अनुवाकः 5 TS 2.6.5

(A5)

(आ॒साद्य॒ प्रा - न॑तिदृश्नं करोति - हरति - वियु॒याद् - यज॑मानमे॒वा-ऽग्निरिति॑ - स॒प्तद॑श च )

अनुवाकः 5 - Complete Audio

TS 2.6.5 - स्वरानुगामी

0:00 0:00
PS1.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य॒द्भिर्.-ह॒वीꣳषि॒ प्रौक्षीः॒ केना॒प
PS1.2 इति॒ ब्रह्म॒णेति॑ ब्रूयाद॒द्भि-र्ह्ये॑व ह॒वीꣳषि॑
PS1.3 प्रो॒क्षति॒ ब्रह्म॑णा॒ऽप इ॒द्ध्माब॒र्॒.हिः प्रोक्ष॑ति॒
PS1.4 मेद्ध्य॑मे॒वैन॑त् करोति॒ वेदिं॒ प्रोक्ष॑त्यृ॒क्षा
PS1.5 वा ॒षाऽलो॒मका॑ऽमे॒द्ध्या यद्-वेदि॒र्मेद्ध्या॑-मे॒वैनां᳚ करोति
PS1.6 दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै
PS1.7 त्वेति॑ ब॒र॒.हिरा॒साद्य॒ प्रो -
PS1.8 [ ]
PS2.1 -क्ष॑त्ये॒भ्य ए॒वैन॑ल्लो॒केभ्यः॒ प्रोक्ष॑ति क्रू॒रमि॑व॒
PS2.2 वा ए॒तत् क॑रोति॒ यत्
PS2.3 खन॑त्य॒पो निन॑यति॒ शान्त्यै॑ पु॒रस्ता᳚त्
PS2.4 प्रस्त॒रं गृ॑ह्णाति॒ मुख्य॑मे॒वैनं॑ करो॒तीय॑न्तं
PS2.5 गृह्णाति प्र॒जाप॑तिना यज्ञ्मु॒खेन॒ संमि॑तं
PS2.6 ब॒र्॒.हिः स्तृ॑णाति प्र॒जा वै
PS2.7 ब॒र्॒.हिः पृ॑थि॒वी वेदिः॑ प्र॒जा
PS2.8 ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापय॒त्यन॑तिदृश्नꣳ स्तृणाति
PS2.9 प्र॒जयै॒वैनं॑ प॒शुभि॒रन॑तिदृश्नं करो॒- [
PS2.10 ]
PS3.1 -त्युत्त॑रं ब॒र्॒.हिषः॑ प्रस्त॒रꣳ सा॑दयति
PS3.2 प्र॒जा वै ब॒र्॒.हि र्यज॑मानः
PS3.3 प्रस्त॒रोयज॑मान-मे॒वाय॑जमाना॒-दुत्त॑रं करोति॒ तस्मा॒द्-यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो॒ऽन्तर्द॑धाति॒ व्यावृ॑त्त्या
PS3.4 अ॒नक्ति॑ ह॒विष्कृ॑तमे॒वैनꣳ॑ सुव॒र्गं ॅलो॒कं
PS3.5 ग॑मयतित्रे॒धाऽन॑क्ति॒ त्रय॑ इ॒मे लो॒का
PS3.6 ए॒भ्य ए॒वैनं॑ ॅलो॒केभ्यो॑ऽनक्ति॒ न
PS3.7 प्रति॑ शृणाति॒यत् प्र॑तिशृणी॒यादनू᳚र्द्ध्वं भावुकं॒
PS3.8 ॅयज॑मानस्य स्यादु॒परी॑व॒ प्र ह॑र
PS3.9 - [ ]
PS4.1 -त्यु॒परी॑व॒ हि सु॑व॒र्गो लो॒को
PS4.2 निय॑च्छति॒ वृष्टि॑मे॒वास्मै॒ निय॑च्छति॒ नात्य॑ग्रं॒
PS4.3 प्र ह॑रे॒द्यदत्य॑ग्रं प्र॒हरे॑द-त्यासा॒रिण्य॑द्ध्व॒र्यो-र्नाशु॑का स्या॒न्न
PS4.4 पु॒रस्ता॒त् प्रत्य॑स्ये॒द्यत् पु॒रस्ता᳚त् प्र॒त्यस्ये᳚थ्
PS4.5 सुव॒र्गाल्लो॒काद्-यज॑मानं॒ प्रति॑ नुदे॒त् प्राञ्चं॒
PS4.6 प्रह॑रति॒ यज॑मानमे॒व सु॑व॒र्गं ॅलो॒कं
PS4.7 ग॑मयति॒ न विष्व॑ञ्चं॒ ॅवि
PS4.8 यु॑या॒द्-यद्-विष्व॑ञ्चं ॅवियु॒याथ् - [
PS4.9 ]
PS5.1 स्त्र्य॑स्य जायेतो॒र्द्ध्वमुद्यौ᳚त्यू॒र्द्ध्वमि॑व॒ हि पुꣳ॒॒सः
PS5.2 पुमा॑ने॒वास्य॑ जायते॒ यथ् स्फ्येन॑
PS5.3 वोपवे॒षेण॑ वा योयु॒प्येत॒ स्तृति॑रे॒वास्य॒
PS5.4 सा हस्ते॑न योयुप्यते॒ यज॑मानस्य
PS5.5 गोपी॒थाय॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ किं
PS5.6 ॅय॒ज्ञ्स्य॒ यज॑मान॒ इति॑ प्रस्त॒र
PS5.7 इति॒ तस्य॒ क्व॑ सुव॒र्गो
