पञ्चशत् 1 #
नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ । नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥ या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ॥ या ते॑ रुद्र शि॒वा त॒नूरघो॒रा ऽपा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ॥ यामिषुं॑ गिरिशन्त॒ हस्ते॒ - [ ]
पदपाठः (Word-by-word)
नमः॑ । ते॒ । रु॒द्र॒ । म॒न्यवे᳚ । उ॒तो इति॑ । ते॒ । इष॑वे । नमः॑ ॥ नमः॑ । ते॒ । अ॒स्तु॒ । धन्व॑ने । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । उ॒त । ते॒ । नमः॑ ॥ या । ते॒ । इषुः॑ । शि॒वत॒मेति॑ शि॒व - त॒मा॒ । शि॒वम् । ब॒भूव॑ । ते॒ । धनुः॑ ॥ शि॒वा । श॒र॒व्या᳚ । या । तव॑ । तया᳚ । नः॒ । रु॒द्र॒ । मृ॒ड॒य॒ ॥ या । ते॒ । रु॒द्र॒ । शि॒वा । त॒नूः । अघो॑रा । अपा॑पकाशि॒नीत्यपा॑प-का॒शि॒नी॒ ॥ तया᳚ । नः॒ । त॒नुवा᳚ । शन्त॑म॒येति॒ शं - त॒म॒या॒ । गिरि॑श॒न्तेति॒ गिरि॑ - श॒न्त॒ । अ॒भीति॑ । चा॒क॒शी॒हि॒ ॥ याम् । इषु᳚म् । गि॒रि॒श॒न्तेति॑ गिरि - श॒न्त॒ । हस्ते᳚ ।