अनुवाकः 8 TS 2.6.8

(A8)

(प्रा॒श्नी॒याद्धोता॑ - य॒ज्ञ्ं - नि - र॑हर॒न्त - च्चक्षु॑ - रा॒स्यं॑ किञ्च॒न हि॒नस्ति॒ सो॑ऽबिभे॒ - च्चतु॑श्चत्वारिꣳशच्च )

अनुवाकः 8 - Complete Audio

TS 2.6.8 - स्वरानुगामी

0:00 0:00
PS1.1 प॒शवो॒ वा इडा᳚ स्व॒यमा
PS1.2 द॑त्ते॒ काम॑मे॒वाऽऽत्मना॑ पशू॒नामा द॑त्ते॒
PS1.3 न ह्य॑न्यः कामं॑ पशू॒नां
PS1.4 प्र॒यच्छ॑ति वा॒चस्पत॑ये त्वा हु॒तं
PS1.5 प्राश्ना॒मीत्या॑ह॒ वाच॑मे॒व भा॑ग॒धेये॑न प्रीणाति॒
PS1.6 सद॑स॒स्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह
PS1.7 स्व॒गाकृ॑त्यै चतुरव॒त्तं भ॑वति ह॒विर्वै
PS1.8 च॑तुरव॒त्तं प॒शव॑श्चतुरव॒त्तं ॅयद्धोता᳚ प्राश्नी॒याद्धोता
PS1.9 - [ ]
PS2.1 ऽऽर्ति॒मार्च्छे॒द्-यद॒ग्नौ जु॑हु॒याद्-रु॒द्राय॑ प॒शूनपि॑ दद्ध्यादप॒शुर्यज॑मानः
PS2.2 स्याद्-वा॒चस्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह
PS2.3 प॒रोक्ष॑मे॒वैन॑-ज्जुहोति॒ सद॑स॒स्पत॑ये त्वा हु॒तं
PS2.4 प्राश्ना॒मीत्या॑ह स्व॒गाकृ॑त्यै॒ प्राश्न॑न्ति ती॒र्थ
PS2.5 ए॒व प्राश्न॑न्ति॒ दक्षि॑णां ददाति
PS2.6 ती॒र्थ ए॒व दक्षि॑णां ददाति॒
PS2.7 वि वा ए॒तद्य॒ज्ञ्ं -
PS2.8 [ ]
PS3.1 छि॑न्दन्ति॒ यन्म॑द्ध्य॒तः प्रा॒श्नन्त्य॒द्भि-र्मा᳚र्जयन्त॒ आपो॒
PS3.2 वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व
PS3.3 य॒ज्ञ्ꣳ सं त॑न्वन्ति दे॒वा
PS3.4 वै य॒ज्ञाद्-रु॒द्रम॒न्तरा॑य॒न्थ्स य॒ज्ञ्म॑विद्ध्य॒त् तं
PS3.5 दे॒वा अ॒भि सम॑गच्छन्त॒ कल्प॑तां
PS3.6 न इ॒दमिति॒ ते᳚ऽब्रुव॒न्थ् स्वि॑ष्टं॒
PS3.7 ॅवै न॑ इ॒दं भ॑विष्यति॒
PS3.8 यदि॒मꣳ रा॑धयि॒ष्याम॒ इति॒ तथ्
PS3.9 स्वि॑ष्ट॒कृतः॑ स्विष्टकृ॒त्त्वं तस्या ऽऽवि॑द्धं॒
PS3.10 नि - [ ]
PS4.1 -र॑कृन्त॒न॒. यवे॑न॒ सम्मि॑तं॒ तस्मा᳚द्-यवमा॒त्रमव॑
PS4.2 द्ये॒द्-यज्ज्यायो॑ऽव॒द्-येद्-रो॒पये॒त् तद्-य॒ज्ञ्स्य॒ यदुप॑ च
PS4.3 स्तृणी॒याद॒भि च॑ घा॒रये॑दुभयतः सꣳश्वा॒यि
PS4.4 कु॑र्यादव॒दाया॒भि घा॑रयति॒ द्विः संप॑द्यते
PS4.5 द्वि॒पाद्-यज॑मानः॒ प्रति॑ष्ठित्यै॒ यत् ति॑र॒श्चीन॑-मति॒-हरे॒दन॑भि-विद्धं
PS4.6 ॅय॒ज्ञ्स्या॒भि वि॑द्ध्ये॒दग्रे॑ण॒ परि॑ हरति
PS4.7 ती॒र्थेनै॒व परि॑ हरति॒ तत्
PS4.8 पू॒ष्णे पर्य॑हर॒न् तत् -
PS4.9 [ ]
PS5.1 पू॒षा प्राश्य॑ द॒तो॑ऽरुण॒त् तस्मा᳚त्
PS5.2 पू॒षा प्र॑पि॒ष्टभा॑गोऽद॒न्तको॒ हि तं
PS5.3 दे॒वा अ॑ब्रुव॒न् वि वा
PS5.4 अ॒यमा᳚र्द्ध्यप्राशित्रि॒यो वा अ॒यम॑भू॒दिति॒ तद्-बृह॒स्पत॑ये॒
PS5.5 पर्य॑हर॒न्थ् सो॑ऽबिभे॒द्-बृह॒स्पति॑रि॒त्थं ॅवाव स्य
PS5.6 आर्ति॒माऽरि॑ष्य॒तीति॒ स ए॒तं मन्त्र॑मपश्य॒थ्
PS5.7 सूर्य॑स्य त्वा॒ चक्षु॑षा॒ प्रति॑
PS5.8 पश्या॒मीत्य॑ब्रवी॒न्न हि सूर्य॑स्य॒ चक्षुः॒
PS5.9 - [ ]
PS6.1 किं च॒न हि॒नस्ति॒ सो॑ऽबिभेत्
PS6.2 प्रतिगृ॒ह्णन्तं॑ मा हिꣳसिष्य॒तीति॑ दे॒वस्य॑
PS6.3 त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚ र्बा॒हुभ्यां᳚
PS6.4 पू॒ष्णो हस्ता᳚भ्यां॒ प्रति॑ गृह्णा॒मीत्य॑ब्रवीथ्
PS6.5 सवि॒तृप्र॑सूत ए॒वैन॒द्ब्रह्म॑णा दे॒वता॑भिः॒ प्रत्य॑गृह्णा॒थ्
PS6.6 सो॑ऽबिभेत् प्रा॒श्नन्तं॑ मा हिꣳसिष्य॒तीत्य॒ग्नेस्त्वा॒