PS5.8 लो॒क इत्या॑हव॒नीय॒ इति॑ ब्रूया॒द्यत्
PS5.9 प्र॑स्त॒रमा॑हव॒नीये᳚ प्र॒हर॑ति॒ यज॑मानमे॒व -
PS5.10 [ ]
PS6.1 सु॑व॒र्गं ॅलो॒कं ग॑मयति॒ वि
PS6.2 वा ए॒तद्-यज॑मानो लिशते॒ यत्
PS6.3 प्र॑स्त॒रं ॅयो॑यु॒प्यन्ते॑ ब॒र्॒.हिरनु॒ प्रह॑रति॒
PS6.4 शान्त्या॑ अनारम्भ॒ण इ॑व॒ वा
PS6.5 ए॒तर्ह्य॑द्ध्व॒र्युः स ई᳚श्व॒रो वे॑प॒नो
PS6.6 भवि॑तोर्द्ध्रु॒वा ऽसीती॒माम॒भि मृ॑शती॒यं ॅवै
PS6.7 ध्रु॒वाऽस्यामे॒व प्रति॑तिष्ठति॒ न वे॑प॒नो
PS6.8 भ॑व॒त्यगा(3)न॑ग्नी॒दित्या॑ह॒ यद्ब्रू॒याद-ग॑न्न॒ग्निरित्य॒ ( )
PS6.9 -ग्नाव॒ग्निं ग॑मये॒न्नि र्यज॑मानꣳ सुव॒र्गाल्लो॒काद्-भ॑जे॒दग॒न्नित्ये॒व
PS6.10 ब्रू॑या॒द्-यज॑मानमे॒व सु॑व॒र्गं ॅलो॒कं ग॑मयति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.6.5.1 TS 2.6.5.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य॒द्भिर्.-ह॒वीꣳषि॒ प्रौक्षीः॒ केना॒प इति॒ ब्रह्म॒णेति॑ ब्रूयाद॒द्भि-र्ह्ये॑व ह॒वीꣳषि॑ प्रो॒क्षति॒ ब्रह्म॑णा॒ऽप इ॒द्ध्माब॒र्॒.हिः प्रोक्ष॑ति॒ मेद्ध्य॑मे॒वैन॑त् करोति॒ वेदिं॒ प्रोक्ष॑त्यृ॒क्षा वा ॒षाऽलो॒मका॑ऽमे॒द्ध्या यद्-वेदि॒र्मेद्ध्या॑-मे॒वैनां᳚ करोति दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र॒.हिरा॒साद्य॒ प्रो - [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । अ॒द्भिरित्य॑त् - भिः । ह॒वीꣳषि॑ । प्रेति॑ । औ॒क्षीः॒ । केन॑ । अ॒पः । इति॑ । ब्रह्म॑णा । इति॑ । ब्रू॒या॒त् । अ॒द्भिरित्य॑त् - भिः । हि । ए॒व । ह॒वीꣳषि॑ । प्रो॒क्षतीति॑ प्र - उ॒क्षति॑ । ब्रह्म॑णा । अ॒पः । इ॒द्ध्माब॒र्॒.हिरिती॒द्ध्मा - ब॒र्॒.हिः । प्रेति॑ । उ॒क्ष॒ति॒ । मेद्ध्य᳚म् । ए॒व । ए॒न॒त् । क॒रो॒ति॒ । वेदि᳚म् । प्रेति॑ । उ॒क्ष॒ति॒ । ऋ॒क्षा । वै । ए॒षा । अ॒लो॒मका᳚ । अ॒मे॒द्ध्या । यत् । वेदिः॑ । मेद्ध्या᳚म् । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ । दि॒वे । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । पृ॒थि॒व्यै । त्वा॒ । इति॑ । ब॒र्॒.हिः । आ॒साद्येत्या᳚ - साद्य॑ । प्रेति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे षष्ठप्रपाठके पञ्चमोनुवाकः)। (वेद्यां बर्हिर्विषयप्रयोगाभिधानम्) चतुर्थे वेदिनिर्माणमशेषेण प्रपत्र्चितम्। अथ पञ्चमे तस्यां वेद्यां बर्हिर्विषयप्रयोगोभिधीयते। तत्र बर्हिषः प्रोक्षणं विधातुं प्रोस्तौति ब्रह्मवादिन इति। हेध्वर्यो शुद्ध्यर्थं हवींषि त्वमद्भिः प्रौक्षीः प्रोक्षितवानसि। केनान्येन शुद्धेन द्रव्येणेमा अपः प्रोक्षितवानसीति, ब्रह्मवादिभिः पृष्टेध्वर्युर्ब्रह्मणा मन्त्रेणेत्युत्तरभागं ब्रूयात्। यस्मादेतदुभयं प्रौक्षणं तथैव वर्तते। अत एव मन्त्रव्याख्याने श्रूयते----‘प्रोक्षिताः स्थेत्याह। तेनापः प्रोक्षिताः’ इति। तेन