अनुवाकः 12 TS 2.6.12

(A12)

(भ॒वा॒ - ऽस्मभ्य॒ - मसुं॒ - ॅयद॑ग्ने - मदन्ति - सौमन॒स - एकं॑ च )

अनुवाकः 12 - Complete Audio

TS 2.6.12 - स्वरानुगामी

0:00 0:00
PS1.1 उ॒शन्त॑स्त्वा हवामह उ॒शन्तः॒ समि॑धीमहि
PS1.2 उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्.
PS1.3 ह॒विषे॒ अत्त॑वे
PS1.4 त्वꣳ सो॑म॒ प्रचि॑कितो मनी॒षा
PS1.5 त्वꣳ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्थां᳚
PS1.6 तव॒ प्रणी॑ती पि॒तरो॑ न
PS1.7 इन्दो दे॒वेषु॒ रत्न॑म भजन्त॒
PS1.8 धीराः᳚
PS1.9 त्वया॒ हि नः॑ पि॒तरः॑
PS1.10 सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः
PS1.11 प॑वमान॒ धीराः᳚
PS1.12 व॒न्वन्नवा॑तः परि॒धीꣳ रपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा॑
PS1.13 भवा - [ ]
PS2.1 नः
PS2.2 त्वꣳ सो॑म पि॒तृभिः॑ संॅविदा॒नोऽनु॒
PS2.3 द्यावा॑पृथि॒वी आ त॑तन्थ
PS2.4 तस्मै॑ त इन्दो ह॒विषा॑
PS2.5 विधेम व॒यꣳ स्या॑म॒ पत॑यो
PS2.6 रयी॒णां
PS2.7 अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒
PS2.8 सदः॑ सदः सदत सुप्रणीतयः
PS2.9 अ॒त्ता ह॒वीꣳषि॒ प्रय॑तानि ब॒र्॒.हिष्यथा॑
PS2.10 र॒यिꣳ सर्व॑वीरं दधातन
PS2.11 बर्.हि॑षदः पितर ऊ॒त्य॑र्वागि॒मा वो॑
PS2.12 ह॒व्या च॑कृमा जु॒षद्ध्वं᳚
PS2.13 त आ ग॒ताऽ*व॑सा॒ शं
PS2.14 त॑मे॒नाथा॒स्मभ्यꣳ॒॒ - [ ]
PS3.1 शं ॅयोर॑र॒पो द॑धात
PS3.2 आऽहं पि॒तॄन्थ् सु॑वि॒दत्राꣳ॑ अविथ्सि॒
PS3.3 नपा॑तं च वि॒क्रम॑णं च॒
PS3.4 विष्णोः᳚
PS3.5 ब॒र्॒.हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒
PS3.6 भज॑न्त पि॒त्वस्त इ॒हाऽऽ ग॑मिष्ठाः
PS3.7 उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्.हि॒ष्ये॑षु
PS3.8 नि॒धिषु॑ प्रि॒येषु॑
PS3.9 त आ ग॑मन्तु॒ त
PS3.10 इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते
PS3.11 अ॑वन्त्व॒स्मान्
PS3.12 उदी॑रता॒मव॑र॒ उत् परा॑स॒ उन्म॑द्ध्य॒माः
PS3.13 पि॒तरः॑ सो॒म्यासः॑
PS3.14 असुं॒ - [ ]
PS4.1 ॅय ई॒युर॑ वृ॒का ऋ॑त॒ज्ञास्ते
PS4.2 नो॑ऽवन्तु पि॒तरो॒ हवे॑षु
PS4.3 इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य
PS4.4 ये पूर्वा॑सो॒ य उप॑रास
PS4.5 ई॒युः
PS4.6 ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒
PS4.7 ये वा॑ नू॒नꣳ सु॑वृ॒जना॑सु
PS4.8 वि॒क्षु
PS4.9 अधा॒ यथा॑ नः पि॒तरः॒
PS4.10 परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः
PS4.11 शुचीद॑य॒न् दीधि॑ति मुक्थ॒शासः॒ क्षामा॑
PS4.12 भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन्न्
PS4.13 यद॑ग्ने - [ ]
PS5.1 कव्यवाहन पि॒तॄन्. यक्ष्यृ॑ता॒वृधः॑
PS5.2 प्र च॑ ह॒व्यानि॑ वक्ष्यसि
PS5.3 दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ
PS5.4 त्वम॑ग्न ईडि॒तो जा॑तवे॒दोऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा
PS5.5 प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते
PS5.6 अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता
PS5.7 ह॒वीꣳषि॑
PS5.8 मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒ र्बृह॒स्पति॒र्॒.
PS5.9 ऋक्व॑भि र्वावृधा॒नः
PS5.10 याꣳश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑
PS5.11 दे॒वान्थ् स्वाहा॒ऽन्ये स्व॒धया॒ऽन्ये म॑दन्ति
PS6.1 इ॒मं ॅय॑म प्रस्त॒रमाहि सीदाङ्गि॑रोभिः
PS6.2 पि॒तृभिः॑ संॅविदा॒नः
PS6.3 आत्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना
PS6.4 रा॑जन्. ह॒विषा॑ मादयस्व
PS6.5 अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व
PS6.6 विव॑स्वन्तꣳ हुवे॒ यः पि॒ता
PS6.7 ते॒ऽस्मिन्. य॒ज्ञे ब॒र्॒.हिष्या नि॒षद्य॑
PS6.8 अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒
PS6.9 अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑
PS6.10 तेषां᳚ ॅव॒यꣳ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑
PS6.11 भ॒द्रे सौ॑मन॒से ( )
PS6.12 स्या॑म