PS6.7 ऽऽस्ये॑न॒ प्राश्ना॒मीत्य॑ब्रवी॒न्न ह्य॑ग्नेरा॒स्यं॑ किञ्च॒न
PS6.8 हि॒नस्ति॒ सो॑ऽबिभे॒त् - [
PS6.9 ]
PS7.1 प्राशि॑तं माहिꣳसिष्य॒तीति॑ ब्राह्म॒णस्यो॒दरे॒णेत्य॑ ब्रवी॒न्न
PS7.2 हि ब्रा᳚ह्म॒णस्यो॒दरं॒ किं च॒न
PS7.3 हि॒नस्ति॒ बृह॒स्पते॒र्ब्रह्म॒णेति॒ स हि
PS7.4 ब्रह्मि॒ष्ठोऽप॒ वा ए॒तस्मा᳚त् प्रा॒णाः
PS7.5 क्रा॑मन्ति॒ यः प्रा॑शि॒त्रं प्रा॒श्नात्य॒द्भि-र्मा᳚र्जयि॒त्वा
PS7.6 प्रा॒णान्थ् सं मृ॑शते॒ऽमृतं॒ ॅवै
PS7.7 प्रा॒णा अ॒मृत॒मापः॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑
PS7.8 ह्वयते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.6.8.1 TS 2.6.8.1
प॒शवो॒ वा इडा᳚ स्व॒यमा द॑त्ते॒ काम॑मे॒वाऽऽत्मना॑ पशू॒नामा द॑त्ते॒ न ह्य॑न्यः कामं॑ पशू॒नां प्र॒यच्छ॑ति वा॒चस्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह॒ वाच॑मे॒व भा॑ग॒धेये॑न प्रीणाति॒ सद॑स॒स्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह स्व॒गाकृ॑त्यै चतुरव॒त्तं भ॑वति ह॒विर्वै च॑तुरव॒त्तं प॒शव॑श्चतुरव॒त्तं ॅयद्धोता᳚ प्राश्नी॒याद्धोता - [ ]
पदपाठः (Word-by-word)
प॒शवः॑ । वै । इडा᳚ । स्व॒यम् । एति॑ । द॒त्ते॒ । काम᳚म् । ए॒व । आ॒त्मना᳚ । प॒शू॒नाम् । एति॑ । द॒त्ते॒ । न । हि । अ॒न्यः । काम᳚म् । प॒शू॒नाम् । प्र॒यच्छ॒तीति॑ प्र - यच्छ॑ति । वा॒चः । पत॑ये । त्वा॒ । हु॒तम् । प्रेति॑ । अ॒श्ना॒मि॒ । इति॑ । आ॒ह॒ । वाच᳚म् । ए॒व । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । प्री॒णा॒ति॒ । सद॑सः । पत॑ये । त्वा॒ । हु॒तम् । प्रेति॑ । अ॒श्ना॒मि॒ । इति॑ । आ॒ह॒ । स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ । च॒तु॒र॒व॒त्तमिति॑ चतुः - अ॒व॒त्तम् । भ॒व॒ति॒ । ह॒विः । वै । च॒तु॒र॒व॒त्तमिति॑ चतुः - अ॒व॒त्तम् । प॒शवः॑ । च॒तु॒र॒व॒त्तमिति॑ चतुः - अ॒व॒त्तम् । यत् । होता᳚ । प्रा॒श्नी॒यादिति॑ प्र - अ॒श्नी॒यात् । होता᳚ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे षष्ठप्रपाठकेष्टमोनुवाकः)। (इडाप्राशित्रभक्षयोरभिधानम्)

इडोपाह्वानमुदितमनुवाके हि सप्तमे। इडाप्राशित्रभक्षौ द्वावुच्येते अष्टमे पुनः।।

"यदुक्तं सूत्रकारेण—“पुरस्तात्प्रत्यङ्ङासीन इडाया होतुर्हस्तेवान्तरेडामवद्यत्यध्वर्युः प्रथममवदानमवदधाति स्वय होतोत्तरम्” इति, तदिदं हेतुरवदानं विधत्ते पशव इति। गोरूपाया इडाया पशुत्वेन तामिडामाददानो होता पशूनामभिलषितार्थं स्वीकृतवान्भवति। होतुरन्यो न कश्चिदपि पशूनामिडारूपाणां कामं दातुं समर्थः। इडायाभागप्राशनमन्त्रावुत्पाद्य व्याचष्टे—"

वाचस्पतय इति। इडोपाह्णानरूपा या वाक्तस्याः पतिर्होतुर्जीवात्मा तस्मै हुतं हे पुरोडाश त्वां भक्षयामि। अनेन मन्त्रोच्चारणेन भागं दत्वा वाचं देवतां प्रीणयतीत्यर्थः। सदसो यज्ञसभायाः पतिर्होतुर्जीवात्मा तस्मै हुतं त्वां भक्षयामि। अनेन तस्य पुरोडाशस्य स्वोदरकृतत्वं भवति।