मन्त्रोच्चारणेनेत्यर्थः। इदानीं विधत्ते इध्मावर्हिरिति। एनदिध्माः (ध्मं) बर्हिश्चेत्युभयम्। इध्माबर्हिःप्रोक्षणवद्वेदेरद्भिः प्रोक्षणं विधत्ते वेदिं प्रोक्षतीति। लोमरहितत्वादृक्षा पुरुषा सती यागयोग्या न भवति। तस्माद्योग्यत्वाय प्रोक्षणम्। तदुक्तं सूत्रकारेण ‘अन्तर्वदि पुरोग्रन्थि बर्हिरासाद्य दिवे त्वेत्यग्रं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम्’ इति, तदेतद्विधत्ते दिवे त्वेति। दिवे त्वेत्यादिमन्त्रास्तत्काण्ड एव व्याख्याताः।यदुक्तं सूत्रकारेण ‘प्रोक्षणीशेषं स्वधा पितृभ्य इति दणिणायै श्रोणेरोत्तरस्याः सततं निनयेत्, इति तदेतद्विधत्तेक्रूरमिवेति। प्रस्तरस्य धारणं विधत्ते पुरस्तादिति। वेदिपूर्वभागे ब्रह्मा यजमानो वा प्रस्तरं धारयेत्। तच्च सूत्रेभिहितं ‘ब्रह्मा प्रस्तरं धारयति यजमानो वा’ इति। धारणाय मुखसमान मौन्नत्यं हस्तेनाभिनीय विधत्ते इयन्तमिति। वेदिखननवद्व्याख्येयम्। वेद्यां स्तरणं विधत्ते बर्हिस्तृणातीति। स्तरणे नीरन्ध्रत्वं विधत्ते अनतिदृश्नमिति। अतिशयेन भूमेर्दर्शनमतिदृश्नं तद्यथा न भवति तथा स्तृणीयात्। तेन यजमानं प्रजया पशुभिश्च सर्वतो वेष्टितत्वादि (द) तिस्पष्टं द्रष्टुमयोग्यं करोति। स्तीर्णस्य बर्हिष उपरि प्रस्तरसादनं विधत्ते उत्तर बर्हिष इति। स्मरणार्थस्य बर्हिषोधः स्थितत्वात्प्रजात्वम्। प्रस्तरस्यप्रधानभूतत्वाद्यजमानत्वम्। अधस्तादास्तीर्णस्य बर्हिष उपरिष्टात्साद्यमानरस्यप्रस्तरस्य (च) मध्ये तिर्थक्तया द्वाभ्यां व्यवधानं विधत्ते अन्तरिति। तदेतदन्तर्धानं मन्त्रकाण्डोक्तेन विशो यन्त्रे स्थ इति मन्त्रेण क्रियते। प्रस्तरस्यासादनप्रसङ्गेनबुद्धिस्थान्प्रहरणकालीनान्विशेषान्विधित्सुरादौ प्रस्तरस्य घृतेनाञ्जनं विधत्ते-"

"अनक्तीति। प्रस्तरस्य दर्भमुष्टेरनदनीयद्रव्यत्वेन स्वरूपतो हविष्ट्वाभावेप्यञ्जनेन हविष्ट्वं कृतं भवतीति तादृशमेनं प्रस्तरं स्वर्गप्राप्तियोग्यं करोति । यदुक्तं सूत्रकारेण-‘स्त्रुक्षु प्रस्तरमनत्यक्त रिहाणा इति जुह्वामग्रं प्रजायोनिमित्युपभृति मध्यमाप्यायन्तामाप ओषधय इति ध्रुवायां मूलमेवं त्रिः’ इति। तदेतद्विधत्ते त्रेधानक्तीति। प्रस्तरस्य प्रहरणे हेयोपादेयौ प्रकारौ विधत्ते न प्रतीति। अङ्गारेषु क्षुण्णेषु प्रतिक्षेपः प्रतिशरणं तन्न कुर्यात्। यदिकुर्याद्यजमानस्यानूर्ध्वं भावुकं स्यात् स्वर्गप्राप्तिसाधनं न भवेदित्यर्थः। तस्माद्धस्तमुन्नतं कृत्वा प्रस्तरमग्नेरुपर्येव प्रहरेस्त्वर्गलोकस्योपर्येव वर्तमानत्वात्तत्प्राप्तिसाधनं भवति। प्रस्तरयुक्तस्य हस्तस्याधोमुखत्वं विधत्ते न यच्छतीति। हस्तो न्यग्भूतो यथा भवति तथा कुर्यात्। तेन यजमानार्थ वृष्टिमेव न्यग्भूतां करोति। प्रस्तराग्रस्याहवनीयातिक्रमं निषेधति नात्यग्रमिति। अतिक्रान्तमग्रं यस्य तदत्यग्रम्। तद्यथा भवति तथा न प्रहरेत्। किंतु प्रस्तराग्रमाहवनीयस्योत्तरत एव नयेत्। अत्यग्रप्रहरणे हि वृष्टिरत्यासारिणी भवति तस्याध्वर्योर्विनाशनशीला स्यात्। अत्याधिक्येन वर्षणमति सारिणीत्वं, तेन सस्यानि फलितुमयोग्यानि भवन्ति, सोयमध्वर्योर्नाशः। अथवा व्याधिविशेषेणाध्वर्युर्नश्येत्। पूर्वस्यां दिशि प्रस्तरस्य मूलं पश्चिमायामग्रमित्येवंविधं प्रहरणं निषेधति। "