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.6.12.1 TS 2.6.12.1
उ॒शन्त॑स्त्वा हवामह उ॒शन्तः॒ समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्. ह॒विषे॒ अत्त॑वे ॥ त्वꣳ सो॑म॒ प्रचि॑कितो मनी॒षा त्वꣳ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्थां᳚ । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑म भजन्त॒ धीराः᳚ ॥त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः᳚ । व॒न्वन्नवा॑तः परि॒धीꣳ रपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा॑ भवा - [ ]
पदपाठः (Word-by-word)
उ॒शन्तः॑ । त्वा॒ । ह॒वा॒म॒हे॒ । उ॒शन्तः॑ । समिति॑ । इ॒धी॒म॒हि॒ ॥ उ॒शन्न् । उ॒श॒तः । एति॑ । व॒ह॒ । पि॒तॄन् । ह॒विषे᳚ । अत्त॑वे ॥ त्वम् । सो॒म॒ । प्रचि॑कित॒ इति॒ प्र - चि॒कि॒तः॒ । म॒नी॒षा । त्वम् । रजि॑ष्ठम् । अन्विति॑ । ने॒षि॒ । पन्था᳚म् ॥ तव॑ । प्रणी॒तीति॒ प्र - नी॒ती॒ । पि॒तरः॑ । नः॒ । इ॒न्दो॒ इति॑ । दे॒वेषु॑ । रत्न᳚म् । अ॒भ॒ज॒न्त॒ । धीराः᳚ ॥ त्वया᳚ । हि । नः॒ । पि॒तरः॑ । सो॒म॒ । पूर्वे᳚ । कर्मा॑णि । च॒क्रुः । प॒व॒मा॒न॒ । धीराः᳚ ॥ व॒न्वन्न् । अवा॑तः । प॒रि॒धीनिति॑ परि - धीन् । अपेति॑ । ऊ॒र्णु॒ । वी॒रेभिः॑ । अश्वैः᳚ । म॒घवेति॑ म॒घ - वा॒ । भ॒व॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)
अथ द्वितीयकाण्डे षष्ठप्रपाठके द्वादशोऽनुवाकः) (पितृयज्ञहविर्हौत्रमन्त्राभिधानम्)

एकादशे तु कथितं संवर्गेष्ट्यादि हौत्रकम्। द्वादशे पितृयज्ञस्य हविषां हौत्रमुच्यते।।

"कल्पः- “एकां सामिधेनीं त्रिरन्वाहोशन्तस्त्वा हवामह इत्येताम्” इति। पाठस्तु उशन्तस्त्वेति। हेऽग्ने वयमुशन्तः पितॄन्कामयमानास्त्वामाह्वयामः। पुनरपि पितॄनुशन्तस्त्वा समिधीमहि। त्वमपि कामयमानः कामयमानस्य यजमानस्य षितॄनावह किमर्थम्, हविषेऽत्तवे हविर्भोक्तुम्। कल्पः- ‘द्वे पुरोनुवाक्ये अन्वाहर्चमुक्त्वा प्रणौत्यपरामुक्त्वा प्रणौतित्वऽ सोमगचिकित इत्येता आम्नाता भवन्त्येका या ज्या’ इति। तत्र प्रथमां पुरोनुवाक्यामाह त्व ऽ सोमेति। हे सोम त्वं मनीषा मनीषया त्वदीयया बुद्ध्या प्रचिकितः प्रकर्षेण ज्ञातः। किंच, त्वं रजिष्ठं य (ष्ठ) मन्नोदकसंपूर्त्या रञ्जकं मार्गमनुनेषि अनुक्तमेव प्रापयसि। हे इन्दो तव प्रणीती प्रणीत्या परिचरणेन नोऽस्माकं पितरो देवेषु मध्ये स्थित्वा धीराः सन्तो रत्नं रमणीय हविरभजन्त। द्वितीयां पुरोनुवाक्यामाह त्वया हि न इति। हे पवमान शोधक सोम हि यस्मान्नोऽस्माकं पूर्वे पितरस्त्वयाऽनुगृहीताः कर्माणि चक्रुः परिस्मरन्तो जन्माति धीरास्तिष्ठन्ति (च)। (तस्मात्) त्वमप्यवातो वायुमनपेक्ष्य ज्वलनेनास्मदीयहविर्वन्वन्संभक्षयन्परिधीन्परिधिवत्सर्वतोऽवस्थितान्प्रतिबन्धकानपोर्णु निराकुरु। कैः साधनैः। वीरेभिर्यूद्धकुशलैरश्वैः। तथा नोऽस्मदर्थं मधवा धनवान्भव। अथ याज्यामाह त्व ऽ सोमेति। हे सोम त्वं पितृभिः संविदानः संविदं प्राप्तोऽनुक्रमेण द्यावापृथिवी आततन्थाऽतते व्याप्ते कृतवानसि। हे इन्द्रो हे सोम तस्मै ते तादृशाय तुभ्यं हविषा विधेम परिचरेम। त्वत्प्रसादाद्वयं धनानां पतयः स्याम। इत्यं “सोमाय पुतृमते पुरोडाशऽ षट्कपालम्” इत्यस्यानुवाक्याद्वयं याज्या चेति मन्त्रत्रयमुक्तम्। अथ “पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थम्” इत्येतस्य प्रथमा पुरोनुवाक्योच्यते। यद्यपि पाठक्रमेण तृतीयमिदं हविस्तथाऽपि लिङ्गस्य बलवत्त्वात्तत्र विनियोगो द्रष्यव्यः । पाठस्तु अग्निष्वात्ता इति। अत्र ये वा अयज्वानो गृहमेधिनस्ते पितरोऽग्निष्वात्ता इति श्रुतत्वाद्यागमकृत्यैव प्रेत्य पितृलेकं गता अग्निष्वात्ताः शोभना प्रणीतिरस्मत्कृता परिचर्या येषां ते सुप्रणीतयस्तथाविधा हे पितर इह कर्मण्यागच्छत। सदःसदस्तत्तदात्मीयं स्थानं सदत प्राप्नुत। अस्मिन्बर्हिषि यज्ञे प्रयतानि प्रयत्नेन संपादितानि हवींषि अत्त भक्षयत। अथानन्तरं रयिं सर्वेषु वैदिककर्मसु वीरः कुशलो यः पुत्रस्तादृशं पुत्रं च दधातन संपादयत।"

"अथ द्वितीया पुरोनुवाक्या याज्या चेत्युभयमाम्नातं, तच्च ये अग्निष्वात्ता इत्यादिकं कौकिल्यां सौत्रामण्यामाम्नाततमस्तत्रैव व्याख्यास्यते। अथ पितृभ्यो बर्हिषद्भ्यो धाना इत्यस्य प्रथमं पुरोनुवाक्यामाह बर्हिषद इति। बर्हिषि यज्ञे सीदन्तीति बर्हिषदः। अत्रापि ये वै यज्वानस्ते पितरो बर्हिषद इत्युक्तत्ताद्यागं कृत्वा प्रेत्य पितृलोकं प्राप्ता बर्हिषदः। तादृश्या हे पितरोऽर्वागर्वाचीनानामस्माकमूती रक्षा भवद्भिः कर्तव्येति शेषः। वो युष्मदर्थमिमा हव्या एतानि हवींषि चकृमातस्तानि जुषध्वमिति (म । ते) हविर्जुष्टवन्तो यूयमवसा रक्षणेन शंतमेन सुखतमेनास्मानागत तन्निंमित्तमागच्छतेत्यर्थः। अथास्मभ्यं प्रथममन्ते च शं सुखं दुःखवियोगं चारपः पापराहित्यं च दधात दत्त। अथ तत्रैव द्वितीया पुरोनुवाक्या आऽहं पितॄनिति। अहं यजमानः सुविदत्रान्मदीयां भक्तिं सुष्ठु जानतः पितॄनपि आवित्स्याभिमुख्येन लब्धवानस्मि। विष्णोर्व्यापिनोऽस्य यज्ञस्य नपातं विनाशाभावं विक्रमणं विशेषेण प्रवृत्तिं च लब्धवानस्मि। ये पितरो बर्हिषदस्त इहात्र कर्मणि आगमिष्ठा अतिशयेनाऽगताः। आदरपूर्वकमागत्य पित्वः प्रीतिं भजन्त प्राप्नुवन्तु। केन साधनेन, सुतस्य स्वधया सोमसमस्य हविषः स्वादुत्वेन। अथ तत्रैव याज्यामाह"