"होतुर्हस्ते क्रियमाणस्यावदानस्य संख्यां विधत्ते चतुरवत्तमिति। प्रधानस्य हविषश्चतुरवत्तत्वं पूर्वमेव दर्शितं तत्साम्यादिदमपि हविरेव भवति चतुष्पात्त्वसंख्यासाम्यात्तस्य पशुरूपत्वम्। प्रकारान्तरेण भक्षणं प्रशंसति यद्धोतेति। देवतारूपाया इडाया भक्षणेन होता मरणं प्राप्नुयात्। प्राशनं परित्यज्याग्नौ तद्भागहोमे सतीडारूपगवादिपशूनग्निरूपाय क्रूराय रुद्राय समर्पितवान्भवति। ततो यजमानः पशुरहितः स्यात्। तस्माद्वाचस्पतये त्वा हुतमिति प्रथममुक्त्वा पश्चाद्भक्षणे सति साक्षादग्नौ हुतं न भवतीति रुद्राय पशुसमर्पणं न भवति। वाचस्पतिव्यवधानेन परोक्षमेव हुतत्वात्। तथायमपि साक्षादिडां न प्राश्नाति किंत्वन्यस्मै हुतमेव प्राश्नातीतीडाप्राशनप्रयुक्तो मरणदोषो न भवतीति। ईदृशस्य भक्षितस्य स्वात्मगतत्वेन स्थापनाय सदसस्पतय इत्यादिकं पठनीयम्। यदुक्तं सूत्रकारेण – यजमानपञ्चमा इडां प्राश्नन्ति इति। तदिदं विधत्ते प्राश्नन्तीति। तीर्थे दुःखोत्तरणावसरे प्राशनेन हि दुःखमुत्तीर्यते। ऋत्विग्भिः प्राशने सति दक्षिणापि दत्ता भवति। तद्दानमेतस्मिन्प्रधानयागोत्तरणावसरे। यदुक्तं सूत्रकारेण----मनो ज्योतिरित्यद्भिरन्तर्वेदि मस्तरे मार्जयित्वा इति, तदिदं विधत्ते वि वा एतदिति। सत्यमापः सर्वा देवता आपः इतिश्रुत्यन्तरादपांसर्वदेवतारूपत्वम्। अथ प्राशित्रावदानपरिमाणं विधत्ते देवा वा इति। देवाः पुरा यज्ञ प्रथममकुर्वंस्तदा स्विष्टकृदग्निरूपं रुद्रमन्तरितवन्तः, तेनान्तरायेण कुपितः सन्रुद्रस्तदीयं यज्ञमविध्यद्विकमलमकरोत्। तं रुद्रं देवा आभिमुख्येन गत्वा तदिदं यज्ञानूष्ठानमस्माकं कल्पतां संपूर्ण भवत्विति प्रार्थितवन्तः। तदानीं केचिद्बुद्धिमन्ता देवा इतारन्प्रत्येवमब्रुवन्—यदि वयं तं रुद्रं हविष्प्रदानेनाराधयिष्यामस्तर्ह्यस्माकमिदं कर्म स्विष्टं भविष्यतीति। ततो हविराराधनेन स्विष्टकरणाद्रुद्ररूपस्याग्नेः स्विष्टकृत्वं संपन्नम्। ततो देवास्तमाराध्य तस्य संबन्धि यद्यवमात्रं पुरोडाशांशरूपमाविद्धमासीत्तदाविद्धमुपहतं निरकृन्तन्निष्कृष्य छिन्नवन्तः। यस्मादेवं तस्मात्प्राशित्रभागं पदमात्रमवद्येत्। अधिकावदानं प्रतिषेधति यज्ज्यायोवद्येदिति। अधिकावदाने यज्ञस्य तदङ्ग रोपयेन्मोहयेद्यज्ञप्रयोगे भ्रातिं जनयेदित्यर्थः। रुद्रेण कृतो योयं पुरोडाशस्य वेधस्तस्मादेव वेधदेशादिदमत्र प्राशित्रभागावदानं प्रतीयते च । विस्पष्टमयमर्थः शास्त्रान्तर आम्नायते अज्यायो यवमात्रादाव्याधात्कृत्यतामिदम्। मा रूरुषाम यज्ञस्य शुद्ध स्विष्टमिद हविः इति। उपस्मरणादिचतुरवदाननिन्दापुरःसरं सकृदवदानाभिधारणे विधत्ते यदुप चेति। यद्यवदानात्पूर्वमुपस्तरणं पश्चाच्चाभिद्यारणं कुर्यात्तदानीमुपात्तस्य पुरोडाशस्योभयोः पार्श्वयोः संश्वायि कुर्यात्। सम्यक्श्वाय उच्छूनत्वरूपो रोगविशेषो यस्याङ्गस्य तदङ्ग संश्वायि। सकृदवदानाभिधारणाभ्यां द्विपदो यजमानस्य प्रतिष्ठा भवति। यदुक्तं सूत्रकारेण अग्रेणाहवनीयं ब्रह्मणे प्राशित्रं परिहरति इति। तदेतद्विधत्ते यत्तिरश्चीनमिति। वदेरुत्तरतः स्थितोध्वर्युर्वेदिमध्यस्थिते पुरोडाशे प्राशित्रभागमवदायाहवनीयस्य दक्षिणे भागे स्थिताय ब्रह्मणे वेदेरुपरि हस्तं प्रसार्य तिरश्चीनं यथा भवति तथा यदि दद्यात्तदानीं यज्ञस्य यदङ्ग रुद्रेणानभिविद्धं तदप्यभिविद्धं भवेत् । तस्मादुत्तरस्यां दिश्यवस्थितोध्वर्युः प्राङ्मुखो गत्वाहवनीयस्याग्रेण देशेन ब्रह्मसमीपं प्राप्य तस्मै भागं परिहरति। परितो