य॒ज्ञ् ए॒वान्तरि॑क्षे॒ प्रति॑ तिष्ठती॒डो य॑जति प॒शुष्वे॒व प्रति॑तिष्ठति ब॒र॒.हिर्य॑जति॒ य ए॒व दे॑व॒यानाः॒ पन्था॑न॒स्तेष्वे॒व प्रति॑तिष्ठति स्वाहाका॒रं ॅय॑जति सुव॒र्ग ए॒व लो॒के प्रति॑ तिष्ठत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वं प्रति॑तिष्ठति देवासु॒रा ए॒षु लो॒केष्व॑स्पर्द्धन्त॒ ते दे॒वाः प्र॑या॒जैरे॒भ्यो लो॒केभ्यो ऽसु॑रा॒न् प्राणु॑दन्त॒ तत् प्र॑या॒जानां᳚ - [ ]
पदपाठः (Word-by-word)
य॒ज्ञे । ए॒व । अ॒न्तरि॑क्षे । प्रतीति॑ । ति॒ष्ठ॒ति॒ । इ॒डः । य॒ज॒ति॒ । प॒शुषु॑ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । ब॒र्॒.हिः । य॒ज॒ति॒ । ये । ए॒व । दे॒व॒याना॒ इति॑ देव - यानाः᳚ । पन्था॑नः । तेषु॑ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । स्वा॒हा॒का॒रमिति॑ स्वाहा - का॒रम् । य॒ज॒ति॒ । सु॒व॒र्ग इति॑ सुवः - गे । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ । ए॒ताव॑न्तः । वै । दे॒व॒लो॒का इति॑ देव - लो॒काः । तेषु॑ । ए॒व । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । प्रतीति॑ । ति॒ष्ठ॒ति॒ । दे॒वा॒सु॒रा इति॑ देव-अ॒सु॒राः । ए॒षु । लो॒केषु॑ । अ॒स्प॒र्द्ध॒न्त॒ । ते । दे॒वाः । प्र॒या॒जैरिति॑ प्र-या॒जैः । ए॒भ्यः । लो॒केभ्यः॑ । असु॑रान् । प्रेति॑ । अ॒नु॒द॒न्त॒ । तत् । प्र॒या॒जाना॒मिति॑ प्र - या॒जाना᳚म् ।