उपहूता इति। सोम्यासः सोम्या अस्मदनुग्रहपराः पितरो बर्हिष्येषु या मार्हेषु तृप्तिकरेषु निधिसदृशेषु हविःषु निमित्तभूतेषु सत्सूपहूता अस्माभिराहुतास्ते पितर आगमन्त्वागच्छन्तु। आगत्य चेहास्मिन्कर्मण्यस्माभिः प्रयुक्ताः स्तुतीः श्रुवन्तु। श्रुत्वा चाधिब्रुवन्तु साधुरयं यजमान इत्यादरेण कथयन्तु। तत ईदृशाः पितरोऽस्मानवन्तु

अत्रैवोपहोमार्थास्तिस्र ऋचस्तासु प्रथमामाह उदीरतामिति। त्रिविधाः पितर उत्तमा मध्यमा अधमाश्चेति। यथाविधं श्रौतं कर्मानुष्ठाय पितृत्वं प्राप्ता उत्तमाः। स्मार्तकर्ममात्रपरा मध्यमाः। तत्रापि केचित्संस्कारैर्विकला अधमाः एतदेवाभिप्रेत्य ये अग्निदग्धा येऽनग्निदग्धा इत्यादिर्मन्त्र आम्नातः। तेष्ववरे निकृष्टा उदीरतामुत्तमं हविः प्राप्नुवन्तु। परास उत्तमाः पितर उदीरताम्। मध्यमाः पितरश्चोदीरताम्। ते सर्वेऽप्यस्मिन्विषये सोम्यास सोम्या अनुग्रहपराः सन्तु। ये पितरोऽवृका वृकवदरण्यश्ववदस्मासु हिंसामकुर्वन्त ऋतज्ञा अस्मदनुष्ठितं यज्ञं जानन्तोऽसुप्रस्मत्प्राणमीयू रक्षितुं प्राप्तास्ते पितरो हवषु अस्मदीयाह्वानेषु नोऽस्मानवन्तु। अथ द्वितीया इदं पितृभ्य इति। पूर्वासो यजमानोत्पत्तेः पूर्वमुत्पन्ना ज्येष्ठभ्रातृपितृपिता महादयो य ईयुः पितृलोकं प्राप्ताः। ये चान्य उपरासो यजमानजननादुपर्युत्पन्नाःकनिष्ठभ्रातृस्वपुत्रादय ईयुः पितृलोकं प्राप्ताः। येऽप्यन्ये पाथवे पृथिवीसंबन्धिनिरजसि रजोगुणकार्यऽस्मिन्कर्मण्यानीता हविः स्वीकर्तुमागत्योपविष्टाः। ये वा ये चान्ये बन्धुवर्मरूपाः पितरो बहुबन्धुरूपासु विक्षु प्रजास्वनिषत्ताः श्राद्धादिस्वीकारायाऽगत्योपविष्टाः। कीदृशीषु विक्षु सुवृजनासु वृज्यते परित्यज्यते दारिद्र्यमनेनेति वृजनं धनं शोभनं वृजनं यासां ताः सुवृजनास्तादृशीषु धनसमृद्ध्या श्राद्धादिकर्मपरास्वित्यर्थः। तेभ्यः सर्वेभ्य उक्तेभ्यः पितृभ्योऽद्यास्मिन्कर्मणीदं नमोस्त्वयमाहुतिप्रदानपूर्वको नमस्कारो भवतु। अथ तृतीया अधा यथेति। हेऽग्नेऽधाधस्तादतीते काले नोऽस्माकं पितर ऋतमाशुषाणायज्ञमश्नुवानाः शुचीच्छुद्धमेव स्थानं यथा येन प्रकारेणायन्प्राप्तवन्तो दीधितिं दीप्यमानां पितृरूपां देवतामुक्थशासः शस्त्रैः शंसन्तो वयमपि तथैवोच्चमेव स्थानं

