒शू॒नाम् । मा । भेः । मा । अ॒रः॒ । मो इति॑ । ए॒षा॒म् । किम् । च॒न । आ॒म॒म॒त् ॥ या । ते॒ । रु॒द्र॒ । शि॒वा । त॒नूः । शि॒वा । वि॒श्वाह॑भेष॒जीति॑ वि॒श्वाह॑-भे॒ष॒जी॒ ॥ शि॒वा । रु॒द्रस्य॑ । भे॒ष॒जी । तया᳚ । नः॒ । मृ॒ड॒ । जी॒वसे᳚ ॥ इ॒माम् । रु॒द्राय॑ । त॒वसे᳚ । क॒प॒र्दिने᳚ । क्ष॒यद्वी॑रा॒येति॑ क्ष॒यत् - वी॒रा॒य॒ । प्रेति॑ । भ॒रा॒म॒हे॒ । म॒तिम् ॥ यथा᳚ । नः॒ । शम् । अस॑त् । द्वि॒पद॒ इति॑ द्वि - पदे᳚ । चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ । विश्व᳚म् । पु॒ष्टम् । ग्रामे᳚ । अ॒स्मिन्न् ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.5.10.2 TS 4.5.10.2
न्नना॑तुरं ॥ मृ॒डा नो॑ रुद्रो॒ तनो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ॥ मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तं । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ - [ ]
पदपाठः (Word-by-word)
अना॑तुर॒मित्यना᳚ - तु॒र॒म् ॥ मृ॒ड । नः॒ । रु॒द्र॒ । उ॒त । नः॒ । मयः॑ । कृ॒धि॒ । क्ष॒यद्वी॑रा॒येति॑ क्ष॒यत् - वी॒रा॒य॒ । नम॑सा । वि॒धे॒म॒ । ते॒ ॥ यत् । शम् । च॒ । योः । च॒ । मनुः॑ । आ॒य॒ज इत्या᳚ - य॒जे । पि॒ता । तत् । अ॒श्या॒म॒ । तव॑ । रु॒द्र॒ । प्रणी॑ता॒विति॒ प्र - नी॒तौ॒ ॥ मा । नः॒ । म॒हान्त᳚म् । उ॒त । मा । नः॒ । अ॒र्भ॒कम् । मा । नः॒ । उक्ष॑न्तम् । उ॒त । मा । नः॒ । उ॒क्षि॒तम् ॥ मा । नः॒ । व॒धीः॒ । पि॒तर᳚म् । मा । उ॒त । मा॒तर᳚म् । प्रि॒याः । मा । नः॒ । त॒नुवः॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.5.10.3 TS 4.5.10.3
रुद्र रीरिषः ॥ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान् मानो॑ रुद्र भामि॒तो व॑धीर्. ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु । रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्.हाः᳚ ॥ स्तु॒हि - [ ]
पदपाठः (Word-by-word)
रु॒द्र॒ । री॒रि॒षः॒ ॥ मा । नः॒ । तो॒के । तन॑ये । मा । नः॒ । आयु॑षि । मा । नः॒ । गोषु॑ । मा । नः॒ । अश्वे॑षु । री॒रि॒षः॒ ॥ वी॒रान् । मा । नः॒ । रु॒द्र॒ । भा॒मि॒तः । व॒धीः॒ । ह॒विष्म॑न्तः । नम॑सा । वि॒धे॒म॒ । ते॒ ॥ आ॒रात् । ते॒ । गो॒घ्न इति॑ गो - घ्ने । उ॒त । पू॒रु॒ष॒घ्न इति॑ पूरुष - घ्ने । क्ष॒यद्वी॑रा॒येति॑ क्ष॒यत् - वी॒रा॒य॒ । सु॒म्नम् । अ॒स्मे इति॑ । ते॒ । अ॒स्तु॒ ॥ रक्ष॑ । च॒ । नः॒ । अधीति॑ । च॒ । दे॒व॒ । ब्रू॒हि॒ । अध॑ । च॒ । नः॒ । शर्म॑ । य॒च्छ॒ । द्वि॒बर्.हा॒ इति॑ द्वि - बर्.हाः᳚ ॥ स्तु॒हि ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.5.10.4 TS 4.5.10.4
श्रु॒तं ग॑र्त्त॒सदं॒ ॅयुवा॑नं मृ॒गं न भी॒म-मु॑पह॒त्नु-मु॒ग्रं । मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेनाः᳚ ॥ परि॑णो रु॒द्रस्य॑ हे॒ति र्वृ॑णक्तु॒ परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्भ्य-स्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥ मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव ।प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ ॅवसा॑न॒ आच॑र॒ पिना॑कं॒ - [ ]
पदपाठः (Word-by-word)
श्रु॒तम् । ग॒र्त्त॒सद॒मिति॑ गर्त्त-सद᳚म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ह॒त्नुम् । उ॒ग्रम् ॥ मृ॒ड । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नीति॑ । व॒प॒न्तु॒ । सेनाः᳚ ॥ परीति॑ । नः॒ । रु॒द्रस्य॑ । हे॒तिः । वृ॒ण॒क्तु॒ । परीति॑ । त्वे॒षस्य॑ । दु॒र्म॒तिरिति॑ दुः - म॒तिः । अ॒घा॒योरित्य॑घ - योः ॥ अवेति॑ । स्थि॒रा । म॒घव॑द्भ्य॒ इति॑ म॒घव॑त् - भ्यः॒ । त॒नु॒ष्व॒ । मीढ्वः॑ । तो॒काय॑ । तन॑याय । मृ॒ड॒य॒ ॥ मीढु॑ष्ट॒मेति॒ मीढुः॑ - त॒म॒ । शिव॑त॒मेति॒ शिव॑ - त॒म॒ । शि॒वः । नः॒ । सु॒मना॒ इति॑ सु - मनाः᳚ । भ॒व॒ ॥ प॒र॒मे । वृ॒क्षे । आयु॑धम् । नि॒धायेति॑ नि - धाय॑ । कृत्ति᳚म् । वसा॑नः । एति॑ । च॒र॒ । पिना॑कम् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 4.5.10.5 TS 4.5.10.5
बिभ्र॒दाग॑हि ॥ विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्रꣳ॑ हे॒तयो॒ऽन्य-म॒स्मन्नि व॑पन्तु॒ ताः ॥ स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑ । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥
पदपाठः (Word-by-word)
बिभ्र॑त् । एति॑ । ग॒हि॒ ॥ विकि॑रि॒देति॒ वि - कि॒रि॒द॒ । विलो॑हि॒तेति॒ वि - लो॒हि॒त॒ । नमः॑ । ते॒ । अ॒स्तु॒ । भ॒ग॒व॒ इति॑ भग - वः॒ ॥ याः । ते॒ । स॒हस्र᳚म् । हे॒तयः॑ । अ॒न्यम् । अ॒स्मत् । नीति॑ । व॒प॒न्तु॒ । ताः ॥ स॒हस्रा॑णि । स॒ह॒स्र॒धेति॑ सहस्र-धा । बा॒हु॒वोः । तव॑ । हे॒तयः॑ ॥ तासा᳚म् । ईशा॑नः । भ॒ग॒व॒ इति॑ भग - वः॒ । प॒रा॒चीना᳚ । मुखा᳚ । कृ॒धि॒ ॥
पदसंख्या: 29