पञ्चशत् 1 #
नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमः॑ ककु॒भाय॑ निष॒ङ्गिणे᳚ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒विभ्यो॒ जिघाꣳ॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒ नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॒ - [ ]
पदपाठः (Word-by-word)
नमः॑ । सह॑मानाय । नि॒व्या॒धिन॒ इति॑ नि - व्या॒धिने᳚ । आ॒व्या॒धिनी॑ना॒मित्या᳚ - व्या॒धिनी॑नाम् । पत॑ये । नमः॑ । नमः॑ । क॒कु॒भाय॑ । नि॒ष॒ङ्गिण॒ इति॑ नि-स॒ङ्गिने᳚ । स्ते॒नाना᳚म् । पत॑ये । नमः॑ । नमः॑ । नि॒ष॒ङ्गिण॒ इति॑ नि - स॒ङ्गिने᳚ । इ॒षु॒धि॒मत इती॑षुधि - मते᳚ । तस्क॑राणाम् । पत॑ये । नमः॑ । नमः॑ । वञ्च॑ते । प॒रि॒वञ्च॑त॒ इति॑ परि - वञ्च॑ते । स्ता॒यू॒नाम् । पत॑ये । नमः॑ । नमः॑ । नि॒चे॒रव॒ इति॑ नि - चे॒रवे᳚ । प॒रि॒च॒रायेति॑ परि - च॒राय॑ । अर॑ण्यानाम् । पत॑ये । नमः॑ । नमः॑ । सृ॒का॒विभ्य॒ इति॑ सृका॒वि - भ्यः॒ । जिघाꣳ॑सद्भ्य॒ इति॒ जिघाꣳ॑सत् - भ्यः॒ । मु॒ष्ण॒ताम् । पत॑ये । नमः॑ । नमः॑ । अ॒सि॒मद्भ्य॒ इत्य॑सि॒मत् - भ्यः॒ । नक्त᳚म् । चर॑द्भ्य॒ इति॒ चर॑त् - भ्यः॒ । प्र॒कृ॒न्ताना॒मिति॑ प्र - कृ॒न्ताना᳚म् । पत॑ये । नमः॑ । नमः॑ । उ॒ष्णी॒षिणे᳚ । गि॒रि॒च॒रायेति॑ गिरि - च॒राय॑ । कु॒लु॒ञ्चाना᳚म् । पत॑ये । नमः॑ । नमः॑ ।