"प्राप्ताः स्म इति। कीदृशाः पितरः, परासोऽस्मत्त उत्कृष्टाः पितृपिताप्रहादयः प्रत्नासः पुरातनाः पित्रादिभ्योऽपि पूर्वभाविनः। किंच, क्षाम क्षयहेतुं स्वकीयं क्षुदुपद्रवं भिन्दन्तोऽन्नेन हविषा नाशयन्तोऽरूणीस्तेजोरूपा (देवता) स्ताः प्राप्यापव्रन्फलप्रतिबन्धकं पापमपाकृण्वन्। अस्मिन्निह(न्हि) पितृयज्ञकर्मणि शाखान्तरेऽन्यदपि हविद्वयं विहितं तदग्नये कव्यवाहनायैकं यमायाङ्गिरस्वते पितृमते द्वितीयमिति। अत एव सूत्रकार आह----अथैकेषां सोमाय पितृमत आज्यं पितृभ्यो बर्हिषद्भ्यः षट्कपालं पितृभ्योऽग्निष्वात्तेभ्यो धाना अग्नेय कव्यवाहनाय यमाय वा मन्थं यमायाङ्गिरस्वते पितृमते इति। तत्र कव्यवाहनस्य प्रथमां पुरोनुवाक्यामाह यदग्न इति। कव्यं वहतीति कव्यवाहनः पितृभ्योऽग्निः। अत एवान्यत्र श्रुतम्---त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणाऽ सहरक्षा असुराणाम् इति। कव्यस्यास्य हविषो वाहक हेऽग्ने यद्यस्मात्कारणादृतावृधो यज्ञवर्धकान्पितॄन्यक्षि यजसि तस्मादेव कारणात्त्वं देवेभ्यः पितृभ्यश्च हव्यानि प्रावक्ष्यसि पुनः पुनः प्रकर्षता परमपि हविर्वहनं करिष्यसि। द्वितीयां पुरोनुवाक्यामाह त्वमग्न इति। जातं सर्वं जगद्वेदेति जातवेदास्तथाविध हेऽग्ने त्वमीडितो यजमानेन स्तुतः संस्तदीयानि हव्याति सुरभीणि सुगन्धीनि कृत्वाऽवाड्वहनं कृतवानसि। कृत्वा च पितृभ्यः प्रादाः। ते च पितरः स्वधया स्वधाकारेण प्रत्तं हव्यमक्षन्नदन्तु। हे देव त्वमपि प्रयता प्रयत्नसंपादितानि हवींष्यद्धि भक्षय। अथ याज्या मातलीति। मातलिरिन्द्रस्य सूतस्तद्वानिन्द्रो मातली। स च कव्यैः कव्यभाग्भिः पितृभिः सह वावृधानो वर्धमानो भवति। यमश्चाङ्गिरोभिः पितृविशेषैः सह वर्धमानो भवति। बृहस्पतिश्च ऋक्वभिर्ऋक्प्रतिपाद्यैः पितृविशेषैः सह वर्धमानो भवति। तत्र देवा यान्कव्यभागादीन्पितॄन्वावृधुर्वर्धयन्ति, ये च कव्यभागादयः पितर इन्द्रादीन्देवान्वर्धयन्ति तेषां मध्य इन्द्रादयः स्वाहा मदन्ति स्वाहाकारेण तृप्यन्ति। अन्ये पितरः स्वधया स्वधाकारेण तृप्यन्ति । अथाङ्गिरस्वतो यमस्य प्रथमां पुरोनुवाक्यामाह इमं यमेति। हे यमाङ्गिरोभिरेतन्नामकैः पितृभिः संविदान ऐकमत्यं प्राप्त इमं प्रस्तरं प्रस्तीर्णं यज्ञविशेषमासीदाऽगत्योपविश। हि यस्मादुपविशसि तस्मात्कविशस्ता विद्वद्भिर्ऋत्विग्भिः प्रयुक्ता मन्त्रास्त्वामावहन्तु। हे राजन्नेनाऽनेन हविषा तुष्टो मादयस्व यजमानं हर्षयस्व। अथ द्वितीयां पुरोनुवाक्यामाह—"

अङ्गिरोभिरिति। हे यम वैरूपैर्विविधरूपयुक्तेर्वैरूपसामप्रियैर्वा यज्ञियेभिर्यज्ञयोग्यैरङ्गिरोभिः सहाऽगहि आगच्छ। आगत्य चेह मादयस्व यजमानं हर्षय। यस्ते तव पिता विवस्वानस्ति तं विवस्वन्तमस्मिन्यज्ञे हुव आह्वयामि। स च बर्हिष्यस्मिन्यज्ञ आनिषद्याऽगत्योपविश्य यजमानं हर्षयतु। अथ याज्यामाह अङ्गिरसो न इति। अङ्गिरोनामका अथर्वनामका भृगुनामकाश्च नोऽस्माकं पितरो नवग्वा अभिनवागमनयुक्तास्तदा तदा नूतनवत्प्रीतिजनका इत्यर्थः। ते च सोम्यासः सोममर्हन्ति सोम्याः। यज्ञियानां तेषां सुमतावयुक्त (नुग्रह) युक्तायां बुद्धौ वयं स्याम सर्वदा तिष्ठेम। अपि च सौमनसे सौमनस्यकारणे भद्रे कल्याणे फले स्याम सर्वदा तिष्ठेम। अत्र विनियोगसंग्रहः-

उशन्तः सामिधेन्येका पितृयज्ञे महत्यसौ। त्वं सोमेत्यनुवाक्ये द्वे पितृमन्नामके तथा।।

त्वं याज्याऽग्निष्वेति मन्थेऽनुवाक्या प्रथमा भवेत्। बर्हिर्द्वे शनुवाक्ये तु याज्यैका बर्हिषद्यजौ।।

उपहोमा उदीरेति त्रयस्तत्त्रययागके। कव्यवाहनयागे तु यदग्ने तिस्र ईरिताः।।

पुरोनुवाक्ये द्वे तत्र याज्यैका याम्ययागके। इमं पुरोनुवाक्ये द्वे याज्यैका पूर्ववन्मता।

अन्तिमे ह्यनुवाकेस्मिन्मन्त्राः सप्तदशेरिताः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।।

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये

द्वितीयकाण्डे षष्ठः प्रपाठकः।। ६ । । इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये

द्वितीयः काण्डः समाप्तः ।। ५ ।। मूलक्रमेण द्वितीयाष्टके—प्र. ६ अ. ७५। भाष्यक्रमेण द्वितीयकाण्डे—प्र. ६ अ. ७५।

"मूलक्रमेणाऽदितः समष्ट्यङ्काः का. २ प्र. १४ अ. २२१।भाष्यक्रमेणाऽदितः समष्ट्यङ्काः का. २ प्र. १४ अ, २१५।"