"न पुरस्तादिति। पश्चिमाग्रत्वं निषिध्य प्रागग्रत्वं विधत्ते प्राञ्चं प्र हरतीति। प्रस्तरगतानां दर्भाग्राणां सर्वतो विश्लेषणं निषेमति न विष्वञ्चमिति। विष्वञ्चं नानादिग्गतं तथा भवति तथा न वियुयान्नविश्लेषयेत् तद्विश्लेषणे यजमानस्य स्त्र्यपत्यमेव जायेत। स्त्रीव्यञ्जनस्य विश्लिष्टरूपत्वात्। दर्भाग्राणां समूहरूपेणैकीभावं विधत्ते ऊर्ध्वमुद्यौतीति। ऊर्ध्वं दण्डाकारेणैकाग्रं यथा भवति तथोद्यौत उत्कर्षेण मिश्रयेत्। पुसां व्यञ्जनमूर्ध्वाकारं भवति, ततोस्य पुमानेव जायते। सोयमाग्नीध्रस्य व्यापारः। तथा च सूत्रकार आह—‘त्रिरञ्जलिनाग्नीध्रो विष्वञ्चं प्रस्तरमूर्ध्वमुद्यौति”।तस्मिन्नेकीकरणे साधनान्तरं निमिध्य हस्तं विधत्ते यत्स्फ्येनेति। योयुपनं विश्लिष्टभूतस्यैकीकरणम्। अथवा प्रस्तरस्य सम्यग्दाहायोत्क्षेपणं, तद्यदि स्फ्येनोपवेषेण वा क्रियेत सेयं यजमानस्य हिंसा। हस्तेनैव योयुपनं रक्षायै भवति। प्रस्तरप्रहरणस्याधारत्वेनाहवनीयं विधत्ते ब्रह्मवादिन इति। यज्ञस्य संबन्धि किमङ्कं यजमानस्थानीयमिति ब्रह्मवादिभिः पृष्टे बुद्धिमान्प्रस्तर इति ब्रूयादुत्तरम्। स्रुक्षु प्रस्तरस्याञ्जनं कृत्वा तत्रैकं तृणं पृथक्कृत्य प्रज्ञातं स्थापयेत्। तस्ये दानीमग्नौ प्रहरणं विधत्ते वि वा एतदिति। प्रस्तरमूलमुत्क्षिपन्तीति यदेतेन यजमानो विलिशते विशेषेणाल्पी भवति रोगेण कृशो भवतीत्यर्थः। प्रज्ञातत्वेन स्थापितस्य बर्हिषोनुप्रहरणे तस्याल्पीभावस्य शान्तिर्भवति। तदेतद्वर्हिष्प्रहरणं सूत्रकारेण स्पष्टीकृतम्--- ‘आयुषे त्वेत्यक्तस्य तृणमपादाय प्रज्ञातं निधाय’ इति। ‘अथैन माहाग्नीध्रोनुप्रहरेति यत्प्रस्तरात्तृणमपात्तं तदनुप्रहरति’ इति च ।। मन्त्रकाण्डे पठितेन मन्त्रेण भूमिस्पर्शनं विधत्त "

"अनारम्भण इति। एतर्हि प्रस्तरप्रहरणादूर्ध्वं प्रस्तररूपस्य यजमानस्य स्वर्गेवस्थितत्वादध्वर्युरनारम्भण इव निरालम्बन इव भवति। स च वेपनो भवितोरीश्वरः पालनस्वामिराहित्यभयेन सर्वदा कम्पनशीलो भवितुं समर्थो भवति। निरन्तरं भवति कम्पमान इत्यर्थः। ध्रुवासीति भमिस्पर्शनेन लब्धप्रतिष्ठो न कम्पते। यदुक्तं सूत्रकारेण----अथैनमाहाग्निध्रः संवदस्वेत्यगानग्नीदित्यध्वर्युरगन्नित्याग्नीध्रः इति। अनयोः प्रश्नोत्तरमन्त्रयोरुत्तरमन्त्रस्य शाखान्तरपाठनिराकरणपूर्वकं मन्त्रद्वयोच्चारणं विधत्ते अगा३नग्नीदिति। हेग्नीद्धे आग्नीध्र किं