नयति सम्यरद्यादित्यर्थः। तथा सति तीर्थेनैव नद्यवतरणसदृशेनैव मार्गेण वानीतवान्भवति। अत्र सूत्रकारेण प्राशिवमवदीयमानं प्रेक्षत इत्युपक्रम्यैतदुक्तं सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याह्रियमाणं सावित्रेण प्रतिगृह्याङ्गुष्ठेनोपमध्यमया चाङ्गुल्यादायाग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेन्द्रस्य त्वा जठरे सादयामीत्यसंम्लेत्याभिगिरति इति। असंम्लेत्य दन्तैरचूर्णीकृत्य। तत्र दर्शनमन्त्रमुत्पाद्य विनियोक्तं प्रस्तौति"

"तत्पूष्ण इति। पुरा कदाचिद्देवास्तत्प्राशित्रं पूष्णे समर्पयन्। स च पूषा मन्त्रमन्तरेणात्तस्य प्राशित्रस्य दन्तैर्बलाद्दशनं कृत्वा प्राश्य तदन्नं दशनेनोपपाद्य तेन स्वकीयान्दन्तान्पातितवान्। यस्मादेवं तस्मात्पूष्णः सर्वत्र चरोःपिष्टमेव भागं कुर्यात्। ततो देवास्तं दन्तहीनं पूषणमुद्दिश्य परस्परमब्रुवन्। अयं पूषा व्यार्धि समृद्धिरहितोभूद्यस्मादयं प्राशित्रानर्होभूदिति विचार्य तत्प्राशित्रं बृहस्पतये समर्पयन्। स बृहस्पतिर्मनस्येवमबिभेत्, यथा पूषा प्राशित्रं प्राश्यार्ति मगमदित्थमन्योपि यः प्राश्नाति स आर्तिमारिष्यति गमिष्यतीति। अथ दर्शनमन्त्रमुत्पादयति स एतमिति। मनुष्यचक्षुः केनापि रोगेण हिंसितं भवति। आरोग्यप्रदस्य सूर्यस्य चक्षुर्न केनापि हिंस्यते। तस्मादनेन मन्त्रेण पश्यामीत्यर्थः। अथ प्रतिग्रहमन्त्रमुपादयति सोबिगेदिति। ब्रह्मणा मन्त्रेण देवताभिरश्विना(श्व्या) दिभिस्तादृशः प्रति ग्रहो न हिनस्ति। तस्मात्तेन मन्त्रेण प्रतिगृह्णीयात्। अथ प्राशनमन्त्रस्य भागत्रयं क्रमेणोत्पादयति सोबिभेदिति। प्रौढमरण्यं दहतोपि दावाग्नेर्मुखमास्यं शुष्ककाष्ठकण्टकादिना केनापि न हिंस्यते। श्राद्धादौ परान्नं भुञ्जानत्यापि ब्राह्मणस्योदरं केनापि प्रत्यवायेन न हिंसितं भवति। यस्माद्बृहस्पतिर्ब्रह्मिष्ठो मन्त्रवित्तमस्तस्माद्बृहस्पतेर्ब्रह्मणेत्येतद(म) पि मन्त्रभागं पठेत्। यदुक्तं सूत्रकारेण----“इन्द्रस्य त्वा जठरे सादयामीति नाभिदेशमभिमृशति वाङम आसन्निति यथालिङ्गमङ्गानि” इति। तदेतदभिमर्शनं शिरोमार्जनपूर्वकं विधत्ते अप वा इति। अत्र मीमांसा। षष्ठाध्यायस्य चतुर्थपादे चिन्तितम् “इडाद्यर्थस्य नाशेन्यः शेषाद्ग्राह्यो न वाग्रिमः।"

शेषसत्वान्न शेषेन्यप्रतिपत्त्यवरोधनात्”।। इडाभक्षणार्थं प्राशित्रभक्षणार्थं वावत्तं यदि नश्येत्तदा शेषस्य सद्भावात्तस्माच्छेषात्पुनरवदेयमिति चेन्न। तस्य शेषस्यान्यथाप्रतिपत्त्या शंयुवाङ्गकालीनभक्षरूपयावरुध्दत्वात्। तस्मादवत्तनाशे द्रव्याभावादिडादिकं लुप्यते।तत्रैवान्यच्चिन्तितम् “शेषभक्षाः किमन्येषामृत्विजां वान्यभक्षणम्।

इडायाः परिसंख्यानात्स्वाम्यप्राप्तौ ततोन्तिमः”।। दर्शपूर्णमासयोर्ये प्राशित्रादिशेषभक्षास्तेषां भक्षणमृत्विग्भ्योन्यैः कार्यम्। कुतः। ऋत्विजां परिसंख्यातत्वात्। ऋत्विजां कर्मकरत्वादेव भक्षप्राप्तौ सत्यां पुनरप्येवमाम्नायते----‘यजमानपञ्चमा इडां भक्षयन्ति’ इति। तदेतत्पुनराम्नातं परिसंख्यार्थम्। यजमानसहिता ऋत्विजः प्राशित्रादिकं न भक्षयेयुरित्यर्थः तस्मादृत्विग्भ्योन्येषां प्राशित्रादिभक्षणमिति चेन्मैवम्। यजमानस्य कर्मकरत्वाभावेन पूर्वप्राप्तं भक्षणमनेन विधीयते। तस्मादपरिसंख्यातत्वादृत्विजामेव प्राशित्रादिभक्षणम्।