समाप्तोऽयं श्रीमत्सायणाचार्यविरचितभाष्यस हितकृष्णयजुर्वेदीयतैत्तिरीयसंहिताया द्वितीयः काण्डः।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 महापितृयज्ञे सामिधेनी एकैव त्रिरुच्यते । उशन्त इत्यनुष्टुप् ॥ उशन्तः कामयमानाः पितॄन् त्वा हवामहे आह्वयामः । तानेव कामयमानास्त्वां समिधीमहि सम्यग्दीपयामः । त्वमपि तान् पितॄन् उशन्नावह । कीदृशान् उशतः हविरत्तुं कामयमानान् हविषे अत्तवे हविर्भोक्तुं । तुमर्थे तवै प्रत्ययः, कर्मणस्सप्रदानत्वाच्चत्तुर्थी ॥
2 सोमबर्हिषदग्निष्वात्तकव्यवाहनानां क्रमेण द्वेद्वे पुरोनुवाक्ये एकैकस्य तूत्तरा याज्या सर्वास्त्रिष्टुभः । विशेषो वक्ष्यते - त्वं सोमेति ॥ हे सोम! त्वं प्रचिकितः प्रकर्षेण ज्ञातः । निष्ठायां छान्दस्मं द्विर्वचनम्, यङ्लुकि वा अभ्यासविकाराभावः, 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । 'चिक' इति वा धात्वन्तरं द्रष्टव्यम् । मनीषा मनीषावद्भिः । यद्वा - विशिष्टया मनीषया व्यभिचाराभावात् । 'सुपां सुलुक्' इति विभक्तेराकारः । किंच – त्वं रजिष्ठं ऋजुतरं पन्थां पन्थानम् । ऋजुशब्दादिष्ठनि 'विभाषर्जोश्छन्दसि' इति रेफः । यद्वा - रजः उदकं अतिशयेन तद्वान् रजिष्ठः । रजश्शब्दादिष्ठन् 'विन्मतोर्लुक्', 'टेः' इति टिलोपः । ईदृशं पन्थानं अनुनेषि अनुक्रमेण प्रापयसि । नयतोर्लिटि शपो लुक् । किञ्च - हे इन्दो! सोम! तव प्रणीती प्रणीत्या परिचरणेन पुरस्कारेण वा । 'सुपां सुलुक्' इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । अस्माकं पितरः पूर्वेषु देवेषु रत्नं रमणीयं हविरन्नमभजन्त धीराः धीमन्तः । मत्वर्थीयो रप्रत्ययः ॥
3 त्वया हीति ॥ हे सोम नः अस्माकं पूर्वे पितरः त्वया खलु हेतुना त्वत्प्रसादेन कर्माणि ज्योतिष्टोमदीनि पितृयज्ञादीनि वा चक्रुः कृतवन्तः । धीराः । गतम् । हे पवमान शोधक तस्मात्कारणात् अस्माकमपि त्वं वन्वन् अस्माकं संभजन् अवातः वातरहितः स्वयमेव ज्वलन् । यद्वा - अकार उपमायां अयं वायुसदृशः, दीर्घकारित्वं साडृश्यं । परिधीन् परितो धारयितॄन् आत्मनः प्रतिबन्धॄन् अपोर्णु अपानुद प्रतिबन्धकापनोदेन शीघ्रमागच्छेति । रुत्वानुनासिकावुक्तौ । वीरेभिः विक्रान्तैरश्वैः शीघ्रमागच्छेति । ततश्चागत्य नः अस्माकं मघवा धनवान् भव । अस्मभ्यं धनं दातुं हस्ते गृहाण । यद्वा - हविषा धनेन तद्वान् भव । 'छन्दसीवनिपौ' इति मत्वर्थीयो वनिप्रत्ययः । 'द्व्यचोतस्तिङः' इति भवशब्दस्य संहितायां दीर्घः ॥
4 त्वं सोमेति ॥ हे सोम! त्वं पितृभिः पूर्वैरास्माकीनैः संविदानः ऐकमत्यं गतः इत्थं वयमस्मै कुर्म इति द्यावापृथिव्यौ अन्वाततन्थ अनुक्रमेण दीप्त्या । अततेः 'बभूथाततन्थ' इति निपात्यते । हे इन्दो! तस्मै तादृशाय ते तुभ्यं हविषा विधेम परिचरेम तदर्थां आततदीप्तिर्भव । प्रयोजनं च ब्रूमः । वयं रयीणां धनानां पतयः स्याम भूयास्मेति हविषा विधेम त्वाम्, त्वं च द्यावापृथिवी दीप्त्या आततन्थ पितृभिश्च संविदानो भव इति । 'समोगमृच्छि' इति विदेरात्मनेपदम् ॥
5 अग्निष्वात्ता इति जगती ॥ हे अग्निष्वात्ताः अग्निष्वेव हवन्ते ये हविषां भोक्तारः आस्वादनिबद्धभावाः । आमन्त्रिताद्युदात्तत्वम् । हे पितरः! इह कर्मणि आगच्छत हे सुप्रणीतयः सुखपरिचरणाः सदस्सदः आत्मीयमात्मीयं सदनं सदत सीदत । सीदतिः प्राप्तिकर्माऽयमिदानीम् । यद्वा - 'सुपां सुलुक्' इति सप्तम्या लुक् । सदस्सदः सदसिसदसि सीदत । विकरणव्यत्ययेन शः । ततश्चात्ताश्नीत हवींषि पितरो बर्हिषदः । ब्राह्मणं च, 'ये वै यज्वानः । ते पितरो बर्हिषदः ।' इति ॥