यजमानः स्वर्गं गतवान्। प्रश्न द्योतनायेयं प्लुतिः । अगन्नग्निरित्येष शाखान्तरगतो मन्त्रपाठस्तस्मिन्पाठे वह्निः स्वर्गगत इत्यर्थो भवति, तत्त्वयुक्तम्। आहवनीयोत्र स्वर्गत्वेन विवक्षितः। तस्मिन्स्वर्गरूपेग्नौ तमग्निमेव प्रापितवान्भवति यजमानं स्वर्गाल्लोकान्निःसारितवान्भवति। तस्मादग्निरित्येतत्पदं मन्त्रे परित्यज्यागन्नित्येतावदेव ब्रूयात्। तेन यजमानः स्वर्गं लोक गतवानित्यर्थो लभ्यते।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके पञ्चमोनुवाकः।। ५ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 ब्रह्मवादिन इत्यादि ॥ अध्वर्युः पर्यनुयुज्यते । ब्रह्मणेति । 'प्रोक्षितास्स्थ' इति मन्त्रेण । कीदृशमिदं ब्रह्मणा अपां प्रोक्षणं; अप्रोक्षणमेवेदमुक्तं भवति; मन्त्रोच्चारणमात्रमेव क्रियते इत्यत आह - अद्भिर्ह्येवेत्यादि । यस्मात् अद्भिः हविषां प्रोक्षणद्वारेण मेध्यत्वं क्रियत इति ब्रह्मणाऽपि तदपामिति । तस्मात् ब्रह्मणेत्युत्तरं ब्रूयादिति ॥
2 इध्माबर्हिरित्यादि ॥ छान्दसं पूर्वोत्तरयोर्युगपत् प्रकृतिस्वरत्वम् । ऋक्षा वा एषेति । ऋक्षा तृणादिरहिता स्थाली एषा वेदिः मूलादिच्छेदनेन ऋक्षा अलोमका उप्तलोमा अमेध्या तस्मात् प्रोक्षणेन मेध्यामेवैनां करोति । वावकाश[क्षिपकादि]त्वादित्वाभावः ॥
3 दिवे त्वेत्यग्रादारभ्य प्रोक्षणम् ॥
4 क्रूरमिवेत्यादि ॥ गतम् ॥
5 अनतिदृश्नमिति ॥ अनतिविरळम् ॥
6 उत्तरं बर्हिष इत्यादि ॥ गतम् ॥
7 अनक्ति - प्रहरणकाले स्रुक्षु ॥
8 न प्रति शृणातीति - नाकृष्य पुनः प्रक्षिपति । अनूर्ध्वभावुकमनूर्ध्वलोके प्रभवम् । छान्दस उकञ् ।
9 उपरीत्यादि ॥ गतम् । नियच्छति न्यञ्चं पातयति । अत्यग्रमिति । अग्रात्ययेन न प्रहरेत् । अत्यासारिणीति । अत्यासारशीला अध्वर्योर्नाशहेतुः वृष्टिस्स्यात् । न पुरस्तादिति । पुरस्तात् प्रतीचीनं न प्रक्षिपेत् । 'पराङिव हि सुवर्गः' इति पुरस्तात् प्रत्यसनेन यजमानः स्वर्गात्प्रतिनिवर्तितो भवति । प्राञ्चमित्यादि । गतम् । न विष्वञ्चमिति । विषूचीनाग्रं न विश्लेषयेत् । स्त्र्यस्येति । विषूचीनत्वात् स्त्रीव्यञ्जनस्य । ऊर्ध्वमेवेति । पुंव्यञ्जनस्योर्ध्वत्वात् ॥
10 यदिति ॥ योयुप्येत विह्वलीक्रियेत । स्तुतिः छादनं स्फ्याद्युपादानेन हस्तादितिरोधानात् हिंसया स्तृतिः वज्रस्थानीयस्फ्यादिस्पर्शनात् । ह्रस्वान्तधात्वन्तरमिदम् । हस्तेनेत्यादि । गतम् । गोपीथाय रक्षणाय भवति ॥
11 ब्रह्मवादिन इत्यादि ॥ यज्ञसम्बन्धि किमङ्गं यजमानः यजमानस्थानीयामिति ब्रह्मवादिनः पृच्छन्ति । तत्र प्रस्तरो यजमान इत्युत्तरं ब्रूयात् । तस्य यजमानस्य स्वर्गो लोकः सर्वाभिमतसिद्धिः । क्वेति पुनः पृच्छन्ति ब्रह्मवादिनः । तत्राप्याहवनीय इति प्रब्रूयात् । यदित्यादि । गतम् ॥