तृतीयाध्यायस्य तृतीयपादे चिन्तितम् “प्रविष्टभागः पूषेति प्रकृतौ विकृतावुत। इष्टिप्रकरणादेव प्रकृताविति युज्यते।। संतर्दनादिवद्वाक्याद्विकृतौ पूषसंभवात्। सिद्धस्य पुनरप्युक्तिरधिकस्य विवक्षया”।। दर्शपूर्णमासप्रकरणे श्रूयते तस्मात्पूषा प्रपिष्टभागोदन्तको हि इति। तत्र दन्तरहितस्य पूष्णः पिष्टभगत्वं संतर्दनाद्यधिकरणन्यायेन प्रकरणादुत्कृष्यतया विकृतिगामित्यवगम्यते। तथाप्युत्तराधिकरणेषु तस्मिन्नेव विषये विशेषं वक्तुमिह प्रस्तूयते। तत्रैवान्यच्चिन्तितम् “चरौ पशौ पुरोडाशे चरावेवोत पेषणम्। विशेषादर्शनादेतत्सर्वेष्वपि विधीयते।। प्राप्तत्वान्न पुरोडाशे हृदाद्याकारनाशनात्। न पशौ पारिशेष्येण चरावेव हि पेषणम्”।। “पौष्णं चरुं निर्वपेत्” इति चरुर्विहितः। “पौष्ण श्यामालभेतान्नकामः” इति पशुविधिः। पशुनालभ्य पुरोडाशं निर्वपतीत्येतच्चोदकेन प्रौष्णपशौ प्राप्तम्। तत्र यद्देवत्यः पशुस्तद्देवत्यः पुरोडाश इति न्यायेन पुरोडाशस्यपूषा देवता। तत्र पूर्वोक्तपेषणं विषयीकृत्योच्यमानाः संशयपूर्वोत्तरपक्षाः स्पष्टाः। तत्रैवात्यच्चिन्तितम् “द्विदेवकेपि किं पिंष्यादुत पूषैकदेवके। द्विदेवकेपि तत्पूष्णः सत्त्वात्पेषणभागिनः।। देवता विफलत्वेन पेषणं न प्रयोजयेत्। यागस्य तत्वे भागोक्तेर्न यागान्तरगामि तत्”।। राजसूये श्रूयते— “सोमापौष्णं चरुं निर्वपेदैन्द्रापौष्णं चरुम्” इति। तत्र द्विदेवके चरौ पिष्टभाजः पूष्णः सत्त्वात्प्रेषणं पूषार्थं कर्तव्यमिति चेत्। तत्रेदं वक्तव्यं- किं पेषणस्य देवता प्रयोजिका किंवा भागः। नाद्यः। यागमन्तरेण केवलदेवता फलजनकत्वाभावेन पेषणं प्रयोक्तुं न प्रभवति। पौष्णस्य यागस्य पेषणप्रयोजकत्वे तु तत्पेषणं द्विदेवके यागान्तरे गन्तुं नार्हति। पूषा प्रपिष्टभाग इत्यत्र यागो न श्रुत इति चेन्मैवम्। भागशब्दान्यथानुपुपत्त्या यागस्य कल्प्यत्वात्। नहि देवतात्वमन्तरेण पिष्टद्रव्यभाक्त्वं सिध्यति। सति च देवतात्वे द्रव्यदेवतायोर्लाभाद्यागः कल्प्यते। तस्मादेकदेवकयागस्य पेषणप्रयोजकत्वान्न द्विदेवके यागे पेषणमस्ति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके अष्टमोनुवाकः।। ८।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पशवो वा इत्यादि ॥ इडायाः स्वयमादानव्याजेन पशूनामेव कामं स्वयमादत्ते पशुभ्यः प्रदातुं हस्ते गृह्णाति । न ह्यन्यः पशूनां कामं प्रदातुमर्हतीति ॥
2 स्वगाकृतिः यथा स्वभागकरणम् । 'ऊर्यादिच्विडाचश्च' इति गतित्वात् 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । चतुरवत्तमित्यादि । गतम् ॥
3 परोक्षमिति ॥ कोऽत्र प्राश्नाति प्रहूयत एवेदं वाचस्पतय इति प्रच्छादनं परोक्षत्वम् । तेन होतुः प्राशननिमित्ताया आर्तेरप्रसङ्गः । प्राश्नातीति । सर्वेऽपि यजमानपञ्चमाः सह प्राश्नन्तीति । तीर्थे दुःखोत्तरणावसरे प्राशनं दक्षिणादानं च कृतं भवतीति । ऋत्विग्भ्यः पुरोडाशप्रदानं दक्षिणा । वि वा एतदित्यादि । गतम् ॥
4 मार्जयन्त इति ॥ 'मनो ज्योतिः' इत्यन्तर्वेदि मार्जनम् ॥