6 आमन्त्र्यन्ते - हे बर्हिषदः पितरः ऊती ऊत्या गमनेन अर्वाक अस्मान् प्रत्यभिमुखा भूत्वा । 'ऊतियूति' इत्यादिना उदात्तः क्तिन्निपातितः, 'सुपां सुलुक्' इति तृतीयायाः पूर्वसवर्णः, 'उदात्तस्वरितयोर्यणः' इति ततःपरस्याकारस्य संहितायां स्वरितत्वम् । इमानि हव्यानि हवींषि । उभयत्र 'शेश्छन्दसि' इति लोपः । युष्मदर्थं चकृम कुर्मो वयम् । 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । तानि यूयं जुषध्वं सेवध्वम् । तिङः परत्वात् न निहन्यते । तदर्थं ते च यूयं आगत आगच्छत । लोटि 'बहुलं छन्दसि' इति शपो लुक् । अवसा प्रीत्या शन्तमेन सुखतमेन मनुष्यादिप्रीतेः अथ अनन्तरमागत्य हवींषि च सेवित्वा अस्मभ्यं शंयोश्च अरपः अपापः उभयलोकाविरुद्धं दधात दत्त आपत्तापशमनं रोगाणां नाशनं यावनं भयानां पृथक्करणमागामिनो निरोधः । यौतेरसुनि गुणे अवादेशाभावश्छान्दसः ॥
7 आहमिति ॥ सुविदत्रान् शोभनवेदनान् सुष्ठु वदन्तीति सुविदत्राः । विदेः कर्तृप्रत्ययः, कृदुत्तपदप्रकृतिस्वरत्वम् । अहं तानावित्सि आभिमुख्येन लब्धवानस्मि । विन्दतेर्लुङि 'लिङ्सिचावात्मनेपदेषु' इति कित्वम् । किञ्च - विष्णोर्यज्ञात्मनो नपातं च विक्रमणं च आवित्सीत्येव तेषामेव प्रसादान्नपातनमभ्रेषः कर्माङ्गानाम् । ण्यन्तात्क्विपि नञ्समासे 'नभ्राण्नपात्' इति नलोपाभावो निपात्यते । विविधं सङ्क्रममणं विक्रमणं विश्लिष्टकर्मनिष्पत्तिः । विशिष्टफलप्राप्तिहेतुत्वं वा कर्मणः । कस्मादेवमुच्यते इत्याह - ये बर्हिषदः पितरः स्वधया अन्नेन सह सुतस्य सोमस्यान्नं सोमं च भजन्त अभजन्त यज्वान इति यावत् । 'बहुलं छन्दस्यमाङ्योगेपि' इत्यडभावः । ते पितरः इह अस्मिन् कर्मणि पित्वः पिन्वन्ति आगमिष्ठाः । 'सुपां सुलुक्' इति सप्तम्याः स्वादेशः । अतिशयेन गन्तारः । 'तुश्छन्दसि' इत्यागन्तृशब्दादिष्ठन्प्रत्ययः, 'तुरिष्ठेमेयस्सु' इति लोपः ॥
8 उपहूताः ये पितरः अस्मिन् कर्मणि अस्माभिरुपहूताः सोम्यासः सोमार्हाः । 'सोममर्हति' इति यप्रत्ययः । बर्हिष्येषु यागसंबन्धिषु । भवे साधौ वा यः । सन्निधिषु निधीयन्त इति निधयः हवींषि । 'उपसर्गे घोः किः' तेषु निमित्तेषु सप्तमी । प्रियेषु इष्टतमेषु ये आहूताः आगमन्तु आगच्छन्तु । 'सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति छत्वाभावः । अतः इह कर्मणि अस्मत्प्रयुक्तास्स्तुतीः श्रुवन्तु शृण्वन्तु । 'बहुलं छन्दसि' इति शपो लुक् । अधिब्रुवन्तु तेऽस्मान् पक्षपातेन वा अस्मान् आधिक्येन ब्रुवन्तु साधुकृतमेभिरिति । अवन्तु चास्मान्पितरस्ते ॥
9 उदीरतामिति ॥ उदीरतां उदीर्णा भवन्तु उद्गच्छन्तु । ईर गतौ, आदादिकः 'आत्मनेपदेष्वनतः' इत्यदादेशः । अवरे अधस्तात् स्थिताः पृथिवीस्थिता वा निकृष्टा वा परासः पराः उत्कृष्टा उच्छ्रितस्थानस्था वा ते च पितर उदीरतां मध्यमाश्च पितर उदीरतां सोम्यासः सोमार्हाः । 'सोममर्हति' इति यः । ये असुं प्राणं हेतुत्वेन वारकत्वेन ईयुः प्रविष्टाः अवृकाः बाधकस्वभावरहिताः । कुक वृक आदाने, इगुपलक्षणः कः । ऋतज्ञाः ऋतस्य सत्यस्य यज्ञस्य वा ज्ञातारः ते तथा महानुभावाः नः अवन्तु प्रीणयन्तु वा हवेषु आह्वानेषु अस्मान् तृप्यन्तु वा अस्मद्यज्ञेषु ॥
10 इदमिति ॥ इदं नमः अन्नं प्रणामो वा पितृभ्योऽस्तु । अद्य अस्मिन् कर्मणि केभ्यः ये पूर्वासः ईयुः पूर्वमेव स्वर्गं गता ये चोपरास ईयुः उपरिभूतास्तेषां समीपभूता अन्तरिक्षस्थाः तेषां वा कुले अन्तरिक्षे स्थिताः ये च पार्थिवे रजसि लोके आनिषत्ता आनिषण्णाः सर्वतः । 'पृथिव्या ञाञौ' इति स्वार्थिको ञः । यद्वा - पृथिवीसंबन्धिनि लोके स्थिताः । नूनमिति पादपूरणे । ये वा सुवृजनासु शोभनधनासु विक्षु प्रजासु कर्मशीलासु निषण्णाः । यद्वा - उपरासः उपरणशीलाः निवृत्तिप्रधानाः पार्थिवे पृथिव्यां भवे रजसि कर्मणि पुण्यापुण्यात्मके व्यामिश्रे निषण्णाः सुवृजनासु शोभनधनासु कर्मशेषधनासु धार्मिकेषु अपापासु प्रजासु निषण्णाः तेभ्यस्सर्वेभ्यो नमोऽस्त्विति ॥