12 वि वा एतदिति ॥ प्रस्तरस्य यजमानत्वात् तस्य विश्लथनेन यजमानो लिशते विबाध्यते । लिश अल्पीभावे, तौदादिकः । तत्र बर्हिरनुप्रहरणेन स्वस्य परिहृतत्वात् तच्छान्तिः सुखं यजमानस्य ॥
13 अनारम्भण इवेत्यादि ॥ अध्वरस्य नेतृत्वाच्चलितत्वादप्रतिष्ठितत्वं वेपनत्वम् ॥
14 अगानग्नीदिति ॥ हे अग्नीत् किमगान् अगमत् प्रस्तरमिति पृच्छत्यध्वर्युराग्नीध्रम् । गमेर्लुङि 'मन्त्रे घस' इति च्लेर्लुक् । 'मोनो धातोः' । प्रश्ने उदात्तप्लुतः । तस्यासिद्धत्वादट उदात्तत्वेन समावेशः । अग्नीदित्यामन्त्रितानुदात्तत्वम् । अथाग्नीध्रो यदि प्रतिब्रूयात् अगन्नग्निः प्रस्तरजन्मा । यद्वा - अग्निः प्रस्तरं परिगतवानिति । तदा प्रस्तराग्निमग्नौ प्रवेशयेत् । ततश्च यजमानः स्वर्गाल्लोकान्निर्भजेत्तस्मादगन्नित्येव ब्रूयात् विनैवाग्निशब्दम् । यजमानं स्वर्गं गमयति ॥
इति द्वितीये षष्ठे पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 2.6.5.2 TS 2.6.5.2
-क्ष॑त्ये॒भ्य ए॒वैन॑ल्लो॒केभ्यः॒ प्रोक्ष॑ति क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ यत् खन॑त्य॒पो निन॑यति॒ शान्त्यै॑ पु॒रस्ता᳚त् प्रस्त॒रं गृ॑ह्णाति॒ मुख्य॑मे॒वैनं॑ करो॒तीय॑न्तं गृह्णाति प्र॒जाप॑तिना यज्ञ्मु॒खेन॒ संमि॑तं ब॒र्॒.हिः स्तृ॑णाति प्र॒जा वै ब॒र्॒.हिः पृ॑थि॒वी वेदिः॑ प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापय॒त्यन॑तिदृश्नꣳ स्तृणाति प्र॒जयै॒वैनं॑ प॒शुभि॒रन॑तिदृश्नं करो॒- [ ]
पदपाठः (Word-by-word)
उ॒क्ष॒ति॒ । ए॒भ्यः । ए॒व । ए॒न॒त् । लो॒केभ्यः॑ । प्रेति॑ । उ॒क्ष॒ति॒ । क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । खन॑ति । अ॒पः । नीति॑ । न॒य॒ति॒ । शान्त्यै᳚ । पु॒रस्ता᳚त् । प्र॒स्त॒रमिति॑ प्र - स्त॒रम् । गृ॒ह्णा॒ति॒ । मुख्य᳚म् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ । इय॑न्तम् । गृ॒ह्णा॒ति॒ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । य॒ज्ञ्॒मु॒खेनेति॑ यज्ञ् - मु॒खेन॑ । संमि॑त॒मिति॒ सं - मि॒त॒म् । ब॒र्॒.हिः । स्तृ॒णा॒ति॒ । प्र॒जा इति॑ प्र - जाः । वै । ब॒र्॒.हिः । पृ॒थि॒वी । वेदिः॑ । प्र॒जा इति॑ प्र - जाः । ए॒व । पृ॒थि॒व्याम् । प्रतीति॑ । स्थ॒प॒य॒ति॒ । अन॑तिदृश्न॒मित्यन॑ति - दृ॒श्न॒म् । स्तृ॒णा॒ति॒ । प्र॒जयेति॑ प्र - जया᳚ । ए॒व । ए॒न॒म् । प॒शुभि॒रिति॑ प॒शु - भिः॒ । अन॑तिदृश्न॒मित्यन॑ति - दृ॒श्न॒म् । क॒रो॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.6.5.3 TS 2.6.5.3
-त्युत्त॑रं ब॒र्॒.हिषः॑ प्रस्त॒रꣳ सा॑दयति प्र॒जा वै ब॒र्॒.हि र्यज॑मानः प्रस्त॒रोयज॑मान-मे॒वाय॑जमाना॒-दुत्त॑रं करोति॒ तस्मा॒द्-यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो॒ऽन्तर्द॑धाति॒ व्यावृ॑त्त्या अ॒नक्ति॑ ह॒विष्कृ॑तमे॒वैनꣳ॑ सुव॒र्गं ॅलो॒कं ग॑मयतित्रे॒धाऽन॑क्ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ ॅलो॒केभ्यो॑ऽनक्ति॒ न प्रति॑ शृणाति॒यत् प्र॑तिशृणी॒यादनू᳚र्द्ध्वं भावुकं॒ ॅयज॑मानस्य स्यादु॒परी॑व॒ प्र ह॑र - [ ]