5 देवा वै यज्ञादिति ॥ अन्तरणं विस्मरणाद्यज्ञेऽननुप्रवेशनम् । कल्पनं कर्म्णोऽविकलसम्पत्तिः । अथ देवा अब्रुवन् इमं राधयिष्यामः तेन चैव यज्ञः स्विष्टकृतं भवतीति । ततः स्विष्टकृतमाराधयित्वा यज्ञस्य तदाविद्धं यवमात्रं निष्कृष्य तेन प्राशित्रमकुर्वन् तस्माद्यदि यवमात्राज्ज्यायः प्रवृद्धमवद्येत् यज्ञस्य रोपयेत् विमोहयेत् । रुप विमोहने । लिङ्गं चा - 'मा रूरुपाम यज्ञस्य' इति ॥
6 यदित्यादि ॥ उभयपार्श्वरुग्णं उभयतः संशायि । यत्तिरश्चीनमित्यादि ॥ गतम् ॥
7 तदित्यादि ॥ तद्देवतानिष्ठं प्राशित्रं देवाः पूष्णे प्रथमं पर्यहरन्, तत्प्राश्य पूषा आत्मीयान् दन्तानरुणत् । रुद्धात् भग्नात् तस्मादद्यत्वेऽपि पूषा प्रपिष्टभागो भवति, दन्तहीनत्वात् । एवमयं वृद्धाङ्गोप्राशिन्नार्ह इति देवाः तं हित्वा तद्बृहस्पतये पर्यहरन् । अथ बृहस्पतिः एषोऽहमपि एतत्प्राशनेनास्तं गमिष्यामीति बिभ्यत् 'सूर्यस्य त्वा' इतीमं मन्त्रं दृष्ट्वा तेन प्राशित्रमपश्यत् । न हीति । सूर्यस्य सम्बन्धि सर्वलोकस्य चक्षुस्स्थानीयं मण्डलं सर्वलोकोपजीवि न हि कस्य चिद्धिंस्यं भवति । तस्मात्सूर्यः पश्यति नाहमिति । तं दृष्ट्वा पश्यन्न पश्यतीति न हिंस्यः । अथ 'देवस्य त्वा' इति मन्त्रेण सवित्राऽनुज्ञातो देवताभावेन प्रतिगृह्णन् प्रतिगृह्णातीति न बाध्यः । 'अग्नेस्त्वाऽऽस्येन इत्यग्न्यास्यबुद्ध्या प्राश्नन् प्राश्नातीति, न बाध्यः । ब्राह्मणस्योदरेणेति । ब्राह्मणोदरधिया प्राशित्रं स्थापयन् प्राशितवानिति न हिंसितव्यः । स हीति । बृहस्पतिर्हि ब्राह्मणतरः तस्मादेवमुच्यत इति ॥
8 अप वा इत्यादि ॥ गतम् ॥
इति द्वितीये षष्ठेऽष्टमोऽनुवाकः ॥
पञ्चशत् 2 #
TS 2.6.8.2 TS 2.6.8.2
ऽऽर्ति॒मार्च्छे॒द्-यद॒ग्नौ जु॑हु॒याद्-रु॒द्राय॑ प॒शूनपि॑ दद्ध्यादप॒शुर्यज॑मानः स्याद्-वा॒चस्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह प॒रोक्ष॑मे॒वैन॑-ज्जुहोति॒ सद॑स॒स्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह स्व॒गाकृ॑त्यै॒ प्राश्न॑न्ति ती॒र्थ ए॒व प्राश्न॑न्ति॒ दक्षि॑णां ददाति ती॒र्थ ए॒व दक्षि॑णां ददाति॒ वि वा ए॒तद्य॒ज्ञ्ं - [ ]
पदपाठः (Word-by-word)
आर्ति᳚म् । एति॑ । ऋ॒च्छे॒त् । यत् । अ॒ग्नौ । जु॒हु॒यात् । रु॒द्राय॑ । प॒शून् । अपीति॑ । द॒द्ध्या॒त् । अ॒प॒शुः । यज॑मानः । स्या॒त् । वा॒चः । पत॑ये । त्वा॒ । हु॒तम् । प्रेति॑ । अ॒श्ना॒मि॒ । इति॑ । आ॒ह॒ । प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । ए॒व । ए॒न॒त् । जु॒हो॒ति॒ । सद॑सः । पत॑ये । त्वा॒ । हु॒तम् । प्रेति॑ । अ॒श्ना॒मि॒ । इति॑ । आ॒ह॒ । स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ । प्रेति॑ । अ॒श्न॒न्ति॒ । ती॒र्त्थे । ए॒व । प्रेति॑ । अ॒श्न॒न्ति॒ । दक्षि॑णाम् । द॒दा॒ति॒ । ती॒र्त्थे । ए॒व । दक्षि॑णाम् । द॒दा॒ति॒ । वीति॑ । वै । ए॒तत् । य॒ज्ञ्म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.6.8.3 TS 2.6.8.3
छि॑न्दन्ति॒ यन्म॑द्ध्य॒तः प्रा॒श्नन्त्य॒द्भि-र्मा᳚र्जयन्त॒ आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञ्ꣳ सं त॑न्वन्ति दे॒वा वै य॒ज्ञाद्-रु॒द्रम॒न्तरा॑य॒न्थ्स य॒ज्ञ्म॑विद्ध्य॒त् तं दे॒वा अ॒भि सम॑गच्छन्त॒ कल्प॑तां न इ॒दमिति॒ ते᳚ऽब्रुव॒न्थ् स्वि॑ष्टं॒ ॅवै न॑ इ॒दं भ॑विष्यति॒ यदि॒मꣳ रा॑धयि॒ष्याम॒ इति॒ तथ् स्वि॑ष्ट॒कृतः॑ स्विष्टकृ॒त्त्वं तस्या ऽऽवि॑द्धं॒ नि - [ ]