11 अधेति ॥ अध अत एव कर्मसामर्थ्यात् अस्माकं परासः पूर्वे पितरः प्रत्नासः ततोपि पूर्वे पितरः हे अग्ने ऋतं सत्यं यज्ञं वा आशुषाणा अश्नुवानाः । अश्नोतेः छान्दसे लिटि रूपम्, तत्र क्वसुकानचोश्छान्दसस्समावेशः । अयस्मयादित्वेन भत्वाद्द्वयोस्संप्रसारणम् । यद्वा - द्विविकरणत्वं लिटि व्यत्ययेन भवति, उप्रत्ययः । ते च शुचि शुद्धं स्थानम् । इदित्यवधारणे । शुच्येव स्थानं यथाऽयन् आगच्छन् दीधितिं स्थानं तद्योगात्ताच्छब्द्यम् । उक्थशासः उक्थै स्तोत्रैः । यत्प्रत्ययः ॥
12 यदिति अनुष्टुप् ॥ हे अग्ने कव्यवाहन हविषो वाहक यद्यस्मात्पितॄन् ऋतावृधः ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितॄन् यक्षि यजसि । बहुलं छन्दसि इति शपो लुक् । तस्मात्त्वमेव हव्यानि प्रवक्ष्यसि प्रवहसि देवेभ्यश्च पितृभ्यश्च । आकारस्समुच्चये । तस्मादेवं महानुभावं त्वामेव वयं यजाम इति ॥
13 त्वमिति ॥ हे अग्ने जातवेदः जातानां वेदितः प्रजावेदितः त्वं ईडितः स्तुतः अवाट् हव्यानि । वहेश्छान्दसो लुङ् । ततश्च तानि सुरभीणि कृत्वा पितृभ्यः प्रादाः प्रदेहि स्वधया अन्नेन सहैव । ततस्ते पितरः तानि प्रयतानि शुद्धानि हवींषि अक्षन् अदन्तु । अदेश्छान्दसो 'लुङ्सनोर्घसॢ' इति घस्लादेशः, 'मन्त्रे घस' इति च्लेर्लुक्, 'घसिभसोर्हलि च' इत्युपधालोपः । देव त्वमपि तानि हवींषि अद्धि भक्षय सततमस्मानुपकारिणः कुर्विति भावः ॥
14 वावृधान इति ॥ प्रत्येकं कव्यादिभिस्संपद्यते । मातलिना तद्वानिन्द्रो मातलिः । छान्दस इनिर्व्रीह्यादिवद्द्रष्टव्यः । स कव्यैः कव्यवाहिभिः पितृभिः सह वावृधानः वर्धमानः । शपः श्लुः, ताच्छीलिकश्चानश् । यमः पितृराजः सोऽङ्गिरोभिः पितृविशेषैः सह वावृधानः । बृहस्पतिः ऋक्वभिः मन्त्रवद्भिः स्तुतिमद्भिर्वा पितृविशेषैः सह वावृधानः । 'छन्दसीवनिपौ' इति वनिप्प्रत्ययः, अयस्मयादित्वेन पदत्वात्कुत्वं, भत्वाज्जश्त्वाभावः । यांश्च पितॄन् देवाः वावृधुः वर्धयन्ति । व्यतयेन परस्मैपदम्, तुजादित्वादभ्यासस्य दीर्घत्वम् । ये च पितरो देवान् वावृधुरिति । ये च तत्रान्ये एके देवाः पितॄणां वर्धयितारः स्वाहाकारेण मदन्ति मोदन्ताम् । अथान्ये एके पितरः स्वधया स्वधाकारेण मदन्तीत्येव । माद्यतेर्व्यत्ययेन शः ॥
15 इममिति ॥ हे पितृराज इमे प्रस्तरं प्रस्तीर्णमाश्रमं आसीद अङ्गिरोभिः पितृविशेषैः संविदानः ऐकमत्यं गच्छन् । तत आसीदन्तं त्वां कविशस्ताः कविभिर्मेधाविभिः आस्माकीनैः ऋत्विग्भिः शस्ताः मन्त्राः आवहन्तु प्राप्नुवन्तु । ततः एना अनेन हविषा राजन् राजनशील मादयस्व । मद तृप्तियोगे, चौरादिकः ॥
16 अङ्गिरोभिरिति ॥ हे यम अङ्गिरोभिस्सह आगहि आगच्छ । पूर्ववत् शपो लुक् । यज्ञियेभिः यज्ञार्हैः वैरूपैः विविधकर्मरूपसंबन्धिभिः, वैरूपसामप्रियैर्वा । यद्वा - स्वार्थिकोऽण् । विरूपैः विविधरूपैस्सह इह कर्मणि मादयस्व । अथ यस्तव पिता तं विवस्वन्तं हुवे आह्वयामि । सोप्यस्मिन् यज्ञे आगत्य बर्हिषि निषद्य माद्यताम् ॥
17 अङ्गिर इति ॥ अङ्गिरसः पितृविशेषाः अस्माकं च पितरः नवग्वाः अभिनवागमनाः आगमने अभिनवा इव प्रियाः । क्विपि 'ऊङ् च गमादीनाम्' इत्यूकारः । आगमनमायातु उपसर्गयोस्स्वस्थानविनिमयः वा बहुव्रीहौ । नवग्वा अथर्वाणश्च भृगवश्च पितृविशेषाः प्रशस्ताः सोम्यासः सोमार्हाः येऽप्येवंविधा महानुभावाः पितरस्तेषां यज्ञियानां यज्ञार्हाणां सुमतौ शोभनायां मतौ सानुग्रहायां वयं स्याम भूयास्म । अपि च, भद्रे भजनीये कल्याणे सौमनसे सौमनस्यहेतुके तत्प्रदानहेतुके सर्वाभिमत सिद्धिरूपे कल्याणे च स्यामेति । येऽत्र अविनियुक्ता मन्त्राः ते लिङ्गेन क्वाप्यनुरूपे कर्मणि विनियोक्तव्याः ॥
इति श्रीभिट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये द्वितीये काण्डे षष्ठे प्रश्ने द्वादशोऽनुवाकः ॥