पदपाठः (Word-by-word)
उत्त॑र॒मित्युत् - त॒र॒म् । ब॒र॒.हिषः॑ । प्र॒स्त॒रमिति॑ प्र - स्त॒रम् । सा॒द॒य॒ति॒ । प्र॒जा इति॑ प्र - जाः । वै । ब॒र्॒.हिः । यज॑मानः । प्र॒स्त॒र इति॑ प्र - स्त॒रः । यज॑मानम् । ए॒व । अय॑जमानात् । उत्त॑र॒मित्युत् - त॒र॒म् । क॒रो॒ति॒ । तस्मा᳚त् । यज॑मानः । अय॑जमानात् । उत्त॑र॒ इत्युत् - त॒रः॒ । अ॒न्तः । द॒धा॒ति॒ । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै । अ॒नक्ति॑ । ह॒विष्कृ॑त॒मिति॑ ह॒विः - कृ॒त॒म् । ए॒व । ए॒न॒म् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ग॒म॒य॒ति॒ । त्रे॒धा । अ॒न॒क्ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒भ्यः । ए॒व । ए॒न॒म् । लो॒केभ्यः॑ । अ॒न॒क्ति॒ । न । प्रतीति॑ । शृ॒णा॒ति॒ । यत् । प्र॒ति॒शृ॒णी॒यादिति॑ प्रति - शृ॒णी॒यात् । अनू᳚र्द्ध्वं भावुक॒मित्यनू᳚र्द्ध्वं-भा॒वु॒क॒म् । यज॑मानस्य । स्या॒त् । उ॒परि॑ । इ॒व॒ । प्रेति॑ । ह॒र॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.6.5.4 TS 2.6.5.4
-त्यु॒परी॑व॒ हि सु॑व॒र्गो लो॒को निय॑च्छति॒ वृष्टि॑मे॒वास्मै॒ निय॑च्छति॒ नात्य॑ग्रं॒ प्र ह॑रे॒द्यदत्य॑ग्रं प्र॒हरे॑द-त्यासा॒रिण्य॑द्ध्व॒र्यो-र्नाशु॑का स्या॒न्न पु॒रस्ता॒त् प्रत्य॑स्ये॒द्यत् पु॒रस्ता᳚त् प्र॒त्यस्ये᳚थ् सुव॒र्गाल्लो॒काद्-यज॑मानं॒ प्रति॑ नुदे॒त् प्राञ्चं॒ प्रह॑रति॒ यज॑मानमे॒व सु॑व॒र्गं ॅलो॒कं ग॑मयति॒ न विष्व॑ञ्चं॒ ॅवि यु॑या॒द्-यद्-विष्व॑ञ्चं ॅवियु॒याथ् - [ ]
पदपाठः (Word-by-word)
उ॒परि॑ । इ॒व॒ । हि । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । नीति॑ । य॒च्छ॒ति॒ । वृष्टि᳚म् । ए॒व । अ॒स्मै॒ । नीति॑ । य॒च्छ॒ति॒ । न । अत्य॑ग्र॒मित्यति॑ - अ॒ग्र॒म् । प्रेति॑ । ह॒रे॒त् । यत् । अत्य॑ग्र॒मित्यति॑ - अ॒ग्र॒म् । प्र॒हरे॒दिति॑ प्र - हरे᳚त् । अ॒त्या॒सा॒रिणीत्य॑ति-आ॒सा॒रिणी᳚ । अ॒द्ध्व॒र्योः । नाशु॑का । स्या॒त् । न । पु॒रस्ता᳚त् । प्रतीति॑ । अ॒स्ये॒त् । यत् । पु॒रस्ता᳚त् । प्र॒त्यस्ये॒दिति॑ प्रति - अस्ये᳚त् । सु॒व॒र्गादिति॑ सुवः - गात् । लो॒कात् । यज॑मानम् । प्रतीति॑ । नु॒दे॒त् । प्राञ्च᳚म् । प्रेति॑ । ह॒र॒ति॒ । यज॑मानम् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ग॒म॒य॒ति॒ । न । विष्व॑ञ्चम् । वीति॑ । यु॒या॒त् । यत् । विष्व॑ञ्चम् । वि॒यु॒यादिति॑ वि-यु॒यात् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.6.5.5 TS 2.6.5.5