पदपाठः (Word-by-word)
छि॒न्द॒न्ति॒ । यत् । म॒द्ध्य॒तः । प्रा॒श्नन्तीति॑ प्र - अ॒श्नन्ति॑ । अ॒द्भिरित्य॑त् - भिः । मा॒र्ज॒य॒न्ते॒ । आपः॑ । वै । सर्वाः᳚ । दे॒वताः᳚ । दे॒वता॑भिः । ए॒व । य॒ज्ञ्म् । समिति॑ । त॒न्व॒न्ति॒ । दे॒वाः । वै । य॒ज्ञात् । रु॒द्रम् । अ॒न्तः । आ॒य॒न्न् । सः । य॒ज्ञ्म् । अ॒वि॒द्ध्य॒त् । तम् । दे॒वाः । अ॒भि । समिति॑ । अ॒ग॒च्छ॒न्त॒ । कल्प॑ताम् । नः॒ । इ॒दम् । इति॑ । ते । अ॒ब्रु॒व॒न्न् । स्वि॑ष्ट॒मिति॒ सु - इ॒ष्ट॒म् । वै । नः॒ । इ॒दम् । भ॒वि॒ष्य॒ति॒ । यत् । इ॒मम् । रा॒ध॒यि॒ष्यामः॑ । इति॑ । तत् । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ । स्वि॒ष्ट॒कृ॒त्त्वमिति॑ स्विष्टकृत् - त्वम् । तस्य॑ । आवि॑द्ध॒मित्या - वि॒द्ध॒म् । निरिति॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.6.8.4 TS 2.6.8.4
-र॑कृन्त॒न॒. यवे॑न॒ सम्मि॑तं॒ तस्मा᳚द्-यवमा॒त्रमव॑ द्ये॒द्-यज्ज्यायो॑ऽव॒द्-येद्-रो॒पये॒त् तद्-य॒ज्ञ्स्य॒ यदुप॑ च स्तृणी॒याद॒भि च॑ घा॒रये॑दुभयतः सꣳश्वा॒यि कु॑र्यादव॒दाया॒भि घा॑रयति॒ द्विः संप॑द्यते द्वि॒पाद्-यज॑मानः॒ प्रति॑ष्ठित्यै॒ यत् ति॑र॒श्चीन॑-मति॒-हरे॒दन॑भि-विद्धं ॅय॒ज्ञ्स्या॒भि वि॑द्ध्ये॒दग्रे॑ण॒ परि॑ हरति ती॒र्थेनै॒व परि॑ हरति॒ तत् पू॒ष्णे पर्य॑हर॒न् तत् - [ ]
पदपाठः (Word-by-word)
अ॒कृ॒न्त॒न्न् । यवे॑न । संमि॑त॒मिति॒ सं - मि॒त॒म् । तस्मा᳚त् । य॒व॒मा॒त्रमिति॑ यव - मा॒त्रम् । अवेति॑ । द्ये॒त् । यत् । ज्यायः॑ । अ॒व॒द्येदित्य॑व - द्येत् । रो॒पये᳚त् । तत् । य॒ज्ञ्स्य॑ । यत् । उपेति॑ । च॒ । स्तृ॒णी॒यात् । अ॒भीति॑ । च॒ । घा॒रये᳚त् । उ॒भ॒य॒तः॒, सꣳ॒॒श्वा॒यीत्यु॑भयतः - सꣳ॒॒श्वा॒यि । कु॒र्या॒त् । अ॒व॒दायेत्य॑व - दाय॑ । अ॒भीति॑ । घा॒र॒य॒ति॒ । द्विः । समिति॑ । प॒द्य॒ते॒ । द्वि॒पादिति॑ द्वि - पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । यत् । ति॒र॒श्चीन᳚म् । अ॒ति॒हरे॒दित्य॑ति - हरे᳚त् । अन॑भिविद्ध॒मित्यन॑भि - वि॒द्ध॒म् । य॒ज्ञ्स्य॑ । अ॒भीति॑ । वि॒द्ध्ये॒त् । अग्रे॑ण । परीति॑ । ह॒र॒ति॒ । ती॒र्त्थेन॑ । ए॒व । परीति॑ । ह॒र॒ति॒ । तत् । पू॒ष्णे । परीति॑ । अ॒ह॒र॒न्न् । तत् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.6.8.5 TS 2.6.8.5
पू॒षा प्राश्य॑ द॒तो॑ऽरुण॒त् तस्मा᳚त् पू॒षा प्र॑पि॒ष्टभा॑गोऽद॒न्तको॒ हि तं दे॒वा अ॑ब्रुव॒न् वि वा अ॒यमा᳚र्द्ध्यप्राशित्रि॒यो वा अ॒यम॑भू॒दिति॒ तद्-बृह॒स्पत॑ये॒ पर्य॑हर॒न्थ् सो॑ऽबिभे॒द्-बृह॒स्पति॑रि॒त्थं ॅवाव स्य आर्ति॒माऽरि॑ष्य॒तीति॒ स ए॒तं मन्त्र॑मपश्य॒थ् सूर्य॑स्य त्वा॒ चक्षु॑षा॒ प्रति॑ पश्या॒मीत्य॑ब्रवी॒न्न हि सूर्य॑स्य॒ चक्षुः॒ - [ ]
पदपाठः (Word-by-word)