समाप्तष्षष्ठप्रपाठकः ॥

द्वितीयकाण्डश्च ॥

—-----------------------

पञ्चशत् 2 #
TS 2.6.12.2 TS 2.6.12.2
नः ॥ त्वꣳ सो॑म पि॒तृभिः॑ संॅविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ । तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यꣳ स्या॑म॒ पत॑यो रयी॒णां ॥ अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑ सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वीꣳषि॒ प्रय॑तानि ब॒र्॒.हिष्यथा॑ र॒यिꣳ सर्व॑वीरं दधातन ॥ बर्.हि॑षदः पितर ऊ॒त्य॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षद्ध्वं᳚ । त आ ग॒ताऽ*व॑सा॒ शं त॑मे॒नाथा॒स्मभ्यꣳ॒॒ - [ ]
पदपाठः (Word-by-word)
नः॒ ॥ त्वम् । सो॒म॒ । पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ । सं॒ॅवि॒दा॒न इति॑ सं - वि॒दा॒नः । अन्विति॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚-पृ॒थि॒वी । एति॑ । त॒त॒न्थ॒ ॥ तस्मै᳚ । ते॒ । इ॒न्दो॒ इति॑ । ह॒विषा᳚ । वि॒धे॒म॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥ अग्नि॑ष्वात्ता॒ इत्यग्नि॑- स्वा॒त्ताः॒ । पि॒त॒रः॒ । एति॑ । इ॒ह । ग॒च्छ॒त॒ । सदः॑ सद॒ इति॒ सदः॑ - स॒दः॒ । स॒द॒त॒ । सु॒प्र॒णी॒त॒य॒ इति॑ सु - प्र॒णी॒त॒यः॒ ॥ अ॒त्त । ह॒वीꣳषि॑ । प्रय॑ता॒नीति॒ प्र - य॒ता॒नि॒ । ब॒र्॒.हिषि॑ । अथ॑ । र॒यिम् । सर्व॑वीर॒मिति॒ सर्व॑ - वी॒र॒म् । द॒धा॒त॒न॒ ॥ बर्.हि॑षद॒ इति॒ बर्.हि॑ - स॒दः॒ । पि॒त॒रः॒ । ऊ॒ती । अ॒र्वाक् । इ॒मा । वः॒ । ह॒व्या । च॒कृ॒म॒ । जु॒षद्ध्व᳚म् ॥ ते । एति॑ । ग॒त॒ । अव॑सा । शंत॑मे॒नेति॒ शं - त॒मे॒न॒ । अथ॑ । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.6.12.3 TS 2.6.12.3
शं ॅयोर॑र॒पो द॑धात ॥ आऽहं पि॒तॄन्थ् सु॑वि॒दत्राꣳ॑ अविथ्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः᳚ । ब॒र्॒.हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाऽऽ ग॑मिष्ठाः ॥ उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्.हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ । त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् ॥ उदी॑रता॒मव॑र॒ उत् परा॑स॒ उन्म॑द्ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ । असुं॒ - [ ]
पदपाठः (Word-by-word)
शम् । योः । अ॒र॒पः । द॒धा॒त॒ ॥ एति॑ । अ॒हम् । पि॒तॄन् । सु॒वि॒दत्रा॒निति॑ सु - वि॒दत्रान्॑ । अ॒वि॒थ्सि॒ । नपा॑तम् । च॒ । वि॒क्रम॑ण॒मिति॑ वि - क्रम॑णम् । च॒ । विष्णोः᳚ ॥ ब॒र्॒.हि॒षद॒ इति॑ बर्.हि - सदः॑ । ये । स्व॒धयेति॑ स्व - धया᳚ । सु॒तस्य॑ । भज॑न्त । पि॒त्वः । ते । इ॒ह । आग॑मिष्ठा॒ इत्या - ग॒मि॒ष्ठाः॒ ॥ उप॑हूता॒ इत्युप॑ - हू॒ताः॒ । पि॒तरः॑ । सो॒म्यासः॑ । ब॒र्॒.हि॒ष्ये॑षु । नि॒धिष्विति॑ नि-धिषु॑ । प्रि॒येषु॑ ॥ ते । एति॑ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । अधीति॑ । ब्रु॒व॒न्तु॒ । ते । अ॒व॒न्तु॒ । अ॒स्मान् ॥ उदिति॑ । ई॒र॒ता॒म् । अव॑रे । उदिति॑ । परा॑सः । उदिति॑ । म॒द्ध्य॒माः । पि॒तरः॑ । सो॒म्यासः॑ ॥ असु᳚म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.6.12.4 TS 2.6.12.4
ॅय ई॒युर॑ वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥ इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नꣳ सु॑वृ॒जना॑सु वि॒क्षु ॥ अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः । शुचीद॑य॒न् दीधि॑ति मुक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन्न् ॥ यद॑ग्ने - [ ]
पदपाठः (Word-by-word)
ये । ई॒युः । अ॒वृ॒काः । ऋ॒त॒ज्ञा इत्यृ॑त - ज्ञाः । ते । नः॒ । अ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥ इ॒दम् । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । नमः॑ । अ॒स्तु॒ । अ॒द्य । ये । पूर्वा॑सः । ये । उप॑रासः । ई॒युः ॥ ये । पार्थि॑वे । रज॑सि । एति॑ । निष॑त्ता॒ इति॒ नि - स॒त्ताः॒ । ये । वा॒ । नू॒नम् । सु॒वृ॒जना॒स्विति॑ सु-वृ॒जना॑सु । वि॒क्षु ॥ अध॑ । यथा᳚ । नः॒ । पि॒तरः॑ । परा॑सः । प्र॒त्नासः॑ । अ॒ग्ने॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ॥ शुचि॑ । इत् । अ॒य॒न्न् । दीधि॑तिम् । उ॒क्थ॒शास॒ इत्यु॑क्थ - शासः॑ । क्षाम॑ । भि॒न्दन्तः॑ । अ॒रु॒णीः । अपेति॑ । व्र॒न्न् ॥ यत् । अ॒ग्ने॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.6.12.5 TS 2.6.12.5
कव्यवाहन पि॒तॄन्. यक्ष्यृ॑ता॒वृधः॑ । प्र च॑ ह॒व्यानि॑ वक्ष्यसि दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥ त्वम॑ग्न ईडि॒तो जा॑तवे॒दोऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा । प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीꣳषि॑ ॥ मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒ र्बृह॒स्पति॒र्॒. ऋक्व॑भि र्वावृधा॒नः । याꣳश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्थ् स्वाहा॒ऽन्ये स्व॒धया॒ऽन्ये म॑दन्ति ॥
पदपाठः (Word-by-word)
क॒व्य॒वा॒ह॒नेति॑ कव्य - वा॒ह॒न॒ । पि॒तॄन् । यक्षि॑ । ऋ॒ता॒वृध॒ इत्यृ॑त - वृधः॑ ॥ प्रेति॑ । च॒ । ह॒व्यानि॑ । व॒क्ष्य॒सि॒ । दे॒वेभ्यः॑ । च॒ । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । आ ॥ त्वम् । अ॒ग्ने॒ । ई॒डि॒तः । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । अवा᳚ट् । ह॒व्यानि॑ । सु॒र॒भीणि॑ । कृ॒त्वा ॥ प्रेति॑ । अ॒दाः॒ । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । स्व॒धयेति॑ स्व - धया᳚ । ते । अ॒क्ष॒न्न् । अ॒द्धि । त्वम् । दे॒व॒ । प्रय॒तेति॒ प्र - य॒ता॒ । ह॒वीꣳषि॑ ॥ मात॑ली । क॒व्यैः । य॒मः । अङ्गि॑रोभि॒रित्यङ्गि॑रः - भिः॒ । बृह॒स्पतिः॑ । ऋक्व॑भि॒रित्यृक्व॑-भिः॒ । वा॒वृ॒धा॒नः ॥ यान् । च॒ । दे॒वाः । वा॒वृ॒धुः । ये । च॒ । दे॒वान् । स्वाहा᳚ । अ॒न्ये । स्व॒धयेति॑ स्व-धया᳚ । अ॒न्ये । म॒द॒न्ति॒ ॥
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.6.12.6 TS 2.6.12.6
इ॒मं ॅय॑म प्रस्त॒रमाहि सीदाङ्गि॑रोभिः पि॒तृभिः॑ संॅविदा॒नः । आत्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्. ह॒विषा॑ मादयस्व ॥ अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व । विव॑स्वन्तꣳ हुवे॒ यः पि॒ता ते॒ऽस्मिन्. य॒ज्ञे ब॒र्॒.हिष्या नि॒षद्य॑ ॥ अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ । तेषां᳚ ॅव॒यꣳ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से ( ) स्या॑म ॥
पदपाठः (Word-by-word)
इ॒मम् । य॒म॒ । प्र॒स्त॒रमिति॑ प्र - स्त॒रम् । एति॑ । हि । सीद॑ । अङ्गि॑रोभि॒रित्यङ्गि॑रः - भिः॒ । पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ । सं॒ॅवि॒दा॒न इति॑ सं - वि॒दा॒नः ॥ एति॑ । त्वा॒ । मन्त्राः᳚ । क॒वि॒श॒स्ता इति॑ कवि - श॒स्ताः । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न्न् । ह॒विषा᳚ । मा॒द॒य॒स्व॒ ॥ अङ्गि॑रोभि॒रित्यङ्गि॑रः - भिः॒ । एति॑ । ग॒हि॒ । य॒ज्ञिये॑भिः । यम॑ । वै॒रू॒पैः । इ॒ह । मा॒द॒य॒स्व॒ ॥ विव॑स्वन्तम् । हु॒वे॒ । यः । पि॒ता । ते॒ । अ॒स्मिन्न् । य॒ज्ञे । ब॒र्॒.हिषि॑ । एति॑ । नि॒षद्येति॑ नि - सद्य॑ ॥ अङ्गि॑रसः । नः॒ । पि॒तरः॑ । नव॑ग्वाः । अथ॑र्वाणः । भृग॑वः । सो॒म्यासः॑ ॥ तेषा᳚म् । व॒यम् । सु॒म॒ताविति॑ सु - म॒तौ । य॒ज्ञिया॑नाम् । अपीति॑ । भ॒द्रे । सौ॒म॒न॒से ( ) । स्या॒म॒ ॥
पदसंख्या: 51