स्त्र्य॑स्य जायेतो॒र्द्ध्वमुद्यौ᳚त्यू॒र्द्ध्वमि॑व॒ हि पुꣳ॒॒सः पुमा॑ने॒वास्य॑ जायते॒ यथ् स्फ्येन॑ वोपवे॒षेण॑ वा योयु॒प्येत॒ स्तृति॑रे॒वास्य॒ सा हस्ते॑न योयुप्यते॒ यज॑मानस्य गोपी॒थाय॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ किं ॅय॒ज्ञ्स्य॒ यज॑मान॒ इति॑ प्रस्त॒र इति॒ तस्य॒ क्व॑ सुव॒र्गो लो॒क इत्या॑हव॒नीय॒ इति॑ ब्रूया॒द्यत् प्र॑स्त॒रमा॑हव॒नीये᳚ प्र॒हर॑ति॒ यज॑मानमे॒व - [ ]
पदपाठः (Word-by-word)
स्त्री । अ॒स्य॒ । जा॒ये॒त॒ । ऊ॒र्द्ध्वम् । उदिति॑ । यौ॒ति॒ । ऊ॒र्द्ध्वम् । इ॒व॒ । हि । पुꣳ॒॒सः । पुमान्॑ । ए॒व । अ॒स्य॒ । जा॒य॒ते॒ । यत् । स्फ्येन॑ । वा॒ । उ॒प॒वे॒षेणेत्यु॑प-वे॒षेण॑ । वा॒ । यो॒यु॒प्येत॑ । स्तृतिः॑ । ए॒व । अ॒स्य॒ । सा । हस्ते॑न । यो॒यु॒प्य॒ते॒ । यज॑मानस्य । गो॒पी॒थाय॑ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । किम् । य॒ज्ञ्स्य॑ । यज॑मानः । इति॑ । प्र॒स्त॒र इति॑ प्र-स्त॒रः । इति॑ । तस्य॑ । क्व॑ । सु॒व॒र्ग इति॑ सुवः- गः । लो॒कः । इति॑ । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । इति॑ । ब्रू॒या॒त् । यत् । प्र॒स्त॒रमिति॑ प्र - स्त॒रम् । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ । प्र॒हर॒तीति॑ प्र - हर॑ति । यज॑मानम् । ए॒व ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.6.5.6 TS 2.6.5.6
सु॑व॒र्गं ॅलो॒कं ग॑मयति॒ वि वा ए॒तद्-यज॑मानो लिशते॒ यत् प्र॑स्त॒रं ॅयो॑यु॒प्यन्ते॑ ब॒र्॒.हिरनु॒ प्रह॑रति॒ शान्त्या॑ अनारम्भ॒ण इ॑व॒ वा ए॒तर्ह्य॑द्ध्व॒र्युः स ई᳚श्व॒रो वे॑प॒नो भवि॑तोर्द्ध्रु॒वा ऽसीती॒माम॒भि मृ॑शती॒यं ॅवै ध्रु॒वाऽस्यामे॒व प्रति॑तिष्ठति॒ न वे॑प॒नो भ॑व॒त्यगा(3)न॑ग्नी॒दित्या॑ह॒ यद्ब्रू॒याद-ग॑न्न॒ग्निरित्य॒ ( ) -ग्नाव॒ग्निं ग॑मये॒न्नि र्यज॑मानꣳ सुव॒र्गाल्लो॒काद्-भ॑जे॒दग॒न्नित्ये॒व ब्रू॑या॒द्-यज॑मानमे॒व सु॑व॒र्गं ॅलो॒कं ग॑मयति ॥
पदपाठः (Word-by-word)
सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ग॒म॒य॒ति॒ । वीति॑ । वै । ए॒तत् । यज॑मानः । लि॒श॒ते॒ । यत् । प्र॒स्त॒रमिति॑ प्र - स्त॒रम् । यो॒यु॒प्यन्ते᳚ । ब॒र्॒.हिः । अनु॑ । प्रेति॑ । ह॒र॒ति॒ । शान्त्यै᳚ । अ॒ना॒र॒भं॒ण इत्य॑ना - र॒भं॒णः । इ॒व॒ । वै । ए॒तर्.हि॑ । अ॒द्ध्व॒र्युः । सः । ई॒श्व॒रः । वे॒प॒नः । भवि॑तोः । ध्रु॒वा । अ॒सि॒ । इति॑ । इ॒माम् । अ॒भीति॑ । मृ॒श॒ति॒ । इ॒यम् । वै । ध्रु॒वा । अ॒स्याम् । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । न । वे॒प॒नः । भ॒व॒ति॒ । अगा(3)न् । अ॒ग्नी॒दित्य॑ग्नि - इ॒त् । इति॑ । आ॒ह॒ । यत् । ब्रू॒या॒त् । अगन्न्॑ । अ॒ग्निः । इति॑ ( ) । अ॒ग्नौ । अ॒ग्निम् । ग॒म॒ये॒त् । निरिति॑ । यज॑मानम् । सु॒व॒र्गादिति॑ सुवः-गात् । लो॒कात् । भ॒जे॒त् । अगन्न्॑ । इति॑ । ए॒व । ब्रू॒या॒त् । यज॑मानम् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ग॒म॒य॒ति॒ ॥
पदसंख्या: 67