पू॒षा । प्राश्येति॑ प्र - अश्य॑ । द॒तः । अ॒रु॒ण॒त् । तस्मा᳚त् । पू॒षा । प्र॒पि॒ष्टभा॑ग॒ इति॑ प्रपि॒ष्ट - भा॒गः॒ । अ॒द॒न्तकः॑ । हि । तम् । दे॒वाः । अ॒ब्रु॒व॒न्न् । वीति॑ । वै । अ॒यम् । आ॒र्द्धि॒ । अ॒प्रा॒शि॒त्रि॒य इत्य॑प्र - अ॒शि॒त्रि॒यः । वै । अ॒यम् । अ॒भू॒त् । इति॑ । तत् । बृह॒स्पत॑ये । परीति॑ । अ॒ह॒र॒न्न् । सः । अ॒बि॒भे॒त् । बृह॒स्पतिः॑ । इ॒त्थम् । वाव । स्यः । आर्ति᳚म् । एति॑ । अ॒रि॒ष्य॒ति॒ । इति॑ । सः । ए॒तम् । मन्त्र᳚म् । अ॒प॒श्य॒त् । सूर्य॑स्य । त्वा॒ । चक्षु॑षा । प्रतीति॑ । प॒श्या॒मि॒ । इति॑ । अ॒ब्र॒वी॒त् । न । हि । सूर्य॑स्य । चक्षुः॑ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.6.8.6 TS 2.6.8.6
किं च॒न हि॒नस्ति॒ सो॑ऽबिभेत् प्रतिगृ॒ह्णन्तं॑ मा हिꣳसिष्य॒तीति॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚ र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्यां॒ प्रति॑ गृह्णा॒मीत्य॑ब्रवीथ् सवि॒तृप्र॑सूत ए॒वैन॒द्ब्रह्म॑णा दे॒वता॑भिः॒ प्रत्य॑गृह्णा॒थ् सो॑ऽबिभेत् प्रा॒श्नन्तं॑ मा हिꣳसिष्य॒तीत्य॒ग्नेस्त्वा॒ ऽऽस्ये॑न॒ प्राश्ना॒मीत्य॑ब्रवी॒न्न ह्य॑ग्नेरा॒स्यं॑ किञ्च॒न हि॒नस्ति॒ सो॑ऽबिभे॒त् - [ ]
पदपाठः (Word-by-word)
किम् । च॒न । हि॒नस्ति॑ । सः । अ॒बि॒भे॒त् । प्र॒ति॒गृ॒ह्णन्त॒मिति॑ प्रति - गृ॒ह्णन्त᳚म् । मा॒ । हिꣳ॒॒सि॒ष्य॒ति॒ । इति॑ । दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र - स॒वे । अ॒श्विनोः᳚ । बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । पू॒ष्णः । हस्ता᳚भ्याम् । प्रतीति॑ । गृ॒ह्णा॒मि॒ । इति॑ । अ॒ब्र॒वी॒त् । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । ए॒व । ए॒न॒त् । ब्रह्म॑णा । दे॒वता॑भिः । प्रतीति॑ । अ॒गृ॒ह्णा॒त् । सः । अ॒बि॒भे॒त् । प्रा॒श्नन्त॒मिति॑ प्र - अ॒श्नन्त᳚म् । मा॒ । हिꣳ॒॒सि॒ष्य॒ति॒ । इति॑ । अ॒ग्नेः । त्वा॒ । आ॒स्ये॑न । प्रेति॑ । अ॒श्ना॒मि॒ । इति॑ । अ॒ब्र॒वी॒त् । न । हि । अ॒ग्नेः । आ॒स्य᳚म् । किम् । च॒न । हि॒नस्ति॑ । सः । अ॒बि॒भे॒त् ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 2.6.8.7 TS 2.6.8.7
प्राशि॑तं माहिꣳसिष्य॒तीति॑ ब्राह्म॒णस्यो॒दरे॒णेत्य॑ ब्रवी॒न्न हि ब्रा᳚ह्म॒णस्यो॒दरं॒ किं च॒न हि॒नस्ति॒ बृह॒स्पते॒र्ब्रह्म॒णेति॒ स हि ब्रह्मि॒ष्ठोऽप॒ वा ए॒तस्मा᳚त् प्रा॒णाः क्रा॑मन्ति॒ यः प्रा॑शि॒त्रं प्रा॒श्नात्य॒द्भि-र्मा᳚र्जयि॒त्वा प्रा॒णान्थ् सं मृ॑शते॒ऽमृतं॒ ॅवै प्रा॒णा अ॒मृत॒मापः॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते ॥
पदपाठः (Word-by-word)
प्राशि॑त॒मिति॒ प्र-अ॒शि॒त॒म् । मा॒ । हिꣳ॒॒सि॒ष्य॒ति॒ । इति॑ । ब्रा॒ह्म॒णस्य॑ । उ॒दरे॑ण । इति॑ । अ॒ब्र॒वी॒त् । न । हि । ब्रा॒ह्म॒णस्य॑ । उ॒दर᳚म् । किम् । च॒न । हि॒नस्ति॑ । बृह॒स्पतेः᳚ । ब्रह्म॑णा । इति॑ । सः । हि । ब्रह्मि॑ष्ठः । अपेति॑ । वै । ए॒तस्मा᳚त् । प्रा॒णा इति॑ प्र - अ॒नाः । क्रा॒म॒न्ति॒ । यः । प्रा॒शि॒त्रमिति॑ प्र - अ॒शि॒त्रम् । प्रा॒श्नातीति॑ प्र - अ॒श्नाति॑ । अ॒द्भिरित्य॑त् - भिः । मा॒र्ज॒यि॒त्वा । प्रा॒णानिति॑ प्र-अ॒नान् । समिति॑ । मृ॒श॒ते॒ । अ॒मृत᳚म् । वै । प्रा॒णा इति॑ प्र - अ॒नाः । अ॒मृत᳚म् । आपः॑ । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । य॒था॒स्था॒नमिति॑ यथा - स्था॒नम् । उपेति॑ । ह्व॒य॒ते॒ ॥
पदसंख्या: 44